________________
आघनियुक्तिः मूलमूत्रं प्यभिहितः, कारणे कार्योपचारमङ्गीकृत्य, सिद्धत्वस्य कारणभूतत्वादर्हतामित्यलः प्रसङ्गेनेति॥
अधुना कृतमङ्गलः सन् संबन्धाभिधेयप्रयोजनत्रयप्रदर्शनार्थं द्वितीय गाथासूत्रमाह-'आहेण उ' इति. ओघः संक्षेपः समासःसामान्यमित्येकोऽर्थः, तेन ओघेन नियुक्तिः वक्ष्ये इतियोगः, तदनेन माथाखण्डकेन संबन्धः प्रतिपादितः क्रियाऽऽनन्तर्यलक्षणः, तथा चच्यासक्रियायाः समासक्रिया अनन्तरभूता वर्तते. अतः क्रियाऽऽनन्तर्यलक्षणःसंबन्धः, एवं कार्यकारणलक्षणोऽपिद्रष्टव्यः-कार्यम-ओघनिजुक्त्यर्थपरिज्ञानमनुष्ठान च कारणं तुवचनरूपापन्ना ओघनियुक्तिरेव. एवंचसाध्यसाधनादयोऽपि द्रष्टव्या इति। तुशब्दो विशेषणं. किं विशिनष्टि? ओघेनवक्ष्ये, तुशब्दात्किञ्चिद्विस्तरतोऽपि, “छप्पुरिमं” इत्या नियुक्तिःवक्ष्य इइत-नि:आधिक्ये योजनं युक्तिः, सूत्रार्थयोयोगो नित्यव्यवस्थितएवास्ते वाच्यवाचकतयेत्यर्थः, अधिका योजना नियुक्तिमच्यते.नियतानिश्चितावायोजनेति,ततश्चनियुक्ति युक्तिरित्येवंवक्त व्यएकस्ययुक्तिशब्दस्य लोपं कृत्वा एवमुपन्यासः, यथाष्टमुखी कन्येति । 'वोच्छं' इति वक्ष्ये अभिधास्य इति यदुक्तं भवति. कुतो वक्ष्ये? इत्यत आह.
'चरणकरणानुयोगात्त' चर्यतइइतचरणं-वक्ष्यमाणलक्षणंव्रतादिक्रियतइतिकरणं-पिण्डविशुझ्यादि. चरणंचकारणंचचरणकरणतयोरनुणेगश्चरणकरणानुयोगः, अनुयोजनमनुयोग अनुकूलोबायोगोऽनुयोगः, अथवाऽनु-सूत्रं महान्-अर्थः ततो महतोऽर्थस्यानुना सूत्रेण योगोऽनुयोगः, तस्माच्चरणकरणानुयोगात नियुक्तिं वक्ष्ये, चरणकरणात्मिकामेवेति गम्यते, यथा मृदोघटं करोतिमृदात्मकमेव, तद्वदनापीति। अथवा
चरणं च तत्करणं च २ तस्यानुयोगस्तस्माच्चरणकरणानुयोगात् नियुक्तिं वक्ष्य इति, तदनेनावयवेना. भिधेयमुक्तं, चरणकरणनियुक्ति रभिधेयेति।किस्वरूपांनियुक्तिंवक्ष्ये? इत्यतआह 'अल्पाक्षरां' अल्पान्यक्षराणियस्यांसाऽल्पाक्षरातामल्पाक्षराम,अथवा क्रियाविशेषणमेतत्,कथंवक्ष्ये? इत्यतआह-'अल्पाक्षरं स्तोकाक्षरंवक्ष्ये,नप्रभूताक्षरमित्यर्थः । किमल्पाक्षरमेव?,नेत्याह- महत्थं महार्थवक्ष्ये,अथवामहानों यस्याः सामहार्था तां महा िवक्ष्ये, तदनेनाभिधेयविशेषणं प्रतिपादितं भवति। अल्पाक्षरांमहाां' इत्यनेन चतुर्भङ्गिकाप्रतिपादिताभवति,एकमल्पाक्षरंप्रभूतार्थभवति?,तथाअन्यत्प्रभूताक्षरमल्यार्थ२,तथाप्रभूता. क्षरंप्रभूतार्थं ३, अल्पाक्षरमल्पार्थ ४ चेति। किंनिमित्तं वक्ष्ये? इत्यत आह-'अनुग्रहार्थ' अनुग्रह-उपकारो. ऽभिधीयते.अर्थशब्द: प्रयोजनवचनः. तत उपकारप्रयोजनं वक्ष्ये, तदनेन प्रयोजनप्रतिपादितं द्रष्टव्यम।
केषांवक्ष्ये? इत्यत आह-'सविहितानां शोभनं विहितम-अनुष्ठानयेषामितितेसुविहिताः-साधवस्तेषा सुविहितानामनुग्रहार्थमोपनियुक्तिं वक्ष्य इति योगः। तदनेन गाथासूत्रेण परोपन्यस्ता हेतवो निराकृता भवन्ति । क च हेतवः?, निःसंबन्धत्वादय इति । यश्चायं क्त्वाप्रत्यय उपन्यस्तस्तेन नित्यानित्यैकान्त. वादयोरसारता प्रतिपादिता भव कथम् ?-न नित्यवादे क्त्वाप्रत्ययो युज्यते न वाऽनित्यवाद, किंतु नित्यानित्यवाद एवायं घटत इति: नित्यवादे तावन्न घटते, एकं कृत्वा ह्यपरकरणं क्रमः, क्त्वाप्रत्ययश्च विशिष्टपूर्वार्थोऽभिधीयते. 'समानकर्तृकयोः पूर्वकाले क्त्व' ति वचनात, नित्यवादे चाप्रच्युतानुत्पनस्थिरैकस्वभावं वस्तु, तच्च किं तावत् पूर्वस्वभावत्यागेन द्वितीया क्रियां करोति आहास्वित्पूर्वस्वभावात्यागेनेति वाच्यम?.यदि पूर्वस्वभावत्यागेन ततोऽनित्यत्वप्रसङ्गः, अतादवस्थ्यमनित्यतांब्रूमः, अथ पूर्वस्वभावात्यागेन, एवं तहिं न कदाचिदपि तेन द्वितीया क्रिया कर्तव्येति, एवं प्रतिपादितेऽनित्यतावाद्याहअत एवास्माकं दर्शन क्त्वाप्रत्ययो घटत इति. एतदप्यचारु, यस्य क्षणिक वस्तु तस्य कथं क्त्वाप्रत्ययो युज्यन?, उत्पत्त्यनन्तरं ध्वंसात, कथमेक एव कर्ता क्रियाद्वयं करोति ?. येन हि प्राक्तनी क्रिया निष्पादिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org