________________
३००
पिण्डनियुक्ति:- मूलसूत्र
साधून वन्दित्वा महत्तरं साधुमपृच्छत्-भगवन् ! रुचितमिदं युष्मभ्यं क्षेत्रं ?, सूरयोऽत्र निजयमांमनास्माकं प्रसादमाधास्यन्ति ? ततः स ज्येष्ठः साधुवादीत् वर्त्तमानयोगेन ततो ज्ञातं जिनदत्तन- यथा न रुचितमिदमेतेभ्यः क्षेत्रमिति, चिन्तयतिच- अन्येऽपि साधवोऽत्र समागच्छन्ति परं न केचिदवतिष्ठन्ते, तन्न जानामि किमत्र कारणमिति, ततः कारणपरिज्ञानाय तेषां साधूनामन्यत्तमं कमपि साधुमृजुं ज्ञात्वा पप्रच्छ, सच यथावस्थितमुक्त वान् यथाऽत्र सर्वेऽपि गुणा विद्यन्ते, गच्छस्यापि च योग्यमिदं क्षेत्र, केवलमात्राचार्यस्य प्रायोग्यः शाल्योदनो न लभ्यते इति नावस्थीयते ।
2
तत एवं कारणं परिज्ञाय तेन जिनदत्तश्राव केणापरस्माद्ग्रमात् शीलाबीजमानी निजग्रामक्षेत्रभूमिषु वापितं, ततः सम्पन्नो भूयान् शालिः, अन्यदा च यथाविहारक्रमं ते वाऽन्ये वा साधवः समायासिषुः, श्रावकश्र चिन्तमास- यथैतेभ्यो मया शाल्योदनो दातव्यो येन सूरीणामिदं योग्यं क्षेत्रमिति परिभाव्य साधवोऽमी सूरीनानयन्ति तत्र यदि निजगृह एव दास्यामि ततोऽन्येषु गृहेषु कोद्रवरालककूरं लभमानानामेतेषामाधाकर्म्मशङ्कोत्पत्स्यतं तस्मात्सर्वेष्वपि स्वजनगृहेषु शालिं प्रषयामीति, तथैव च कृतं, स्वजनांश्चोक्तान यथा स्वयमप्यमुं शालिं पक्त्वा भुञ्जत, साधुभ्योऽपिच ददत, एष चवृत्तान्तः सर्वोऽपिबालादिभिरवजग्मे, साधवध भिक्षार्थमटन्तो यथाऽऽगममेषणासमितिसमिता बालादीनामुक्तानि शृण्वन्ति, तत्र कोऽपि बालको वक्ति - एते ते साधवो येषामर्थाय गृहे शाल्योदनी निरपादि, अन्यो भाषते - साधुसम्बन्धी शाल्योदनो मह्यं जनन्या ददे, दात्री वा क्वचिदेवं भाषते - दत्तः परकीयः शाल्योदनः सम्प्रत्यामीत्यं किमपि ददामि, गृहनायकोऽपि क्वापि ब्रूतेदत्तः शाल्योदनः परकीयः सम्प्रत्यात्मीयं किमपि देहि, बालकोऽपि क्वापि कोऽप्यनभिज्ञो जननीं ब्रूते - श्रम साधुसम्बन्धिनं शाल्यो दनं देहीति, अन्यस्त्वषहरिद्रः सहर्ष भाषते - अहो ! थक्के थक्कावडियमस्माकं सम्पन्नं, इह यद् अवसरेऽवसरानुरूपमापतति तात् थक्के थक्कावडियमित्युच्यते, ततः स एवमाह-येनाभक्ते भक्ताभावेऽस्माकं शालिभक्त मुदपादि ।
अत्रैवार्थे स लौकिकं दृष्टान्तमुदाहरति, सूरग्रामे यशोधराभिस्वधाना काचिदाभीरी तस्या योगराजी नामभर्त्ता, वत्सराजो नामदेवरः, तस्य भार्या योधनी, अन्यदा चमरणपर्यवसानो जीवलोको मरणं चानियतहेतुकमनियतकालमिति योधनीयोगराजी समकालं मरणमुपागती, ततो यशोधरा देवरं वत्सराजमयाचततव भार्याऽहं भवामी देवरोऽपि च ममापि भार्या न विद्यते इति विचिन्त्य प्रतिपन्नवान्, ततः सा चिन्तयामासअहो ! अवसरेऽवसरापतितस्माकमजायत, यस्मिन्नेवावसंरे मम पतिः पञ्चत्वमुपागमत् तस्मिन्नेवावसरे मम देवरस्यापि भार्या मृत्युमगच्छत, ततोऽहं देवरेण भार्यात्वेन प्रतिपन्ना, अन्यथा न प्रतिपद्येत ।
-
तथा क्वापि बालको जननीमाचष्टे मातः ! शालितण्डुलादकमपि साधुभ्यां देहि, अन्यस्त्वाहशालिकाञ्जिकं, तत एवमादीनि बालादिजनजल्पितानिं श्रुत्वा किमेतादिति पृच्छन्ति पृष्टं च सति ये चजवस्तं यथावत्कंथितवन्तीयथायुष्माकमर्थावदंकृतमिति, यतुमायाविनः श्रावकंणवा तथा प्रज्ञापितास्तनकथयन्ति केवलं परस्परं निरीक्षन्तं, तत एवं नूनमिदमाधाकम्मैति परिज्ञाय ताजन सर्वाण्यपि गृहाणि परिहृत्यान्यंषु भिक्षार्थमटन्ति स्म, ये च तत्र न निर्वहन्ति स्म ते तत्रानिर्वहन्तः प्रत्यासन्ने ग्रामे भिक्षार्थमगच्छन, एवमन्यत्राण्याधाकर्म्म सम्भवति, तच्च बालादिजल्पितविशेषस्वगत्य कथानकांक्त साधुभिरिव नियमतो निष्कलङ्कसंयममिच्छुना परिहर्त्तव्यं, सूत्रं तु सकलमपि सुगमं, नवरं 'रूपण' त्ति रोपणं 'परिभायण' त्ति गृहे परिभाजनं 'से' इति एतेभ्यः 'अन्नं'ति अन्यं ग्रामम्। तदेवमुक्तोऽशनस्याधाकर्म्मणः सम्भवः, सम्प्रति पानस्याहमू. (१९० ) लोणागडोदए एवं वाणित्तु महोदगं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org