________________
मूलं- ६६९
૪૭
तृतीया, सर्व सङ्ख्यया द्वादश भङ्गाः सर्वेषु च भङ्गेषु सचित्तः पृथिवीकाय: सचित्तपृथिवीकामध्ये छर्दित इत्यादिरूपतया स्वस्थानपरस्थानाभ्यां षट्त्रिंशत् षट्त्रिंशद्विकल्पाः, ततः षट्त्रिंशद्दादशभिर्गुर्णिताजातानि चत्वारि शतानि द्वात्रिंशदधिकानि । एतेषु स सर्वेषु भङ्गेषु प्रतिषेधो-भक्तादिग्रहणनिवारणं, यदि पुनर्ग्रहणं कुर्यात्ततः ‘आज्ञादयः' आज्ञाऽनवस्थामिथ्यात्वरिधनारूपादोषाः । इह 'आद्यन्तग्रहणे मद्यस्यापि ग्रहण मिति न्यायादौदेशिकादिदोषदुष्टानामपि भक्त । दीनां ग्रहणे आज्ञादयो दोषाद्रष्टव्याः । सम्प्रति छर्दितग्रहणं दोषानाहमू. (६७०) उसिणस्स छड्डणे देतओ व उज्झज्झ कायदाहो वा । सीयपडणंमि काया पडिए महुबिंदुआहारणं ॥
वृ. उष्णस्यद्रव्यस्य' छर्दन' समुज्झने ददमानो वा भिक्षां दह्यते, भूम्याश्रितानांवा 'कायाना' पृथिव्यादीनां दाहःस्यात्, शीतद्रव्यस्यभूमौपतनेभूम्याश्रिताः 'कायाः' पृथिव्यादयोविराध्यन्ते, तत्रपतिते मधुबिन्दूदाहरणंवारत्तपुरं नाम नगरं, तत्राभयसेनो नाम राजा. तस्यामात्यको वारत्तकः, अन्यदा चात्वरिमचलमसम्भ्रान्तमेषणासमितिसमेतो धर्मघाषनामा संयतां भिक्षामटस्तस्य गृहं प्राविक्षत, तद्भार्या च तस्मै भिक्षादानाय घृतखण्डसम्मिश्रपायसभृत स्थालमुत्पाटितवती, अत्रान्तरं च कमथपि ततः खण्डसिम्मिश्री घृतबिन्दुर्भूमी निपतितः, ततो भगवान्, धर्मचोषो मुक्ति पदैकनिहितमानसोजलधिरिव गम्भीरोमेरुरिव निष्प्रकम्पो वसुधेव सर्वसहः शङ्ख इव रागादिभिररञ्जनो महासुभट इव कर्मरिपुविदारमनिबद्धकक्षो भगवदुपशिष्टभिक्षाग्रहणविधिविधानकृतोद्यमो भिक्षेयं छर्तितदोषदुष्टा तस्मान्न मे कल्पते इति परिभाव्य ततो निर्जगाम, वारत्तकेन चामात्येन मत्तवारणथिंतन दृष्टा भगवान्, निर्गच्छन्, चिन्तयति च स्वचेतसि - किमनेन भगवता न गृह्यते स्म मेगृहेभिक्षेति?, एवंचयावश्चिन्तयति तावत्तं भूमौ निपतितं खण्डयुक्तं धृतबिन्दुमक्षिकाः समागत्याशिश्रियन्, तासांचभक्षणाय प्रधावितागृहगोधिका, गृहगोधिकाया अपिवधायप्रधावितः सरटः, सरटस्यापि चभक्षणाय प्रधावति स्म मार्जारी, तस्या अपि च वधाय प्रधावितः प्राधूर्णकः, श्वा, तस्यापि च प्रतिद्वन्द्वी प्रधावितोन्यो वास्तव्य, श्वा, ततो द्वयोरपि तयोः शुनोरभूत् परस्परं कलहः, तत- स्वस्वसारमेयपराभवद्वनमनस्कतया प्रधाक्ति योर्द्वयोरपि ततस्वामिनारभूत् परस्परमस्यसि युद्धम्, एतच सर्वं वारत्तकामात्येन परिभावितं,
ततश्चिन्तयति स्वचेतसि घृतादेर्बिन्दुमात्रेऽपि भूमौ निपतिते यत एवमधिकरणप्रवृत्तिः अत एवाधिकरणभीरूर्भगवान्, घृतबिन्दुं भूमौ निपतितमवलोक्यभिक्षांनगृहीतवान्, अहो । सुदृष्टो भगतवाधर्मः, कोहिनाम भगवन्तं सर्वज्ञमन्तरंणेत्थमनपायिनं धर्ममुपदेष्टुमीशः ?, नस्वत्वंरूपविशेषं जानाति एवमर्सजोऽपि नेत्थं सकलकालमनपायं धर्ममुपदेष्टुमलं, तस्माद्भगवानेव सर्वज्ञः सएवचमंजिनों देवता, तदुक्त मंत्रानुष्ठानं मयाऽनुष्ठान्तव्यमित्यादिविचिन्त्यसंसारविमुखप्रज्ञा मुक्ति वनिता श्लेषसुखलम्पटः सिंह इवगिरिकन्दराया निजप्रासादाद्धिर्निगत्य धर्मघोषस्य साधीरूपकण्ठं प्रवच्याम ग्रहीत, स च महात्मा शरीरऽपि निःस्पृहो यथोक्त भिक्षाग्रहणादिविधिसंत्री संयमानुष्ठानपरायणः स्वाध्यायभावितान्तकरणी दीर्घकालं संयममनुपाल्यजातप्रपतनुकर्मा समुच्छलितदुर्निर्वार्यवीर्यप्रसरः क्षपकश्रेणिमारह्यघातिकर्मचतुष्टयं समूलघातं हत्त्वा, केवलज्ञानलक्ष्मीमासादितवानं, ततः कालक्रमेम सिद्ध इति । उक्त मेषणाद्वारं, संयोजनादीनिद्वाराणि वक्तयानि तानि ग्रासैषनाख्याणीति प्रथमती ग्रासैषणाया निक्षेपमाह
मू. (६७१)
नाणं ठवणा दविए भावे घासंसणा मुणेयव्वा । ढव्वे मच्छाहरणं भावमि य होड़ पंचविहा॥
वृ. ग्रासैषणा चतुर्द्धा तद्यथा-नामग्रासैषणा स्थापनाग्रासैषणा 'द्रव्ये' द्रव्यविषया ग्रासैषणा 'भावे'
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org