________________
मूलं - ८९९
मू. (८९९)
इरियं नवि सोहेइ पेहाईयं स संजम काई । थामो वा परिहाय गुणणुप्पेहासु य असत्तो ॥
[भा. २९१] वृ. षण्णां स्थानानामन्यतरस्मिन्स्थाने- कारणे आगत सति आहारयेन्मधावी संयतः सुसमाहितः । कानि च तानि षट् स्थानानि ? इत्यत आह-वेदना क्षुद्वेदना तत्प्रशमनार्थं भुङ्के, तथा वैयावृत्त्यार्थं तथा ईर्ष्यापथिकाशोधनार्थं तथा संयमार्थं स च पेहापहपमज्जणादिलक्षणः, तथा 'पाणवत्तियाए प्राणसंधारणार्थ, प धनुर्धर्मचिन्तार्थं भुङ्क्ते | अधुनैतां गाथां भाष्यकृत्प्रतिपदं व्याख्यानयति आद्यावयवं तावदाह - नास्ति क्षु सरिसी वेदनाऽतो भुञ्जीत तत्प्रशमनार्थ । 'छाओ'त्ति बुभुक्षितो वैयावृत्त्यं कर्त्तुं न शक्नोति अतो भुङ्क्ते । ईर्यापथिकां बुभुक्षितोन शोधयतियतोऽतस्तच्छोधनार्थं भुङ्क्ते । तथा पेहाईयंव' त्ति 'पेहोपेहमज्जण' इत्यादिकं संयम बुभुक्षितः कर्तुं न शक्नोति यतोऽतो भुङ्क्ते । 'थामोवा' प्राणस्तस्य परिहानिर्भवति यदि न भुङ्क्ते अतस्तदर्थं भुञ्जीत । दारंतथा गुणनं पूर्वपठितस्य अनुप्रेक्षाचिन्तनंग्रन्थार्थयोः एतदसां कर्तुमसमर्थः सन्भुङ्क्त । अहवा न कुज्ज आहारं चहिं ठाणेहिं संजए। पच्छा पच्छिमकालंभि, काउं अप्पक्खमं खमं ॥ आर्यके उवसग्गे तितिक्खया बंभचेरगुत्तीए ।
मू. (९०० )
मू. (९०१)
पाणदयातवहेडं सरीरवोच्छेयणट्टाए । आयंको जरमाई गया सन्नायगा व उवसग्गा । भवयपालणा पाणदयावासमहियाई ॥ तवहेउ चउत्थाई जाव छउम्णासिओ तवो होइ । छड सरीरवोच्छेयणडया होयणाहारो ॥ एहिं छहि ठाणेहिं अणाहारो य जो भवे । धम्मं नाइक्कमे भिक्खु, झाणजोगरओ भवे ॥
मू. (९०४)
वृ. अथवा न कुर्यादवाहारमेभिः षङ्गिः स्थानैर्वक्ष्यमाणलक्षणैः । तत्र नियुक्ति कार एव षष्ठं पदं व्याख्यानयन्नाह - 'पच्छा पच्छिमकालंभि' पश्चिमकाले संलेखनाकाले 'आत्मक्षमाम्' आत्महितां क्षमांक्षान्तिमुपशमं कृत्वा ततः पश्चात् सुखेन शरीरपरिकर्मानन्तरं सर्वाहारं मुञ्चतीति ॥ इदानीं भाष्यकार एव एतानि षट स्थानानि प्रदर्शयन्नाह - 'आतङ्क' ज्वरादिर्वक्ष्यते तथा 'उपसर्गः ' राजादिजनितः, एतेषां 'तितिक्षार्थं ' सहनार्थं न भोक्तव्यं, तथा ब्रह्मचर्यगुप्तर्थं च न भोक्त व्यं, तथा तपोऽर्थं शरीरव्यवच्छेदार्थं च न भोक्तव्यमिति । इदानीं भाष्यकारः प्रतिपदं व्याख्यानयति, तत्राद्यावयवव्याचिख्यासवाऽऽह आतङ्कोज्वरादिः, आदिग्रहणादन्यो व्यार्धियत्र भोजनं न पथ्यं तदर्थं न भुङ्क्ते । दारं । राज्ञा राजकुलधारणादिरूपो यद्युपसर्गः कृतः सणायगों वा-स्वजनः यदि उन्निष्क्रमणार्थमुपसर्गं करोति ततो न भुङ्क्ते । ब्रह्मव्रतपालनार्थं न भुङ्क्ते यतो बुभुक्षितस्यान्मादो न भवति । तथा प्राणदयार्थं न भुङ्क्ते, यदि वर्षात महिका वा निपतति तपोऽर्थं न भुङ्क्ते तच्च चतुर्थादि यावत्षण्मासास्तावत्तपो भवति तदर्थं न भुङ्क्ते । षष्ठं शरीरस्य व्यवच्छेदार्थमनाहारः साधुभतीति । एभिः पूर्वोक्तः षङिभः कारणैराहार आहारयितव्यः षङ्भि कारणैर्नाहारयितव्यस्ततः किमेतद्भोजनमपवादपं ? उच्यते ?. अपवादपदमेवैतद्, यतः -
मू. (९०५)
मू. (९०२)
भू. (९०३)
Jain Education International
१९५
*
भुंजतो आहारं गुणोवयारं सरीरसाहारं । विहिणा जहोवइयं संजमजोगाण वहणट्टा ॥
For Private & Personal Use Only
www.jainelibrary.org