________________
मूलं-५ चतुर्दशपूर्वधरास्तेऽप्युपकारका एव, कथमिति चेत्. अर्थद्वारेण तीर्थकरा उपकारकाः, सूत्रतस्तु चतु. देशपूर्वधरा गणधराः, यत उक्तम्- "अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणा।" इत्यादि, अत उपकारकास्तइति. अथवाद्विधोपकारः-व्यवहितोऽव्यवहितश्च,तत्रभगवन्तोऽर्हन्तःव्यवहितोपकारकत्वेन व्यवस्थिता:, चतुर्दशपूर्वधरास्त्वयस्यानन्तरोपकारकत्वेन,अतश्चतुर्दशपूर्वधरनमस्कारस्कृतः सर्वाश्चतुर्दशपूर्वधरव्यक्तयआगृहीताअनेननमस्कारेणेति.यच्चोक्तम्- चतुर्दशपूर्विनमस्कारेणैवशेषाणांदशपूादीनां नमस्कारो भविष्यति किं दशादिनमस्कारेणेति?. अथ भेदेन क्रियते एवं तर्हि त्रयोदशपूर्वधरादीनामेंकैकपूर्वहान्या तावत्कर्तव्यो यावत्पूर्वैकदेशधराणामिति, एतदप्यसाधु. कथम् ?, यतो दशपूर्वधरा अपि शासनस्यो पकारका उपाङ्गीदीनां संग्रहण्युपवचनेन हेतुना, अथवाऽस्याभवसर्पिण्यां चतुर्दशपूर्व्यनन्तरं दशपूर्वधरा एव संजातान त्रयोदशपूर्वधरा द्वादशपूर्वधरा एकादशपूर्वधरा वा इत्यस्यार्थस्य प्रतिपादनार्थ चतुर्दशपूर्वधरानन्तरं दशपूर्विनमस्कारोऽभिहितः, अथवाऽन्यत्प्रयोजनम्-अर्थतस्तीर्थकरप्रणीतं सूत्रतो गणधरोपनिबद्धं चतुर्दशपूर्वधरोपनिबन्द्धं दशपूर्वधरोपनिबद्धं प्रत्यः कबद्धोपनिबद्धं च प्रमाणभूतं सूत्रं भवतीत्यस्यप्रतिपादनार्थदशपूर्विनमस्कारःकृतः, तथाचोक्तम्-"अर्हत्प्रोक्तं गणधरहब्धप्रत्येकबुद्धहब्धं च।स्थविरग्रथितंच तथा प्रमाणभूतं त्रिधा सूत्रम्॥” इति, ___ अथवाऽन्यत्प्रयोजनम्-चतुर्दशपूर्विणोदशपूर्विणश्चनियमेनैवसम्यग्दृष्टयइतिप्रदर्शनार्थतन्नमस्कारः, अथवायदुक्तं त्रयोदशपूर्वधरादीनामेकैकहान्या तावन्नमस्कारोवाच्यो यावदेकदेशपूर्वधराणा'मिति, सैव हानिरित्थमुक्ता यदुत प्रभूतहान्या हानिर्वाच्या, सा च त्र्यन्तरे प्रतिपादिता भवति, अतः पूर्वत्रतमुल्लङ्घय दशपूर्विणां ग्रहणम्, एवं नवादिष्वपि योज्यम. एवं व्याख्याते सत्याह परः-गुणाधिकस्य वन्दनं कर्तव्यं न त्वधमस्य, यत उक्तम् "गुणाहिए वंदनयं' भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरत्वात् दशपूर्वधरादीनां च न्यूनत्वात्तत्किंतेषांनमस्कारमसौकरोति? इति.अत्रोच्यते, गुणाधिकाएवते.अव्यवच्छित्तिगुणाधिक्यात्, अतोनदोष इति। ____ एवं व्याख्याते सत्याह परः एकादशाङ्गसूत्रार्थधारकाणां किमर्थं क्रियते ? इति, उच्यते, इह चरणकरणात्मिका ओघनियुक्तिः, एकादशाङ्गसूत्रार्थधारिणश्च चरणकरणवन्त एव, एकादशानामङ्गानां चरणकरणानुयोगत्वात, उपयोगित्वेनांशेन तेषां नमस्कार इति । साधूनां किमर्थमिति चेत्, ते तु चरणकरणनिष्पादकाः, तदर्थ चायं सर्व एव प्रयास इति। अथवाऽन्यथाव्याख्यायते इदं गाथासूत्रम-अनेन गाथासूत्रेण पञ्चनमस्कारः प्रतिपाद्यते, न च पञ्चनमस्काराल्लघुत्तरोऽन्योऽस्ति नमस्कार इत्यतो भद्रबाहस्वामिनासएक कृत इति.कथम्?, 'अरहतेवंदित्ता' इत्यनेनार्हन्नमस्कारः, 'चङदसपुची तहेवदसपुची एक्कारसंगसुत्तत्थधारा' इत्यनेनाचार्योपाध्यायनमस्कारः, यतः सूत्रप्रदा उपाध्याया अर्थप्रदा आचार्या इति। एवं व्याख्यातेसत्याह-एवंतर्हि अर्थसूत्रधारकान' इत्येववक्तव्यम्.आचार्योपाध्यायपदयोरेवंक्रमेण व्यवस्थितत्वात्,तत्कथमेतत् ? इति,अत्रोच्यते, नावश्यमा-चार्योपाध्यायैर्भवितव्यम्,अपितुक्वचिदसावेव सूत्रं शिष्येभ्यः प्रयच्छत्यसावेव चार्थमतः 'सूत्रार्थ-धारकान्' इत्येवमुषन्यस्तम् । सर्वसाधूंच' इत्यनेन तु साधुनमस्कारः प्रतिपादितः । सर्वशब्दः प्रत्येकमभिसंबध्यते. ततोऽयमों भवति-सर्वानहतः, एवं चर्दिशपूर्वधरादीनामपिमीलनीय, चशब्दान्सिद्धनमस्कारः। एवं व्याख्यातेसत्याह-किमर्थसिद्धनमस्कारः पश्चादभिधीयते?.अपित्वर्हन्नमस्कारानन्तरंवाच्यइति,अत्रोच्यते, यानिह्यहंदादीनिपदानितेषां सर्वेषामेव सिद्धाः फलभूताः, अतः फलप्रतिपादनार्थ पश्चादुपन्यास इति. अथवाऽर्हन्नमस्कारेणैव सिद्धनमस्कारोऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org