SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ३, उद्देशक: [ नि. २१६ ] मू. ( २० ) - १०३ अट्ठावए य नालीए, छत्तस्स य धारणट्ठाए । तेगिच्छं पाहणा पाए, समारंभं च जोइणो ॥ वृ. किंच- 'अट्ठावए य' सूत्रम्, अस्य व्याख्या- अष्टापदं चेति, 'अष्टापदं' द्यूतम्, अर्थपदं वा-गृहस्थमधिकृत्य नीत्यादिविषयमनाचरितं १७, तथा 'नालिका चे 'ति द्यूतविशेषलक्षणा, माभूत्कलयाऽन्यथा पाशकपातनमिति नलिकया पात्यन्त इति, इयं चानाचरिता १८, अष्टापदेन सामान्यतो द्यूतग्रहणे सत्यप्यभिनिवेशनिबन्धनत्वेन नालिकायाः प्राधान्यख्यापनार्थं भेदेन उपादानम्, अर्थपदमेवोक्तार्थं तदित्यन्ये अभिदधति, अस्मिन् पक्षे सकलद्यूतोपलक्षणार्थं नालिकाग्रहणम्, अष्टापदद्यूतविशेषपक्षे चोभयोरिति । तथा 'छत्रस्य च' लोकप्रसिद्धस्य धारणमात्मानं परंवा प्रत्यनर्थायेति, आगढग्लानाद्यालम्बनं मुक्त्वाऽनाचरितं, प्राकृतशैल्या चात्रानुस्वारलोपोऽकारनकारलोपौ च द्रष्टव्यौ, तथा श्रुतिप्रामाण्यादिति १९, तथा 'तेगिच्छतं त्ति, चिकित्साया भावश्चैकित्स्यं व्याधिप्रतिक्रियारूपमनाचरितं २० तथोपनहौपादयोरनाचरिते, पादयोरिति साभिप्रायकं, न त्वापत्कल्पपरिहार्थमुपग्रहधारणेन २१, तथा 'समारम्भश्च' समारम्भणं च 'ज्योतिष:' अग्नेस्तंदनाचरितमिति २२, दोषा अष्टापदादीनाकक्षुण्णा एवेति सूत्रार्थः । सिज्जायरपिंडं च, आसंदीपलियंकए। I पू. (२१) गिहंतरनिसिज्जा य, गायस्सुव्वट्टणाणि य ॥ बृ.किंच-'सज्जायर' सूत्रम्, अस्य व्याख्या - शय्यातरपिण्डश्चानाचरितः, शय्यावसतिस्तया तरति संसारमीति शय्यातरः - साधुवसतिदाता, तत्पिण्डः २३, तथा आसन्कदकपर्यङ्कौ अनाचरितौ, एतौ च लोकप्रसिद्धावेव - २४-२५, तथा गृहान्तरनिषद्या अनाचरिता, गृहमेव गृहान्तरं गृहयोर्वा अपान्तरालं तत्रोपवेशनम्, चशब्दात्पाटकादिपरिग्रहाः २६, तथा गात्रस्यकायस्तोद्वर्तनानि चानाचरितानि, उद्वर्तनानि - पङ्कापनयनलक्षणानि, चशब्दादन्यसंस्कारपरिग्रहः २७, इति सूत्रार्थः ॥ मू. (२२) गिहिणो वेआवडियं, जाय आजीववत्तिया । तत्तानिव्वुडभोइत्तं, आउरस्सरणाणि य ॥ वृ. तथा - 'गिहिणो 'त्ति सूत्रम्, अस्य व्याख्या- 'गुहिणो' गृहस्थस्य' वैयावृत्त्यं' व्यावृत्तभावोवैयावृत्त्यं, गृहस्थं प्रत्यन्नादिसंपादनमित्यर्थः, एतदनाचारितमिति २८, तथा च 'आजीववृत्तिता' जातिकु लगणकर्मशिल्पानामाजीवनम् आजीवस्तेन वृत्तिस्तद्भाव आजीववृत्तिताजात्याद्याजीवनेनात्मपालनेत्यर्थः, इयं चानाचरिता २९, तथा 'तप्तानिर्वृतभोजित्वम्' तसंच तदनिर्वृतं च - अत्रिदण्डोद्वृत्तं चेति विग्रहः, उदकमिति विशेषणान्यथानुपपत्या गम्यते, तद्भोजित्वंमिश्रसचित्तोदकभोजित्वम् इत्यर्थः, इदं चानाचरितम् ३०, तथा 'आतुरस्मरणानि च' क्षुधाधातुराणां पूर्वोपभुक्तस्मरणानि च अनाचरितानि, आतुरशरणानि वा दोषातुराश्रयदानानि ३१, इति सूत्रार्थः ॥ मू. ( २३ ) मूलए सिंगबेरे य, अच्छुखंडे अनिव्वुडे । कंदे मूले य सच्चित्ते, फले बीए य आमए ॥ वृ. किंच- 'मूलए 'त्ति सूत्रम्, अस्य व्याख्या- 'मूलको' लोकप्रीततः, 'शृङ्गबेरंच' आर्द्रकम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy