________________
मूल-८६९
૮
एतदर्थ मण्डली क्रियते येन बहवः प्रतिजागरकाभवन्तीति । बालोऽपि भिक्षामटितुमसमर्थः, स च बहूनां मध्ये सुखेनैव कथनं नु नाम वर्त्तेत ? अता मण्डली भवति । वृद्धोऽप्येवमेव. सेहः- शैक्षकः, स चैकः सन् भिक्षाविशुद्धिं न जानाति ततस्तस्यानीय दीयते. आएसी- प्राधूर्णकस्तस्य चागतस्य सर्व एवोपकुर्वन्ति स चोपकारः सर्वैरेव मिलित्तैः कर्तुं शक्यते न त्येकेन. गुरोश्च सर्वैरेवोपकर्त्तुं शक्येते न त्येकेन सूत्रार्थपरिहानेः. तथा 'असहुवग्गो' त्ति असमर्थो - राजपुत्रादिः स च भिक्षामटितुं सुकुमालत्वान्न शक्नोति तत सर्व एव मिलिता उपकुर्वन्ति, तस्मात् 'साधारणोग्गहा' साधारणश्रासावुपग३ हश्र साधारणोपग्रहस्तस्मात् साधारणोपग्रहत्कारणान्मण्डली कर्त्तव्या, अथवा मण्डलीविशेषषणमेतत्, उपगृह्यातीत्युपग्रहा भक्तादिः स साधारण:- तुल्यो यस्यां सा साधारणोपग्रहा मण्डली भवित । 'अलद्विकारणा मंडली होड़' इति कदाचित्कचित्साधु रलब्धिको भवति तत तेऽन्ये साधवस्तस्मै आनीय प्रयच्छन्ति अत एतत्कारणान्मण्डली भवति । इदानीं भिक्षागतानां साधूनां या वसतिरक्षपालस्तेन किं कर्त्तव्यमित्यत आहमू. (८६२) नाउ नियट्टणकालं वसहीपालो य भायणग्गाहे । परिसंटियच्छद वे गण्हणट्टया गच्छमासज्जा ॥
वृ. ज्ञात्वा भिक्षागतानां निवर्तनकालं वसतिपालो 'भाजनं' नन्दीपात्रं तत्प्रत्युपेक्ष्योद्ग्राहयतिसङ्घट्टितेनास्ते इत्यर्थः, किमर्थः ?, परिसंस्थिताच्छद्रवग्रहमार्थम् एतदुक्तं भवति तत्रानीय साधवः पानकं प्रक्षिपन्ति, पुनश्च तत्र परिस्थितं स्वच्छीभूतं सत् ततोऽन्यत्र पात्रके क्रियते येन तत्स्वच्छमार्यादीनां योग्यं भवति, पात्रकादिप्रक्षालनं च क्रियते । 'गच्छमासज्ज' त्ति 'गच्छमाश्रित्य' गच्छस्य प्रमाण ज्ञात्वा पात्रकमुद्ग्राहयन्ति, एतदुक्तं भवति यदि महान् गच्छस्ततः पानकगलनार्थं महाप्रमाणं पात्रकमुद्ग्राहयति, तथा द्वे त्रीणि चत्वारि पञ्चादीनि यावत ।
मू. (८६३)
असई य नियत्तेसुं एक्वं चउरंगुलूणभाणेसु ।
पक्खिविय पडिग्गहगं तत्थऽच्छदवं तु गालेज्जा ॥
वृ. अथ तत्र रक्षपालः समर्थो नास्ति यः पात्रकमुद्ग्राहयति, अथवा 'असई य'त्ति यदि नन्दीपात्रं नास्ति यत्रोदकमानीतं स्वच्छीकरणार्थं क्रियते ततोऽसति तस्मिन् नन्दीपात्रे तदेकं पतद्भहं प्रक्षिप्य, क्व ?, अत आह- 'चउरंगुलूणभाणेसु' चतुर्भिरगुरूनानि यानि भाजनानि तेषु प्रक्षिप्य पतद्भहं पुनस्तस्मिन् क्षणीभूते स्वच्छं द्रवं गालयेत. अत्र याचं नियमो द्रष्टव्यः यदुत भिक्षां तावत्साधवः पर्यटन्ति यावत्पात्रकं चतुर्भिरङ्गुलैख्नभास्त इति । आह- किं पुनः कारणं तंद्रवगलनं क्रियते ?
मू. (८६४)
आयरियअभावियपाणगट्ट्या पायपोस धुवणट्टा ।
होइ य सुहं विवेगो सुहद्रायमणं च सागरिए ।
वृ. आचार्यपानार्थं अभावितसंहादिपानार्थं च गलनं क्रियते। तथा पादधावनार्थ 'पोस' त्ति अधिष्ठानं तस्य प्रक्षालनार्थं तथा भवति च सुखेन विवेकः- त्यागोऽतिरिक्त स्य तस्यानकस्य, तथा सुखेन वाऽऽ चमनं सागारिकस्याग्रतः क्रियते, एवमर्थं गलनं क्रियते इति । कियन्ति पुनः पात्रकाणि गलितद्रवस्य भ्रियन्ते ? मू. (८६५) एक्कं व दो व तिन्निव पाए गच्छप्पमाणमासुज्न । अच्छदवस भरेज्जा कसट्टबीए विरिचेज्ना ||
वृ. एकं द्वे त्रीणि वा पात्रकाणि भ्रियन्ते. गच्छप्रमाणं ज्ञात्वा चतुष्प्रभृतीन्यपि भ्रियन्ते स्वच्छद्रवस्य. तत्र च गलिते सति कसट्टे - कचवरं वीजानि च गांधूमादीनि विगित् परित्यजेत. एवं तावत् पात्रकर्णेनापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org