________________
मुलं- १५०
५१
वायत्तत्रराद्धंपव्वं वातत्प्रागेव श्रावको गृहीत्वाग्रामान्तरं गतः, ततश्रासौसाधुस्तस्य भ्रष्टइति, अत एतद्दोषभयात्प्रवेष्टव्यम् । प्रविशतश्च को विधिरित्यत आह- 'सुत्रधरादिपलोयण' प्रविशश्चासौ साधुः शून्यगृहादिप्रलोकनं करोति, कदाचित्तत्र भुजिक्रियां करोति. प्रविष्टश्च श्रावकगृहे 'चेइय'त्ति चैत्यवन्दनं करोति 'आलोयण' त्ति आलोचनां पृच्छति। तत्र च प्रविष्टो भिक्षादोषान् कथयन्नाह -
मू. (१५१)
उम्गम एसणकहणं न किंचि करणिज्जं अम्ह विहिदानं । कस्सा आरंभी तुज्झेसो ? पाहुणा डिंभा ॥
[भा. ५३ ] वृ. उद्गमदोषाणाम्-आधाकर्मादिदोषाणां कथनं एषणादोषाणां च कथनं, ततश्र आरम्भं दृष्ट्वा एतच्च ब्रवीति नास्मदर्थे किञ्चत्कर्त्तव्य आहारविधिः, किन्त्वस्माकं विधिदानं क्रियते, तथा चोक्तं - "विहिगहिअं विहिदिन्नं दोण्हपि बहुप्फलं जहा होति । अथ कदाचिच्छ्रावको न कथयति तदा डिम्भरूपाणि पृच्छति, तानि ह्यज्ञत्वाद्यथाव्यवस्थितं कथयन्ति । किं पृच्छति ? 'कस्सड्डा आरंभो' कस्य निमित्तमयमारम्भः ? इत्येवं साधुना पृष्टे सति डिम्भरूपाण्यपि कथयन्ति 'तुज्झेसो 'त्ति त्वदर्थ भयमारम्भः यतः 'पाहुण' त्ति प्राघूर्णका यूयमिति, अथवा 'पाहुण' त्तिप्राघूर्णकानामर्थेऽयमारम्भो नतव, एवं 'डिंभ' त्ति अर्भकरूपाणि कथयन्ति । अथ तत्रार्मकरूपाणि न सन्ति यानि पृच्छ्यन्ते ततः स्वयमेव केनञिद्व्याजेन रसवती यतो याति एतदेवाहमू. (१५२) रसवपविसण पासण मिअममिअमुवक्खडे तहा गहणं ।
पज्जत्ते तत्थेव उ उभएगयरे य ओयविए ।
[भा. ५४ ] वृ. रसवती - सूपकारशाला तस्यां प्रवेशनं करोति, प्रविष्टश्च पश्यत्तां दर्शनं करोति, तत्रच 'मित-ममितं उवक्खडे' त्ति कदाचिन्मितमुपस्क्रियते स्वल्पं, कदाचिदमितं उपस्क्रियते बहु, 'तहा गहणं' ति तत्र यदि मितं राब्द्धं ततः स्वल्प गृह्णाति, अथ प्रचुरं राद्धं ततस्तदनुरूपमेव गृह्णाति । तत्र नियुक्ति कारगाथायां संबन्धि पूर्वार्द्धं व्याख्यातं, कतमत् ? "उग्गमदोसाईणं कहणं उप्पायणेसणाणं च" इति इदानीं मूलनिर्युक्ति कारगाथायां तस्यामेव यदुपन्यस्तं "तत्थ उ"त्ति तद्व्याख्यानयन्नाह, 'पज्जत्ते तत्थेव उ' यदि पर्याप्तं भक्तं लब्धं ततस्तस्मिन्नेव गृहेभुङ्क्त इति । 'उभएगयरेच ओय- विए'त्तिउभयं श्रावकः श्राविकाच 'ओयविअं' खेदजं उभयं यदि भवति 'एगतरं च ओयविअं' अल्प- सागारिकः - श्रावक इत्यर्थः, श्राविका वा ओयविआअल्पसागारिकेत्यर्थः, ततो भुङ्क्त इति ।
'तत्थ उ' त्ति अयमवयवो व्याख्यातः इदानीं 'नत्थि 'त्ति अवयवो व्याख्यायतेमू. (१५३) अस अपज्जते वा सुनघराईण बाहि संसद्दे ।
लट्टी दारघट्टण पविसण उस्सग्ग आसत्थे ॥
[भा. ५५ ] वृ. असति तस्मिन्नुभयं यदा श्रावकोऽल्पसागारिको नास्ति, नापि श्राविकाऽल्पसागारिका, श्राचिकश्राविकयोरन्यतरो वा यदाऽल्पसागारिको नास्ति तदा अभावे अति 'अपज्जत्ते व 'त्ति यदा पर्याप्तं तस्मिन् श्रावकगृहेभक्तं नभवतिलब्धंतदाऽन्यत्रापिभिक्षाटनं कृत्वा 'सुन्नघराई' ति शून्यगृहादिषुगम्यतेभोजनार्थम्, आदिशब्दादेवकुलादिषु वा, तेषां च शून्यगृहादीनां बहिरेव व्यवस्थितः संशब्द - काशितादिरूपं करोति, कदाचित्तत्रकचित्सागारिको दुधरित्री भवेत् स च तेन शब्देन निर्गच्छति, अथैवमपि शब्दे कृते न निर्गच्छति ततो यष्ट्या द्वारे घट्टनं आहननं क्रियते, ततः प्रविशति प्रविष्टश्च यदि कञ्चिन्न पश्यति ततः 'उस्सग्गं' ति ईयपथनिमित्तं पञ्चविंशत्युच्छ्वासप्रमाणं कायोत्सर्गं करोति, तथा च 'आसत्थे 'त्ति मनागाश्वासितः सन् ।
ततश्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org