________________
१०४
दशवैकालिक-मूलसूत्र-३/-/२३ च तथा 'इक्षुखण्डंच' लोकप्रतीतम्, अनिर्वृतग्रहणं सर्वत्राभिसंबध्यते, अनिर्वृत्तम-अपरिणतमनाचरितमिति, इक्षुखण्डंचापरिणतं द्विपर्वान्तं यद्वर्तते ३२-३३-३४, तथा कन्दो' वज्रकन्दादिः ३५, 'मूलं च सट्टामूलादि, सचित्तमनाचरितम् ३६, तथा 'फलं' पुष्यादि ३७, 'बीजं च' तिलादि ३८, 'आमकं' सचित्तमनाचरितमिति सूत्रार्थः ।। मू.(२४) सोवच्चले सिंघवे लोणे, रोमालोणे यआमए।
सामुद्दे पंसुखाये य, कालालोणे य आमए॥ वृ.किंच-'सोवच्चले'त्ति सूत्रम्, अस्य व्याख्या-सौवर्चलं ३९, सैन्धवं ४०, लवणं च' सांभरिलवणं ४१, रुमालवणंच ४२, आमकमिति सचित्तमनाचरितम्, सामुद्र-समुद्रलवणमेव ४३, 'पांशुक्षारश्च' उषरलवणं ४४, 'कृष्णलवणं च' सैन्धवलवणपर्वतैक-देशजम् ४५, आमकमनाचरितमिति सूत्रार्थः । मू.(२५) धुवणे तिवमणे य, वत्थीकम्म विरेयणे।
अंजणेदंतवणे य, गायाब्भंगविभूसणे।। वृ.किं च -'धूवणे'तिसूत्रम्, अस्यव्याख्या-धूपनमित्यात्मवस्त्रादेरनाचरितम्, प्राकृतशैल्या अनागतव्याधिनिवृत्तये धूमपानमित्यन्ते व्याचक्षते ४६, वमनं मदनफलादिना ४७, वस्तिकर्म पुटकेनाधिष्ठाने स्नेहदानं ४८, विरेचनंदन्त्यादिना ४९, तथा अञ्जनंरसाञ्जनादिना -५०,दन्तकाष्ठंच प्रतीतं ५१, तथा गात्राभ्यङ्गस्तैलादिना ५२, विभूषणं गात्राणामेव ५३, इति। मू.(२६) . सव्वमेयमणान्नं, निग्गंथाण महेसिणं।
संजमंमि अजुत्ताणं, लहुभूयविहारिणं॥ वृ.क्रियासूत्रमाह-'सव्वमेयं'तिसूत्रम्, अस्यव्याख्या-सर्वमेतद्-औद्देशिकादियदनन्तमुक्तमिदमनाचरितं, केषामित्याह-निर्ग्रन्थानां महर्षीणां साधूनामित्यर्थः, त एव विशेष्यन्तेसंयमे, चशब्दात्तपसि, युक्तानाम्-अभियुक्तानां लघुभूतविहारिणां' लघुभूतो-वायुः, ततश्च वायु-भूतोऽप्रतिबद्धतया विहारोयेषांतेलधुभूतविहारिणस्तेषां, निगमनक्रियापदमेतदिति सूत्रार्थः। किमित्यनाचरितं?, यतस्त एवंभूता भवन्तीत्याहमू.(२७) पंचासवपरिण्णाया, तिगुत्ता छसु संजया।
पंचनिग्गहणा धोरा, निग्गंथा उज्जुदंसिणो। वृ.'पञ्चाश्रवा' हिंसादयः परिज्ञाता' द्विविधया परिज्ञया-ज्ञपरिज्ञया प्रत्याख्यान-परिज्ञया च परि-समन्ताज्ज्ञातायैस्ते पञ्चाश्रवपरिज्ञाताः, आहिताग्नयादेराकृतिगणत्वाननिष्ठाया: पूर्वनिपातइति समासोयुक्त एव, परिज्ञातपञ्चाश्रवा इतिवा, यत एव चैवंभूता अतएव 'त्रिगुप्ता' मनोवाकायगुप्तिभिः गुप्ता। 'षट्सु संयताः' षट्सु जीवनिकायेषु पृथिव्यादिषु सामस्त्येन यताः, 'पञ्चनिग्रहणा' इति निगृह्णन्तीति निग्रहणाः कर्तरिल्युट्पञ्चानां निग्रहणाः पञ्चनिग्रहणाः, पञ्चानामितीन्द्रियाणां, धीरा' बुद्धिमन्तः स्थिरा वा, 'निर्ग्रन्थाः' साधवः, 'ऋजुदर्शिन' इति ऋजुर्मोक्षं प्रति ऋजुत्वात्स्यमस्तं पश्यन्त्युपादेयतयेति ऋजुदर्शिनः-संयमप्रतिबद्धाः इति सूत्रार्थः ।। मू.(२८) आयावयंति गिम्हेसु, हेमंतेसुअवाउडा।
वासासु पडिसलीणा संजया सुसमाहिया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org