________________
४
ओघनियुक्तिः मूलसूत्र
नारतः, इयं तु प्रथमदिवस एव दीयते, प्रभूत- दिवसलभ्या सती स्वल्पदिवसलभ्या कृतेत्यर्थः, • एवं पदविभागसामाचारी दशधासामाचार्यपीति । तत्रौघसामाचारी तावदभिधीयते, अस्याश्च महार्थत्वात् कथञ्चिच्छास्त्रान्तरत्वाच्चादावेवाचार्यो मङ्गलार्थं संबन्धादित्रयप्रतिपादनार्थं च गाथाद्वयमाह
मू. (४)
अरहंते वंदिता चउदसपुब्वी तहेव दसपुवी । एक्कारसंग सुत्तत्थधारए सव्वसाहूय ॥ ओहेन उ निज्जुत्तिं वुच्छं चरणकरणानुओगाओ। अप्पक्खरं महत्थं अनुग्गहत्थं सुविहियाणं ।।
मू. (५)
वृ. अत्राह किमर्थं शास्त्रारम्भे मङ्गलं क्रियते ? इति, उच्यते, विघ्नविनायकोपशमनार्थं, तथा चोक्तम्“श्रेयांसि बहुविघ्नानि भवन्ति" इत्यादि, श्रेयोभूता चेयमतो मङ्गलं कर्तव्यं तच्च नामादि-भेदेन चतुर्धा, तत्रनामस्थापनेसुज्ञाने, द्रव्यमङ्गलं दध्यादि, तच्चानेकान्तिकमनात्यन्तिकंच. भाव- मङ्गलमहदादिनमस्कारः. तच्चैकान्तिकमात्यन्तिकंच । तदनेनसंबन्धेनायातस्यास्यव्याख्याक्रियते - साचलक्षणान्वितानालक्षणेति, लक्षणं च संहितादि, "संहिता च पदं चैव" इत्यादि, तत्रास्खलितपदोच्चारणं संहिता. सा चेयम् -'अरहंते वंदिता' इत्यादिका । अधुना पदानि प्रतन्यन्ते - अर्हतो वन्दित्वा चतुर्दशपूर्विणः तथैव दशपूर्विणः । एकादशाङ्गसूत्रार्थधारकान् सर्वसाधूंश्च । एतावन्ति पदान्याद्यगाथासूत्रे, द्वितीयगाथासूत्रपदान्युच्यन्तेओघेन तु निर्युक्तिं वक्ष्ये चरणकरणानुयोगात् अल्पाक्षरां महार्थाम् अनुग्रहार्थं सुविहितानाम्, एतावन्ति पदानि । अधुनापदार्थ:- 'अरहंते' इत्यादि, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तः तान् अर्हतः, 'वंदित्ता' इति 'वदि अभिवादनस्तुत्योः' स्तुत्वेत्यर्थः, समानकर्तृकयोः पूर्वकालेक्त्वाप्रत्ययो भवतीतिवन्दित्वा, किम् ? - 'ओघनियुक्तिं वक्ष्ये' इति द्वितीयगाथाक्रियया सह योगः, किमर्हत एव वन्दित्वा ?, नेत्याह'चतुर्दशपूर्विणश्च' चतुर्दश पूर्वाणि विद्यन्ते येषां ते चतुर्दशपूर्विणस्तांश्च वन्दित्वेति सर्वत्र क्रिया मीलनीया, किंतानेव ?, नेत्याह- 'तथैवदशपूर्विणश्च' 'तथे 'ति आगमोक्तेनप्रकारेणएवेतिक्रमनियमप्रतिपादनार्थः अनेनैव क्रमेण दशपूर्विण इति, दश पूर्वाणि विद्यन्ते येषां ते दशपूर्विणः, न केवलं तानेव, 'एकादशाङ्गसूत्रार्थ धारकान् ' एकादश च तान्यङ्गानि च एकादशाङ्गानि एकादशाङ्गानां सूत्रार्थी एकादशाङ्गसूत्रार्थौ तौ धारयन्ति ये तान् एकादशाङ्गसूत्रार्थधारकान् । 'सर्वसाधूंच' इति सर्व साधयन्तीति सर्वसाधवः अथवा सर्वे च ते साधवच सर्वसाधवः तान् सर्वसाधूंश्च वन्दित्वा चशब्दः समुच्चये, अथवाऽनुक्त समुच्चये. यच्च समुच्चितं तत्प्रतिपादयिष्ठामः । पदविग्रहस्तु यानि समासभानि पदानि तेषां प्रतिपादितः ।
अधुना चालनाया अवसरः सा प्रतिपाद्यते, एवं व्याख्याते सत्याह परः - सर्वमेवेदं गाथासूत्रं न घटते. कथम ?, इह 'ओघनिर्युक्तिं वक्ष्ये' इतिप्रतिज्ञा, साचप्रथममेवनमस्कारसूत्रेन संपादिता, यदुतनमस्कारोऽपि संक्षेपेणैवाभिधातव्यः, नचासौ संक्षेपेण प्रतिपादितः, अपि त्वर्हन्नमस्कार एव केवलः संक्षेपनमस्कारो भवति, स एव कर्तव्यो न चतुर्दशपूर्वधरादिनमस्कारः, अथ क्रियते, एवं तर्हि एकैकसया व्यक्तेनमसकारः कर्तव्यः, किं दशपूर्व्यादिनमस्कारेणेति, चतुर्दशपूर्विनमस्कारेणैव शेषाणां नमस्कारों भविष्यतीति, अथभेदेन क्रियते एवं तर्हि त्रयोदशपूर्वधरादीनामेकैकपूर्वहान्या तावत्कर्तव्यो यावत्पूर्वेकदेशधराणामिति, अत्रोच्यते, यदित्थं चोद्यं क्रियते तदविज्ञायैव परमार्थ, कथम् ? यदुक्तं तावत् संक्षेपग्रन्थोऽयं तदत्र नमस्कारोऽपिसंक्षेपेण कर्तव्य इति, अत्र तावत्प्रतिविधीयते येनैव संक्षेपग्रन्थोऽयं तेनैवलक्षणेनेत्थं नमस्कारः कृतः, तथाहि सामान्येनार्हतां नमस्कारोऽभिहितः न विशेषेण एकैकस्य तीर्थकरस्य, तथा भगवतामुपकारित्वान्नमस्कारः क्रियते, येऽप्यमी
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only