SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ मूलं- ६५० अप्पबहुए वि चउरो तहेव आइन्नऽणाइन्ने । वृ. यद्यचित्तेऽचित्तं मिश्रयति तदपि तत्रापि शुष्के शुष्कं मिश्रितमित्येवं भङ्गाश्चत्वारो यथा संहरणे, तद्यथा-शुष्के शुष्कमुन्मिश्रं, शुष्के आर्द्रम्, आर्द्रे शुष्कम् आर्द्रे आर्द्रमिति । तत एकैकस्मिन भङ्गे संहरणे इवाल्पवहुत्वे अधिकृत्य' चत्वारः' चत्वारोभङ्गाः तद्यथा- स्तोके शुष्केस्तोकं शुष्कं स्तोके शुष्केबहुकं शुष्कं बहुकेशुष्केस्तोकं शुष्क, बहुकेशुष्केबहुकं शुष्कमिति । एवं शुष्के आर्द्रमित्यादावपिभङ्गत्रिके प्रत्येकं चतुर्भङ्गी भावनीया, सर्वसङ्गययाभङ्गाः षोडश, तथा ' तथैव' संहरणे इवाऽऽचीर्णानाचीर्णे-कल्प्याल्पे उन्मिश्रे ज्ञातव्ये, तद्यथा - शुष्के शुष्कमित्यादीनां चतुणां भङ्गानां प्रत्येकं यौ द्वौ द्वौ स्तोके स्तोकमुन्मिश्रं बहुकेस्तोकमित्येवंरूपौ तौ कल्प्यौ दात्रीपीडादिदोषाभावात्, स्तोके बहुकं बहुके बहुकमित्येवंरूपौ तु यौ द्वौ द्वौ भङ्गौ तावकल्प्या, तत्र दात्रीपीडादिदोषम्भवात्, शेषा तु भावना यथासम्भवं संहरण इव द्रष्टव्या । उक्त मुन्मिश्रद्धारम् मू. (६५१) ४०३ अपरिणयपि य दुविहं दव्वे भावे य दुविहमेक्वेकं । दव्वंमि होइ छक्कं भावमि य होइ सझिलगा ।। वृ. अपरिणतमपि द्विविधं तद्यथा- 'द्रव्ये' द्रव्यविषयं 'भाव' भावविषयं द्रव्यरूपमपरिणतं भावतोऽपरिणतं चेत्यर्थः पुनरप्येकैकं दातृग्रहीतृसम्बन्धाद्रिधा, तद्यथा- द्रव्यापरिणतं दातृसत्कं ग्रहीतृसत्कं चं, एवं भावापरिणतमपि । तत्र द्रव्यापरिणतस्वरूपमाहमू. (६५२) जीवत्तंमि अविगए अपरिणयं परिणयं गए जीवे । दितो दुदही इय अपरिणय परिणयं तं च ॥ वृ. 'जीवत्वे' सचेतनत्वे ' अविगते' अभ्रष्टपृथिवीकायादिकंद्रव्यमपरिणतमुच्यते, गते तुजीवेपरिणतम् । अत्रदृष्टान्तो दुग्धदधिनी, यथा हि दुग्दं दुग्धत्वात् परिभ्रष्टं दधिभावमापन्नं परिणतमुच्यते, दुग्धभावे चावस्थितेऽपरिणतम्, एवं पृथिवीकायादिकमपि स्वरूपेण सजीवं सजीवत्वापरिभ्रष्टमपरिणतमुच्यते, जीवेन विप्रमुक्तं परिणतमिति । तच्च यदा दातुः सताया वर्त्तते तदा दातृसत्कं यदा तु ग्रहीतुः सत्तायां तदा ग्रहीतृसत्कमिति । सम्प्रति दातृविषयं भावापरिणतमाह मू. (६५३) दुगमाई सामन्ने जइ परिणमई उ तत्थ एगस्स । देमित्ति न संसाणं अपरिणयं भावओ एवं ।। Jain Education International वृ. एवं 'द्विकादिसामान्ये' भ्रात्रादिद्विकादिसाधारणे देयवस्तुनि यद्येकरव्य कस्यचिद्ददामीत्त्वेवं भावः परिणमति, नशेषाणां, एतद्भावोतऽपरिणतं, नभावापेक्षयादेयतया परिणतमित्यर्थः । अथसाधारणानिसृष्टस्य दातृभावापरिणतस्यचकःपरस्परंप्रतिविशेषः ?, उच्यते, साधारणानिसृष्टंदायकपरोक्षत्वे, दातृभावापरिणतं तु दायकसमक्षत्वे इति । सम्प्रति ग्रहीतृविषयं भावापरिणतमाह मू. (६५४ ) एगन वावि एसि ममि परिणामियं न इयरेणं । तंपि हु होइ अगिज्झं सज्झिलगा सामि साहू वा ॥ वृ. एकेनापि केनचिदग्रेतनेन पाश्चात्येन वैषणीयमिति मनसि परिणामितं, नेतरेण द्वितीयेन, तदपि भावतोऽपरिणतमितिकृत्वा साधूनामग्राह्यं शङ्गितत्वात्कलहादिदोषसम्भवाञ्च, सम्पति द्विविधस्यापि भावापरिणतस्य विषयमाह- 'सज्झिलगा' इत्यादि, तत्र दातृविषयं भावापरिणंत भ्रातृविषयं स्वामिविषयं च ग्रहीतृविषयं भावपरिणतं साधुविषयम् । उक्त पमपरिणतद्वारं सम्प्रति लिसद्वारंवक्त व्यं. तत्र लिप्तं यत्र दध्यादिद्रव्यलेप लगति, तच्च न ग्राह्यं, यत आह For Private & Personal Use Only www.jainelibrary.org
SR No.003379
Book TitleAgam Sutra Satik 41B Pindniryukti MoolSutra 2b
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages202
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_pindniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy