________________
अध्ययन-३, उद्देशकः- [नि. २१६]
१०५ . वृ.तेच ऋजुदर्शिनः कालमधिकृत्य यथाशक्तयेतत्कृर्वन्ति-'आयावयंति'त्ति सूत्रम्, अस्य व्याख्या-'आतापयन्ति-ऊर्ध्वस्थानादिना आतापनां कुर्वन्ति 'ग्रीष्मेषु' उष्णकालेषु, तथा 'हेमन्तेषु'शीतकालेषु'अप्रावृता' इति प्रावरणरहितास्तिष्ठन्ति, तथा'वर्षासु' वर्षाकालेषु'संलीना' इत्येकाश्रयस्था भवन्ति संयता:' साधवः 'सुसमाहिता' ज्ञानादिषु यत्नपराः, ग्रीष्मादिषु बहुवचनं प्रतिवर्षकरणज्ञापनार्थमिति सूत्रार्थः ॥ मू.(२९) परीसहरिऊदंता, धूअमोहा जिइंदिया।
सव्वदुक्खप्पहीणट्ठा, पक्कमति महेसिणो। वृ. परिसह'त्ति सूत्रम्, अस्य व्याख्या मार्गाच्यवननिर्जरार्थं परिषोढाव्याः परीषहाःक्षुत्पिपासादयः त एव रिपवस्तत्तुल्यधर्मत्वात्परोषहरिपवस्ते दान्ता-उपशमं नीता यैस्ते परीषहरिपुदान्ताः, समासः पूर्ववत्, न प्राकृते पूर्वापरपदनियमव्यवस्था 'नाणविमलजोण्हाग' मिति यथा, तथा 'धुतमोहा' विक्षिप्तमोहा इत्यर्थः, मोह:-अज्ञानं, तथा 'जितेन्द्रिया:' शब्दादिषुरागद्वेषरहिता इत्यर्थः, त एवंभूताः 'सर्वदुःखपक्षयार्थं' शारीरमानसशेषदुःखप्रक्षयनिमित्तं 'प्रकामन्ति' प्रवर्तन्ते, किंभूताः?-'महर्षयः' साधव इति सूत्रार्थः ।। मू.(३०) दुक्कराइंकरित्ताणं, दुस्सहाई सहेत्तु य। .
केइत्थ देवलोएस, केइ सिझंति नीरया।। वृ.इदानीमेतेषां फलमाह-'दुक्कराई"त्ति सूत्रम्, अस्य व्याख्या-एवं दुष्कारिणि कुत्वौद्देशिकादित्यागादीनि तथा दुःहानि सहित्वाऽऽतापनादीनि केचन तत्र 'देवलोकेषु' सौधर्मादिषु, गच्छन्तीति वाक्यशेषः। तथा केचन सिद्धयन्ति, तेनैव भवेन सिद्धि प्राप्नुवन्ति। वर्तमाननिर्देशः. सूत्रस्य त्रिकालविषयत्वज्ञापनार्थः। 'निरजस्का' इत्यष्टविधकर्मविप्रमुक्ताः, न त्वेकेन्द्रिया इव कर्मयुक्ता एवेति सूत्रार्थः॥ मू.(३१) खविता पुचकम्माइं, संजमेण तवेण या
सिद्धिमारपणुप्पत्ता, ताइणो परिणिब्वुड।त्ति बेमि। वृ.येऽपिचैवंविधानुष्ठानतो देवलोकेषु गच्छन्ति तेऽपि ततश्चयुताआर्यदेशेषुसुकुले जन्मावाप्य शीघ्रं सिद्धयन्त्येतदाह-'खवित्त'त्ति सूत्रम्, अस्य व्याख्या-ते देवलोकच्युताः क्षपयित्वा पूर्वकर्माणि सावशेषाणि, केनेत्वाह-'संयमेन' उक्तलक्षणेन तपसा च, एवप्रवाहेण सिद्धिमार्ग' सम्यग्दर्शनादिलक्षणमनुप्राप्ताः सन्तस्त्रातारआत्मादीनां परिनिर्वान्ति' सर्वथा सिद्धि प्राप्नुवन्ति, अन्ये तु पठन्ति-'परिनिव्वुड'त्ति, तत्रापि प्राकृत्तशैल्या छान्दसत्वाच्चायमेव पाठो ज्यायान्, इति ब्रवीमीति पूर्ववदिति सूत्रार्थः । उक्तोऽनुगमः, साम्प्रतं नयाः ते च पूर्ववद्रष्टव्याः।
अध्ययन-३समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशवकालिक सुत्रे द्वितीयअध्ययस्य । भद्रबाहुस्वामिविरचिता नियुक्ति एवं हरिभद्रसूरि विरचिता टीका परि समाप्ता ।
अध्ययन-४ षड्जीवनिकाया .मू. (३२/१ )सुअंमे आउसंतेणं भगवआ एवमक्खायं इह खलु छज्जीवणियानामज्झयणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org