________________
४०२
पिण्डनियुक्ति:- मूलसूत्रं
'घुसुलणे' शंखचूर्णाद्यससक्तं दध्यादि मथ्नत्याः कल्पते, तथा कर्त्तने या अशङ्खचूर्ण - अखरण्टितहस्तं कृन्तति, इह काचित्सूत्रस्यातिशयेन श्वेततापादनाय शङ्खचूर्णन हस्ताँ जड़वां च खरण्टयित्वा कृन्तति, तत उच्यते ' अशङ्खचूर्ण' मिति । अथवा चूर्णमपि शङ्खचूर्णमपि गृहीत्वाकृन्तन्तीया' अचोक्खलिणी' अनुक्षाशीला नजलेन हस्ती प्रक्षालयतीतिभावः, तस्या हस्तात्कल्पते। तथा 'उर्द्धत्तने' कार्पासलोठने 'असंसत्तेण वाविति असंसक्तं नागृहीतकापासन हस्तनोपलक्षिता सती यद्युत्तिष्ठन्ती अट्ठिलुए' अस्थिकान कार्पासिकानित्यर्थः न घट्टयति तदा तद्धस्तात्कल्पते । पिञ्जनपमर्द्दनयोरपि पश्चात्कर्म न भवति तथा ग्राह्यमिति ।
मू. (६४६ )
सेसेसु य पडिवक्खो न संभवइ काय गहणमाईसु । पडवक्खस्स अभावे नियमा उ भवे तयग्गहणं ॥
वृ. शेषेषुद्वारेषु' कायगहणमाईसु' षट्कायव्यग्रहस्तादिषु प्रतिपक्षः उत्सम्गपिक्षयाऽपवादरूपोन विद्यतेन सम्भवति, ततः प्रतिपक्षस्याभावे नियमाद्भवति तेष्वग्रहणमिति । उक्तं दाकद्वारम, अधोन्मिश्रद्वारमाहमू. (६४७) सचित्त अचित्ते मीसग उम्मीसगंसि चउभंगो। आइतिए पडिसेहो चरिभ भंगंमि भयणा उ ॥
. इह यद्यत्रोन्मिश्यते ते द्वे अपि वस्तुनी त्रिधा, तद्यथा- सचितेऽचित्ते मिश्रे च तत उन्मिश्रके मिश्रणे चतुर्भुङ्गी, अम्रजातावेकवचन्, ततस्तिस्तचतुर्भङ्गयो भवन्तीति वेदितव्यं तत्र प्रथमा सचित्तमिश्रपदाभ्यां द्वितीयासचित्ताधित्तपदाभ्यां तृतीया मिश्राचित्तपदाभ्यामिति । तत्रसचित्तमिश्रपदाभ्यामियं सचित्तेसचित्तं मिश्रे सचित्तं सचित्ते मिश्र मिश्र मिश्रमिति, द्वितीया त्वियं सचित्ते सचित्तम् अचित्ते सचित्तं सचित्तेऽचित्तम् अचित्तेऽचित्तमिति, तृतीयेयं मिश्र मिश्रम् अचित्ते मिश्र मिश्रेऽचित्तम् अचित्तेऽचित्तमिति, तत्रगाथापर्यन्ततुशब्दस्यानुक्तसमुञ्चायार्थत्वादाद्यायां चर्तुभङ्गिकायां सकळायामपि प्रतिषेधः, शेषे चतुर्भङ्गीद्वये प्रत्येकम्. 'आदित्रिके' आदिमेषु त्रिषु त्रिषु भङ्गेषु प्रतिषेधः, चरमे तु भङ्गे भजना वक्ष्यमाणा । मू. (६४८) जह चैव य संजोगा कायाणं हेडओ य साहरणे ।
-
तु
तह चैव य उम्मीसे होइ विसेसो इमो तत्थ ।
वृ. यथाचैवाधः प्राक्संहरणद्वारे कायानां पृथिवीकायादीनां सचित्ताचित्तमिश्रभेदभिन्नानां स्वस्थानपर स्थानाभ्यां संयोगा - भङ्गाः प्रदर्शिता द्वात्रिंशदधिकचतुःशतसङ्ख्याप्रमाणाः, तथैव 'उन्मिश्रितेऽपि' उन्मिश्रद्वारेऽपिदर्शनीयाः, तद्यथा-स -सचित्तपृथिवीकाय: सचित्तपृथिवीकायेउन्मिश्रः, सचित्तपृथिवी काय: सचित्ताकाय उन्मिश्र इत्येवं स्वस्थानपरस्थानापेक्षया षत्रिंशत्संयोगाः, त्रिंशदधिकानि, ननु संहृते उन्मिश्रे च सचित्तादिवस्तुनिक्षेपान्नास्तिपरस्परविशेषः, अत आह- 'तत्र' तयाः संहृतोन्मिश्रयोर्भवति परस्परमयं विशेषावक्ष्यमाणः । तमेवाह
मू. (६४९)
दायव्वमदायव्वं च दोऽवि दव्वाई देइ मीसेउं । आयकुसुणाईणं साहरण तयन्नहिं छोढुं ॥
वृ. 'दातव्यं' साधुदानयोग्यमितरत् अदातव्यं तच सचित्तं मिश्रं तुषादिर्वा . ते द्वे अपि द्रव्ये मिश्रयित्वा यद्ददाति यथादनं कुशनन - इध्यादिना मिश्रयित्वा तदुन्मिश्रम्, एवंविधमुन्मिश्रलक्षणमित्यर्थः, 'संहरण' तु यद्भाजनस्थमदेयं वस्तु तदन्यत्रकापि स्थगनिकादौ संहृत्य ददाति ततोऽयमनयोः परस्परं विशेषः । द्वितीयतृतीयचतुर्भङ्गीसत्कचतुर्भङ्गभजनामाह
मू. (६५०)
Jain Education International
तंपि य सुक्के सुक्कं भंगा चत्तारि जह उ साहरणे ।
For Private & Personal Use Only
www.jainelibrary.org