SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ मूल-११५८ २३५ र्भवतीति। एवं तावन्मूलगुणोत्तरगुणेषु छलितनालोचना दातव्या । इदानीं यम्मै आलोचना दीयते तना. प्यालोचयितव्यमिति. एतदेव प्रदर्शयन्नाह-जातिकुलबलस्पादिषटत्रिशद्गणसमन्वितेनाप्यवश्यं परसाक्षिकी शुद्धिः कर्त्तव्या सुष्वापिज्ञानक्रियाव्यवहारकुशलेन-सुविहितेनेति। अत्रोदाहरणं दीयते- यथा कुशलाऽपि वैद्योऽन्यस्मै वैद्याय कथयति आत्मव्याधि, श्रुत्वा च तस्य वैद्यस्य सोऽपि वैद्यो यस्मै कथितं स प्रतिकर्म आरभते । एवं जानताऽपि प्रायश्चित्तविधिमात्मनः सम्यकरणेन तथाऽपि प्रकटतरमलोचयितव्यमवश्यमिति। किच्च-सुगमा। नह' नैव शुद्ध्यति सशल्यः पुरुषः, कथं पुनः शुद्ध्यति?, यथा भणितं धुतरजसा शासने तथा शुद्ध्यति, कथं पुनः शुध्यति अत आह-उद्धृतसर्वशल्यो जीवः शुद्ध्यति धुतक्लेश इति, तस्माद्यद्यपि कथमपि किश्चिदकार्यं कृतं तथाऽप्यालोचयितव्यम्। कथं पुनस्तत्कृतं भवतीत्यत आह-'सहसा' अप्रतर्कितमेव प्राणिवधादिकमकार्य यदि कृतं ततस्तस्मात्प्रतिक्रमितव्यमित्येतत द्वितीयगाथायां वक्ष्यते, अज्ञानेन च कृतं न तत्र प्राणी ज्ञातो व्यापादितथ, भीतेन- आत्मभयात् मा भूदयं मां मारयिष्यतीत्यतः प्राणव्यपरोपणं यदि कृतं. प्रेरितन वा परेण यदि कृतं. व्यसनेन वा आफ्दा यदि कृतं आतंकन वाज्वरादयुपसर्गेण यदि कृतं मुढेन वा-रागद्वेषयत्कृतं किश्चिदकार्यं ततः यत्किश्चित्कृतमकार्यतत्पुनः 'नह' नैव समाचरितुंलब्भाउपलभ्येत यथा तथा प्रतिक्रमितव्यं, एतदुक्तं भवनि-किश्रिदकार्यं कृत्वा पुनर्यथा नैव क्रियते तथा तस्य प्रतिक्रमितव्यं, न पुनस्तदकार्य हृदयेन वोढव्यं, सर्वमालोचयितव्यमित्यर्थः । कथं पुनस्तदालोचयितव्यमित्यत आह-तस्य च साधोयत्प्रायश्रितमार्गविदो गुख उपदिशन्तितत्प्रायश्चितं 'तथा' तेनैव विधिनाऽऽ. चरितव्यं, कथम्?,अनवस्थाप्रसङ्गभीतेन सताऽऽलोचयितव्यम्, अनवस्था नाम यद्यकार्यसमाचरणात्प्रायः चित्तं न दीयते क्रियते वा ततोऽन्योऽपि एवमेव समाचरति यदत प्राणिव्यपरोपणादौ न किञ्चित्प्रायश्चित्तं भवति ततश्च समाचरणे न कश्चिद्दोष इति, एवमनवस्थाप्रसङ्गभीतेन साधुना प्रायश्चितं समाचरितव्यमिति। इतथालोचयितव्यम्-न तत्करोति दुःखं शस्त्रं नापि विषं नापि दुष्प्रयुक्तः' दुःसाधितो वेतालः यन्त्र वा दुष्प्रयुक्तं सो वा क्रुद्धः प्रमादिनः पुरुषस्य दुःखं करोति यत्करोति भावशल्यमनुसृतम् उत्तमार्थकाले' अनशनकाले, किं करोतीत्यत आह- 'दुर्लभबोधिकत्वं अनन्तसंसारित्वं चेति, एवन्महादुःखं करोति भावशल्यं अनुद्धृतं, शस्त्रादिदःखानि पुनरेकभव एव भवन्ति, अतः संयतेन सर्वमालोचयितव्यम। मू. (१९५९) तो उद्धरंति मारवरहिता मूल पुनब्भवलयाण। मिच्छादसणसल्लं मायासल्लं नियाणं च ॥ . मू. (१९६०) उद्धरियसब्वसल्लो आलोइयनिदिओ गुरुसगासे। होइ अतिरेगलहुओ ओहरियभरो व्व भारवहो ।। मू. (१९६१) उद्धरियसव्वसल्लो भत्तपरिन्नाएँ धणियमाउत्तो। मरणाराहणजुत्तो चंदगवेझं समानेइ।। मू. (१९६२) आराधनाइ जुत्तो सम्म काऊण सुविहिओ कालं। उक्कोसं तिन्नि भवे गंतूण लभेन निव्वाणं ॥ वृ. तत एवमालोच्य गारवरहिता मुनयः उदरन्ति' उत्पाटयन्ति मूलं पुनर्भवलतानां यन मिथ्यादर्शनशल्यं मायाशल्यं निदानशल्यं चादरन्तीति । सुगमा, नवरम अतिरेकम् -अत्यर्थं लघुर्भवति, 'ओहरितभारो' उत्तारितभार: 'भारवहः' गर्दभादिः स यथा लघुर्भवति एवमालोचिते सति कर्मलघुत्वं भवतीति । तश्चैवंविधः स उद्धृतसर्वशल्यः भत्तपरिन्नाए भक्तप्रत्याख्याने धनिकम' अत्यर्थम् आयुक्तः' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy