________________
मूलं- ६३२
वृ. इहसा षट्कायव्यग्रहस्ता उच्यंत तस्या हस्ते सजीवं लवणमुदकमग्रिर्वायुपूरितो वा वस्तिर्फलादिकं बीजपूरादिकं मत्स्यादयो वा विद्यन्ते, ततः सा यद्यतेषां सजीवलवणादीनामन्यतमदपि श्रमणभिक्षादानार्थ भूम्यादी निक्षिपति तर्हि न कल्पते । तथाऽवगाहना नामयदेतेषां षण्णां जीवनिकायानां पादेन सङ्घट्टनं, शेषकायेन हस्तादिना सम्मर्द्दनं सङ्घट्टनम् आरभमाणा कुश्यादिना भूम्यादि खनन्ती. अनेन पृथिवीकायारम्भ उक्तः, यद्वा 'मज्जंती' शुद्धेन जलेन स्नान्ती, अथवा 'धावंती' शुद्धेनादकेन वस्त्राणि प्रक्षालयन्ती, यदिवा किञ्चिद् वृक्षवल्लयादि सिञ्चन्ती, एतेनाप्कायारम्भां दर्शितः, उपलक्षणमेतेत, ज्वलयन्ती वा फूत्कारेण वैश्वानरं बस्त्यादिकंवा सचित्तवायुभृतमितस्ततः प्रक्षिपन्ती, एतेनानिवायुसमारम्भ उक्तः, तथा शाकादेश्छेदविशारणे कुवंती, तत्र छेदः - पुष्पफलादेः खण्डनं विशारणं तेषामेव खण्डानां शोषणायातपे मोचनम्, आदिशब्दातण्डुलमुद्रादीनां शोधनादिपरिग्रहः, तथा छिदन्ती षष्ठान सकायान् मत्स्यादीन् 'फुरुफुरते' इति पोस्फूर्यमाणान, पीडयोछेल्लत इत्यर्थः, अनेन त्रसकायारम्भ उक्तः । इत्थं षडजीवनिकायानारभमाणाया हस्तान्न कल्पते । सम्प्रति षटकायव्यग्रहस्तेति पदस्य व्याख्याने मतान्तरमुपदर्शयतिछक्कायवग्गहत्था केई कोलाइकन्नलयाई । सिद्धत्थगपुप्फाणि य सिरंभि दिन्नाई वज्जति ।।
मू. (६३३)
वृ. केचिदाचार्याः षट्कायव्यग्रहस्तेतिवचनतः 'कोलादीनि' बदरादीनि, आदिशब्दात्करीरादिपरिग्रहः, 'कन्नलइयाई' तिकर्णे पिनद्धानि तथा सिद्धार्थकपुष्पाणि शिरसि दत्तानि वर्जयन्ति, हस्तग्रहणं हि किल सूत्रे उपलक्षणं, तेन कर्णे शिरसि वा जीव निकायसम्भवे तद्वस्तान कल्पते, तन्मतेन षट्कायव्यग्रहस्तेतिपदात् षट्कायं सङ्घट्टयन्तीतस्य पदस्यविशेषो दुरुपपादः ।
मू. (६३४ )
अन्ने भांति दुससुवि एसणदोसेसु नत्थि तग्गहणं । तेन न वज्जं भन्नइ ननु गहणं दायगग्गहणा ||
वृ. अन्ये त्वाचार्यदेशीया भणन्ति यथा दशस्वपि शङ्कितादिषु एषणादोषेषु मध्ये न तद्वहणं त्रट्कायव्यग्रहस्तेत्युपादानमस्ति, तेन कारणेन कोलादियुक्तादात्र्या भिक्षाग्रहणं न वर्ज्य, तदेतत्, पापात्पापीयो, यत आह- 'भण्यते' अत्रोत्तरं दीयते ननु दायकग्रहणादेषणादोषमध्ये षट्कायव्यग्रहस्तेत्स्य ग्रहणं विद्यते, तत्कथमुच्यते- न ग्रहणमिति ?। सम्प्रति संसक्ति मद्रव्यदात्र्यादिदोषानाह
मू. (६३५)
संसज्जिमम्मि देसे संसज्जिमदव्वलित्तकरमत्ता |
संचारी ओयत्तण उक्विप्पतऽवि ते चैव ॥
वृ. संसक्ति मद्रव्यवति दश मण्डले संसक्ति मत्ता द्रव्येण लिप्तः करो मात्रं वा यस्याः सा तथाविद्या दात्री भिक्षां दढ़ती करादिलग्नान सत्त्वान हन्ति, तस्मात्सा वर्ज्यत, तथा महतः पिठरांदरपवर्त्तन 'सञ्चारः' सूचनात्सूत्रमिति सारिमकीटिकामत्कादादिसत्त्वव्याघातः, इदमुक्तं भवति- महत्पिढरं यदा तदा वा नात्पाठ्यंत नापि यथा तथा वा सचार्यत, महत्त्वादेव, किन्तु प्रयोजनविशेषोत्पत्ती सकृत, ततस्तदाश्रिताः प्रायःकीटिकादयः सत्त्वाः सम्भवन्ति, ततोयदातत्पिठरादिकमुद्धर्त्य किञ्चिद्ददाति तदा तदाश्रितजन्तुव्यापादः, एते च दोषा उत्पाठ्यमानेऽपि महित पिठरादी, तत्रापि हि भूयां निक्षपणे हस्तसंस्पर्शतो वा सञ्चारिमकीटिकादि सत्त्वव्याघातः, अपि च तथाभूतस्य महत्त उत्पाटने दाच्याः पीडाऽपि भवति, तस्मान्न तदुत्पाटनेऽपि भिक्षा कल्पते । सम्प्रति साधारणं चेरितकं वा ददत्या दोघानाह
मू. (६३७)
साधारण बहूणं तत्थ उ दोसा जहव अनिसिद्धे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org