________________
२०४
ओघनियुक्तिः मूलसूत्र चत्वारि। मू. (९५५) अनावायमसंलोग निदोसं बितियचरिम जयणाए।
पउरदवकुरुकुयादी पत्तेयं मत्तगा चेव।। मू. (९५६) तइएवि य जयणाए नाणत्तं नवरि सद्दकरणंमि।
भावासनाए पुण नाणतमिणं सुणसुवोच्छं॥ वृ. अत्रानापातमसलोकंच स्थण्डिलं निर्दोषं. द्वितीयतृतीयचरमषु भङ्गकेषु यतनया व्युत्सृजनं कर्त्तव्यं, का चासौ यतना?, प्रचुरद्रवेण कुरुकुचादिकं कर्त्तवयं प्रत्येकं प्रत्येकं च मात्रकाणि सपानकानि भवन्तीति । किं सर्वेष्वेव स्थण्डिलेषु कुरुकुचैव यतना कर्त्तव्या उत कश्चिद्विशेषः ?, उच्यते. अस्ति विशेषः, तृतीयेऽपि स्थण्डिले यतनाया नानात्वमेतावद्यदि परं यदुत शब्दकरणं, एतदुक्तं भवति-तृतीये स्थण्डिले आपातासंलोक शब्द कुर्वभिर्गन्तव्यं, भावासन्ने, पुनयंतनायां यन्नानात्वं तच्छणुत वक्ष्ये । तत्र प्रथमस्थण्डिले गन्तव्यं, अथ तन्नास्ति, मू. (९५७) जदि पढमन तरेज्ना तो बितियं तस्स असइए तइयं ।
तस्स असई चउत्थे गामे दारे य रत्थाए।। वृ. यदि प्रथमे स्थण्डिले गन्तुं न शक्नुयात्ततो द्वितीयं व्रजेत. 'तस्य' द्वितीयस्यासति तृतीयं व्रजेत्, 'तस्य तृतीयस्य स्थण्डिलस्यासति चतुर्थ स्थण्डिलं व्रजेत, यदा चतुर्थमपि स्थण्डिलं गन्तुं न शक्नोति तदा ग्रामद्वारे गत्वा व्युत्सृजति, यदा ग्रामद्वारमपि गन्तुं न शक्नोति तदा रथ्यायामेव व्युत्सृजति॥ मू. (९५८) साही पुरोहडे वा उक्स्सए मत्तगंमि वा निसिरे।
अच्चुक्कडमि वेगे मंडलिपासंमिवोसिरइ॥ वृ. यदा रथ्यायामपि गन्तुं न शक्नोति तदा ‘साहीए' खडक्तिकायां गत्वा व्युत्सृजति, यदा खडक्किकायां गन्तुं न समर्थस्तदा पुरोहडे' अग्रद्वारे व्युत्सृजेत्, यदा पुरोहडमपि गन्यु नालं तदोपाश्रये मात्रक वा व्युत्सृजेत्.सर्वथा 'अच्चुक्कडमि वेगे मंडलीपासंमिवासिरिति' सुगमम्। इदं च लोकेऽपि प्रसिद्ध, यदुत प्राप्तपुरीषादेर्वेगो न धार्यते । अत्र च कथानकम्-एगो राया तस्सय वेज्जो पहाणो सो मतो, तंमि मए राइणा गवसावियं एयस्य पुत्तो अत्थि वा नवा ?, तस्स य कहियं-अस्थि एगा सुया, ताए य सयलं वेज्जयं अहीयं. हक्कारिया आयाया. भणिया य-किं ते भणियं ?. सा भणडअहियं विज्जयं. ततो एयरसंतरे ताए वायकम्म कयं. तना इयरेहिं विज्नेहिं हसियं, ततो तीए ताणं विज्नाणं राइणा य परिकहणा कया, जहाम. (९५९) तिन्नि सल्ला महाराय, अस्सिं देहे पइट्ठिया।
__ वायमुत्तपुरीसाणं पत्तवेगं न धारए। वृ. सिलागो सुगमा । एवं साणावि बेज्जवईणं परिकहणा कायव्वा । एतदेव गाथयोपसहरन्नाहमू. (९६०) राया विज्जमि मए विज्जसुयं भणइ किं च ते अहियं ? ।
अहियंति वायकम्मे विज्ने हसणा य परिकहणा ।। म. (९६१) एसा परिट्ठवणविही कहिया भे धीरपुरिसपन्नत्ता।
सामायारी एत्तो बुच्छ अप्पक्खरमहत्थं ॥ वृ. सुगमा ।। उच्चरिएत्ति दारं गयं, इदानीं सामाचारी व्याख्यायते. मू. (९६२) सन्नातो आगता चरमपोरिसिं जाणिऊण आगाढं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org