________________
२००
पिण्डनियुक्तिः-मूलसूत्रं यथा यावन्ता गृहस्था देवदत्तास्तेभ्यो दातव्यमिति, तदा एवं विशेषित' निर्धारि सति तद्योग्यमुपस्कृतं देवदत्ताख्यस्यसाधोःकल्पते,तस्यविवक्षितसङ्कल्पविषयीकरणाभावात्, तथापाखण्डिष्वपिमिश्रामिश्रेष्वेवं पूर्वोक्त प्रकारेणविभाषाकर्त्तव्या,इहसामान्यसङ्कल्पविषयामिश्राउच्यन्ते,यथायावन्तःपाखण्डिनोदेवदत्ता इति, प्रतिनियतसङ्कल्पविषयास्त्वमिश्रायथायावन्तःसरजस्काःपाखण्डिनोयदिवासौगतादेवदत्ताइत्यादि. तत्रयावन्तोदेवदत्ताःपाखण्डिनइति मिश्रसङ्कल्पेकृतेनकल्पतेपाखण्डिदेवदत्तशब्दाभ्यां देवदत्ताख्यस्यापि साधोःसङ्कल्पविषयीकृतत्वात्,यदापुनरमिश्रःसङ्कल्पोयथायावन्तःसरजस्काःपाखण्डिनोदेवदत्तायदिवा यावन्तः सौगता देवदत्ता यद्वा साधुव्यतिरेकेण सर्वेऽपि पाखण्डिनो देवदत्तास्तेभ्यो दास्यामीति, तदा देवदत्ताख्यस्य साधोः कल्पते, तस्य सङ्कल्पविषयीकरणाभावात्, यथा च पाखण्डिषु मिश्रामिश्रेषु विभाषा कृता तथा श्रमणेष्वपि मिश्रामिश्रेषु कर्त्तव्या, श्रमणा हि शाक्यादयोऽपि भण्यन्ते, यतो वक्ष्यति'निग्गंथसक्कतावसगेरुयआजीव पञ्चहा समणा'। .
ततोयदेव मिश्रःसङ्कल्पायावन्तःश्रमणादेवदत्ताख्यास्तेभ्यो दास्यार्मातितदादेवदत्ताख्यस्यसाधान कल्पते,तस्यश्रमणदेवदत्तशब्दाभ्यांसङ्कल्पविषयीकृतत्वात,यदापुनरेवममिश्रः, सङ्कल्पोयावन्तःशाक्याः श्रमणायदिवाआजीविका देवदत्तायद्वा-साधुव्यतिरेकेणसर्वे श्रमणादेवदत्तास्तेभ्योदास्यामीतितदाकल्पते तस्य विवक्षितसङ्कल्पविधीकरणाभावात्, संयतानां तु निर्ग्रन्थानां विसदशनाम्नामपि सङ्कल्पे कृते देवदत्ताख्यादेःसाधो कल्पते, किमुक्तं भवति? चैत्रनाम्नोऽपिसंयतस्योद्देशेनकतंदेवदत्ताख्यस्यसाधोर्न कल्पते, तथाभगवदाज्ञाविजृभणात्, यदापुनस्तीर्थकरप्रत्येकबुद्धसङ्कल्पनेनकृतंतदाकल्पते,तीर्थकरप्रत्येकबुद्धानां सङ्घातीतत्वेनसङ्घमध्यवर्त्तिभिःसाधुभिःसहसाधर्मिकत्वाभावात्, संजयाणउविसरिसनामाणवि न कप्पे' इति वचनाच्यार्थापत्त्या यावन्तो देवदत्ता इत्यादौ विसहशचैत्रादिनाम्नां साधूनां कल्पत एवेति प्रतिपादितं द्रष्टव्यं तदेवमुक्तो नामसाधर्मिकमधिकृत्य कल्प्याकल्प्यविधिःमू. (१६६) नीसमनीसा च कडं ठवणासाहम्मियमि उ विभासा।
दव्वे मयतनुभत्तं न तंतु कुच्छा विवज्जेज्जा॥ वृ.इहकोऽपिगृहीगृहीतप्रव्रज्यस्यमृतस्यजीवतोवापित्रादेःस्नेहवशातप्रतिकृतिकारयित्वातत्पुरतो ढौकनायबलिंनिष्पादयति, तन्निष्पादनंचद्विधा,तद्यथा-निश्रयाअनिश्रयाच,तत्रयेरजोहरणादिवेषधारिणो मपितृतुल्यास्तेभ्योदास्यामीतिसङ्कल्प्यनिष्पादयतितदातलिनिष्पादनंनिश्राकृतमुच्यते.यदात्वेवंविधः सङ्कल्पोनभवति, किन्त्वेवमेवढोकनायबलिनिष्पादयतितदातद्वलिनिष्पादनमनिश्राकृतमुच्ते,तथा चाह. 'नीसमनीसा व कडं' इह प्रथमा तृतीयार्थे वेदितव्या, ततोऽयमर्थः-निश्रयाऽनिश्रया वा यत्कृत-निष्पादित भक्तादिस्थापनासाधर्मिकविषय तत्र विभाषा कर्त्तव्या, यदि निश्राकृतं तदपि च ढौकितमढाकितं वा नर्हिन कल्पत, अनिश्राकृतंतुढाकितमढाकितंवा कलपते.परंतत्रापिप्रवृत्तिदोषप्रसङ्गतिपूर्वसूरया निषधमाचक्षत नथा द्रव्य' द्रव्यसाधर्मिकविषये यन्मृततनुभक्तं तत्कालं मृतस्य साधायां तनुस्तस्याः पुरता ढाकनाय यदशनादितत्पुत्रादिनाकृतंतन्मृततनुभक्तं,तदपिद्विधा-निश्राकृतमनिश्राकृतंच,तत्रसाधुभ्योदास्यमीति सङ्कल्प्य कृतं निश्राकृतमितरत्तु स्वपित्रादिभक्ति मात्रकृतमनिश्राकृतं, तत्र यन्निश्राकृतं तन्निषेधयति नैव कल्पते, इतरत्वनिश्राकृतं कल्पते, किन्तु तद्ग्रहणे लोके जुगुप्सा-निन्दा प्रवत्तते, यथा अहो ! अमी भिक्षवा निःशूका मृततनुभक्तमपि न परिहरन्तीति ततो विवर्जयन्ति तत्साधवः॥
मू. (१६७) पासंडियसमणाणं गिहिनिग्गंथाण चेव उ विभासा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org