SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आधनियुक्तिः मूलसूत्र प्रयत्नपरी मरणाराधनयुक्तः, स एवंविधश्रन्द्रकवेधं समानयति' करोतीत्यर्थः । अत्र च कथानकं राधावेथे आवश्यकादवसेयमिति । किञ्च-आराधनया युक्तः प्रयत्नपरः सम्यक् कृत्वा सुविहितः कालं पुनच 'उत्कृष्टतः ' अतिशयेन सम्यगाराधनां कृत्वा त्रीन भवान् गत्वा 'निर्वाण' मोक्षमवश्यं प्रान्पोतीति एतदुक्तं भवति-यदि परमसमाधानेन सम्यक कालं करोति ततस्तृतीये भवेऽवश्यं सिद्ध्यतीति । आह परः- उत्कृष्टतोऽष्टभवाभ्यन्तरं सामायिकं प्राप्य नियमात्सिद्ध्यतीति, जघन्यतः पुनरेकस्मिन्नेव भवे सामायिकं प्राप्य सिद्व्यतीत्युक्तं ग्रन्थान्तरे, ततश्च यदुक्तं त्रीन भवानतीत्य सिद्ध्यतीति तदेतन्नाप्युत्कृष्टं नापि जघन्यं ततश्र विरोध इति, उच्यते, अनालीढसिद्धान्तसद्भावेन यत्किञ्चिदुच्यते, यत्तदुक्तं जघन्यत एकेनैव भवेन सिद्ध्य तीति तद्वज्रर्षभनाराचसंहननमङ्गीकृत्योक्तं, एतच्च छेवट्टिकासंहननमङ्गीकृत्योच्यते, छेवट्टि - कासंहनना हि यद्यतिशयेनाराधनं करोति ततस्तृतीये भवे मोक्षं प्रान्पोति, उत्कृष्टशब्द श्रात्रातिशयार्थे द्रष्टव्यो न तु भवमङ्गीकृत्य, भवाङ्गीकरणे पुनरष्टभिरेवात्कृष्टतो भवे छेवट्टिकासंहननो सिद्ध्यतीति । एसा सामायारी कहिया भे धीरपुरिसपत्नत्ता । संत गाणं निग्धाणं महरिसीणं ॥ एवं सामायारिं जुंजंता चरणकरणमाउत्ता । साहू खवंति कम्मं अनेगभवसंचियमनंतं ॥ एसा अनुग्गहत्था फुडवियडविसुद्धवंजणाइन्ना । इक्कारसहिं सएहिं एगुणवन्नेहिं सम्मत्ता || नियुक्तिगाथा - ८११. भाष्यगाथा - ३२२, प्रक्षेपगाथा - ३२ मू. (१९६३) मू. (१९६४) मू. (१९६५) २३६ मुनि दीपरत्नसागरेण संशोधिता संपादिता ओघनिर्युक्तिः मूल सूत्रस्य द्रोणाचार्य विरचिता टीका परिसमाप्ता । ४१ द्वितीय मूलसूत्रं - ओघनिर्युक्तिः समाप्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy