SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १०२ दशवैकालिक-मूलसूत्र-३/-/१७ नान्येति गाथार्थ: । उक्ता कथा, तदभिधानाद्गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादि-चर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारीणयम्, तच्चेदम्मू.(१७) संजमे सुटिअप्पाणं, विष्पमुक्काणं ताइणं। तेसिमेयमणाइण्णं, निगंथाण महेसिणं॥ वृ.इहसंहितादिक्रमः क्षुण्णः, भावार्थस्तवपम्-'संयमे' द्रुमपुष्पिकाव्यावर्णितस्वरूपे शोभनेन प्रकारेण आगमनीत्या स्थित येषां ते सुस्थितात्मानस्तेषां, त एव विशेष्यन्तेविविधम्-अनेकै; प्रकारैः, प्रकर्षण-भावसारं मुक्ताः-परित्यक्ताः बाह्याभ्यन्तरेण ग्रन्थेनेति विप्रमुक्तास्तेषां, त एव विशेष्यन्ते-जायन्ते आत्मानां परमुभयं चेति त्रातारः, आत्मानं प्रत्येकबुद्धाः परंतीर्थकराः, स्वतस्तीर्णत्वाद्, उभयं स्थविरा इति, तेषामिदं-वक्ष्यमाणलक्षणं अनाचरितम्-अकल्प्यं, केषामित्याह-'निर्ग्रन्थानां' साधूनामित्यभिधानमेतत्, महान्तश्च ते ऋषयश्च महर्षयो यतय इत्यर्थः, अथवा महान्तं एषितुं शीलं येषां ते महैषिणस्तेषां, इह च पूर्वपूर्वभाव एव उत्तरो-त्तरभावो नियमितो हेतुहेतुमद्भावेन वेदितव्यः, यत एव संयमे सुस्थितात्मानोऽत एव विप्रमुक्ताः, संयमसुस्थितात्मनिबन्धनत्वाद्विप्रमुक्तेः, एवं शेषेष्वपि द्रष्टव्यमिति सूत्रार्थः॥ मू.(१८) उद्देसियंकीयगडं, नियागमभिहडाणिय। . राइभत्ते सिणाणे य, गंधमल्ले यवीयणे। वृ.साम्प्रतं यदनाचरितं तदाह-'उद्देसियंति उद्देशनं सध्ध्वाद्याश्रित्य दानारम्भस्येत्युद्देशः तत्र भवमौद्देशिकं?,क्रयणं-क्रीतं, भावे निष्ठाप्रत्ययः, साध्वादिनिमित्तमिति गम्यते, तेन कृतं-. निर्वर्तितं क्रीतकृतं २, "नियाग' मित्यामत्रितस्य पिण्डस्य ग्रहणं नित्यं नत्वनामत्रि-तस्य ३, 'अभिहडाणि यत्ति स्वग्रामादेः साधुनिमित्तमभिमुखमानीतमध्याहृतं, बहुवचनं स्वग्रामपरग्रामनिशीथादिभेदख्यापनार्थ ४, तथा रात्रिभक्त' रात्रिभोजनं दिवसगृहीतदिवसभुक्तादिचतुर्भङ्गलक्षणं५, स्नानंच' देशसर्वभेदभिन्नं, देशस्नानमधिष्ठानशौचातिरेकेणाक्षिपक्ष्मप्रक्षालनमपि, सर्वस्त्रानं तु प्रतीतं ६, तथा गन्धमाल्यव्यजनंच' गन्धग्रहणात्कोष्ठपुटादिपरिग्रह: माल्यग्रहणाच्च ग्रथितवेष्टितादेर्माल्यस्यवीजनं तालवृन्तादिना धर्म एव, इंदमानचरितं, दोषाश्चौद्देशिकादिष्वारम्भप्रवर्तमानदयः स्वधियाऽवगन्तव्या इति सूत्रार्थः । मू.(१९) संनिही गिहिमत्ते य, रायपिंडे किमिच्छए। संवाहणा दंतपहोयणाय संपुच्छणा देहपलोयणाय॥ वृ.इदं चानाचरितमित्याह-'सांनिहि'त्ति सूत्रम्, अस्य व्याख्या-संनिधीयतेऽनयाऽऽत्मा दुर्गताविति संनिधिः-धृतगुडादीनां संचयक्रिया १०, 'गृहिमाचं' गृहस्थभाजनं च ११, तथा 'राजापिण्डो' नृपाहारः, कः किमिच्छतीत्येवं यो दीयते स किमिच्छकः, राजपिण्डोऽन्यो वा सामान्येन १२, तथा संबाधनम्' अस्थिमांसत्वग्रोमसुखतया चतुर्विधं मर्दनं १३, 'दन्तप्रधावनं' चाङ्गुल्यादिना क्षालनं १४, तथा 'संप्रश्नः' सावधो गृहस्थविषयः, सदार्थं कीदृशो वाऽहमित्यादिरूपः१५, 'देहप्रलोकनं च' आदर्शादावनाचरितम् १६, दोषाश्च संनिधिप्रभृतिषु परिग्रहप्राणातिपातादयः, स्वधियैव वाच्या इति सूत्रार्थः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy