________________
मूलं - ३६७
आगमनिसीहिगाई न भुंजई सावगासंका ॥
मू. (३६८)
उक्खित्तं निक्खिप्पर आसगयं मल्लगंमि पास गए। खामित्त गया सड्डा तेऽवि य द्वा असढभावा ॥
वृ . क्वचिद्ग्रामे घनावहप्रमुखा बहवः श्रावकाः घनवतीप्रभृतयश्च श्राविकाः, एते च सर्वेऽप्येककुटुम्ब - वर्त्तिनः । अन्यदा तेषामावसये वीवाहः समजाने, वृत्तं च तस्मिन् प्रचुरं मोदकाद्युद्धरितं, ततस्तैरचिन्तिपथैतत्साधुभ्यो दीयतां येन महत्पुण्यमस्माकमुपजजायते, अथ च केचित्साघवो दूरेऽवतिष्ठन्ते, केचित्पुनः प्रत्यासन्नाः परमन्तराले नदी विद्यते, ततस्तेऽप्यप्कायविराधनाभयतो नागमिष्यन्ति, आगता अपि च प्रचुरं मोदकादिकमवलोक्य कथ्यमानमपि शुद्धमाघाकर्मशङ्कया न ग्रहीष्यन्ति ततो यत्र ग्रामे साधवो निवसन्ति तत्रैव प्रच्छन्नं गृहीत्वा व्रजाम इति, तथैव च कृतं, ततो भूयोऽपि चिन्तयन्ति यदि साधूनाहूय दास्यामस्ततोऽशुद्रमाशङ्क्य ते न ग्रहीष्यन्ति तस्मात् द्विजादिभ्योऽपि किमपि दद्मः तच्च तथा दीयमानमपि यदि साधवो न प्रेक्षिष्यन्ते ततस्तदवस्थैव तेषामशृङ्का भविष्यति ततो यत्रोच्चारादिकार्यार्थ निर्गताः सन्तः साधवः प्रेक्षन्ते तत्र दद्म इति, एवं च चिन्तयित्वा विवक्षिते कस्मिश्रित्प्रदेशे कस्यचिद्देवकुलस्य बहिर्भागे द्विजादिभ्यः स्तोकं स्तोकं दातुमारब्धं, तत उच्चारादिकार्यार्थ विनिर्गताः केचन साधवो दृष्टाः, ततस्ते निमन्त्रिता यथाभोः ! साधवः ! अस्माकमुद्धरितं मोदकादि प्रचुरमवतिष्ठते ततो यदि युष्माकं किमप्युपकरोति तर्हि तत्प्रतिगृह्यतामिति, साधवोऽपि शुद्धमित्यवगम्य प्रत्यगृह्णन, तैश्च साधुमिः शेषाणामपि साधूनामुपादेशियथाऽमुकस्मिन् प्रदेशे प्रचुरमेषणीयमशनादि लभ्यते, ततस्तेऽपि तद्रहणाय समाजग्मुः, तत्र चैके श्रावकाः प्रचुरं मोदकादिकं प्रयच्छन्ति, अन्ये च मातृस्थानतो निवारयन्ति, यथैतावद्दीयतां माऽधिकं, शेषमस्माकं भोजनाय भविष्यति, अन्ये पुनस्तानेवनिवारयतः प्रतिषेधयन्ति यथानकोऽप्यस्माकंभोक्ष्यते, सर्वेऽपिप्रायो भुक्ताः, ततः स्तोकमात्रेण किञ्चिदुद्धरितेन प्रयोजनं, तस्माद्यथेच्छं साधुभ्यो दीयतामिति ।
साधवश्च ये नमस्कारसहित प्रत्याख्यानास्ते भुक्ताः, ये च पौरूषीप्रत्याख्यानास्ते भुञ्जाना वर्त्तन्ते, . ये चाजीर्णवन्तः पूर्वार्द्धादि प्रतीक्षमाणा वर्तन्ते ते नाद्यापि भुञ्जते, श्रावकाश्च चिन्तयामासुः- ग्रथेदानीं साघवो भुक्ता भविष्यन्ति ततो वन्दित्वा निजस्थानं व्रजाम इति, एवं चिन्तयित्वा समधिक प्रहरवेलाया साधुवसतावागत्यनैषेधिक्यादिकां सकलामपि श्रावकक्रियां कृतवन्तः, ततो ज्ञातंयथाऽमी श्रावकाः परमविवेकिनो, जाताश्च परम्परया विवक्षितग्रामवास्तव्याः, ततः सम्यग्विमर्शतो निश्रितं नूनमस्मन्निमित्तमेतत् स्वग्रामादभ्याहृतमिति ततो येर्भुक्तं तर्भुक्त मेव. ये त्वद्यापि पूर्वादि प्रतीक्षमाणा न भुञ्जते तैनं भुक्तं, येsपि च भुञ्जाना अवतिष्ठन्ते तैरपि यः कवल उत्क्षिप्तः स भाजनेऽमुच्यत, यत्तु मुखे प्रक्षिप्तं नाद्यापि गिलितं तन्मुखाद्विनिःसार्य समीपस्थापितं मल्लके प्रचिक्षिपे, शेषं तु भाजनगतं सर्वमपि परिष्ठापितं, श्रावकाः श्राविकावर्ग सर्वोपि क्षमयित्वा स्वस्थानं जगाम, तत्रये भुक्ता ये चार्द्धभुक्तास्ते (ऽपि ) सर्वेऽप्यशदभावा इति शुद्धाः । सूत्रं सुगमं, केवलम् 'अइदूरजनंतरिय ' त्ति केचिदतिदूरे कंचिन्नद्याऽन्तरिताः ॥ लद्धं पण मे अमुगत्थगयाएँ संखडीए वा । वंदनगपविद्या देतयं पट्टिय नियत्ता ।।
मू. (३६९)
मू. (३७०)
पण मे नियगाणं निच्छियं व तं तेहिं । सागार सयज्झियं वा पडिकुट्टा संखडे रुट्टा ।।
वृ . इह काचिदभ्याहताशङ्कानिवृत्त्यर्थं किमपि गृह प्रति प्रस्थिता. ततो निवृत्ता सति साधोः
Jain Education International
૪
For Private & Personal Use Only
www.jainelibrary.org