SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १७३ मूलं - ७६४ वृ. . सस्निग्धं तोयेन उदकार्दमुदके त्रसाकुलं हस्तं मात्रं द्रव्यं वा दृष्ट्वा एकतरमपि तन्मा गृहाण | `पत्ति 'त्ति द्वारमुक्त:. भाष्यकार एव 'परियत्तिय'त्ति व्याख्यानयन्नाह - 'परियत्तियं च मत्तं' तत् गृहस्थमात्रकं कदाचित्सस्निग्धादिसमन्वितं भवति ततश्च सस्निग्धादिषु सत्सु प्रत्युपेक्षणा कार्येति । उक्तं परावर्तितद्वार: मू. (७६५) पडिओ खलु दट्टब्वो कित्तिमसहावओ य जो पिंडो । संजम आयविराधन दितो सिट्टि कब्बट्टो ॥ वृ. पतितः पात्रके पिण्डो द्रष्टव्यः किमयं कृत्रिमः ? - योगेन निष्पन्नः सक्तु मुद्गपिण्ड इव सिद्धपिण्डो वा स्वाभाविक कूरखोट्ट इव, तत्र यदि कृत्रिमः पिण्डः स्फोटयित्वा तं न निरूपयति ततः संयमात्मविराधना भवति यथा सिडिकब्बटुस्स हताकाष्ठेन कन्थिका इत्येतत्कथानकमनुसरणीयं तेन हि संयोगपिण्डो न निरूपितस्तत्र च संकलिकाऽऽसीत्, तत्र राजकुले व्यवहारस्तेन च काष्ठर्षिणा भगवात निर्वृढम्, अन्यच कदाचित्तादृशां न भवति ततश्च निरूपणीय इति ।। तत्रात्मविराधनादिप्रदर्शनायाह मू. ( ७६६ ) गरविस अप्रिय कंटय विरुद्वदव्वंभि होड़ आयाए । संजमओ छक्काया तम्हा पडियं विगिंचिज्ना || वृ. स गर उच्यते य हारं स्तम्भयति कार्मणं वा गरः, स कदाचित्तत्र पिण्डे भवति, तता विषमस्थीनि कण्टकाश्च कदाचिद्भवन्ति, विरुद्धं वा किंचिद्रव्यं तत्र भवति, ततश्रानिरूपणे एभिरात्मविराधना भवति, तथा संयमतश्च षट्काया विराध्यन्ते, कथं ?, कदाचित्तत्र पृथिवी उदकं वनस्पतिरग्निर्वा लग्नो भवति, यत्राग्निस्तत्र वायुरपि, द्वीन्द्रियादयश्च कदाचिद्भवन्ति, ततश्च 'पडियं विगिंचेज्जा' विभागेन विभजेतनिरूपयेदित्यर्थः । अथवाऽनाभोगेन कंदाचित्तत्र सुवर्णादि स्थापयित्वा ददाति, एतदेवाह मू. (७६७) भोण भए पडिनी उम्मीस भत्तपाणि । दिना हिरनमाई आवज्जणसंकणादिट्टे || वृ. अनाभोगेन ददाति-तन्दुलादिमध्ये व्यवस्थतिं सुवर्णादि पुनश्च रन्धयित्वा तद्ददत्यनाभोगेन प्रदानं भवति, भयेन वा ददति, कथं ?, कयाचित्परसत्कं सुवर्णमपहृतं पुनश्च प्रत्याकलिता सती कलिकलङ्कभयात्साविष्टयित्वा ओदनादिना ददाति, प्रत्यनीकत्वेन वा 'उन्भिभ्य' एकीकृत्य भक्त पानादिना सह हिरण्यादि ददाति, ततश्च तस्य साधोरेतद्दोषं विनाऽपि यदि न निरूपयति ततः 'आवज्जणं' ति आवर्जनं पूर्वोक्तं संयमविराधनादिदोषाणां भवति, प्रमादपरत्वात्तस्य, तथा शङ्कना- दृष्टे तत्र सुवर्णादौ राजप्रभृतीनां शङ्का भवति यदुत न विद्मः किं तावदयं साधुरेवंविधः आहोश्चिद्भिक्षादातेति, तस्मात्पतितः सन् पिण्डो निरूपणीयः इत्युक्तं पतितद्वारं, गुरुद्वारप्रतिपादनायाह मू. (७६८) 'उक्खेवे निक्खेवं महल्लया लुब्द्रया वहो दाहो । अचियत्ते वोच्छेओ छक्कायवहो य गुरुमत्ते ॥ वृ. यत्तत्पाषाणादिधनं दत्तं तस्योत्पेक्षे सति निक्षेपे वो मोक्षणे सति गृहस्थस्य कटिभङ्गी वा पादस्योपरि पतनं वा भवति, 'महल्लया' इति महत्प्रमाणं वा तद्गृहस्थस्य भाजनं तस्योत्पेक्षे सति दोषा भवन्ति, अथवा 'महल्लया' इति महत्ता भण्डकेन दीयतामित्येवं कदाचिदसौ साधुर्भणति ततश्च लुब्धता साधोरुपजायते, तथ वधश्च तस्यैव साधोः पादस्योपरि भण्डकेन पतितेन वधो भवति तथा 'दाह' त्ति दाहो वा भवति यदि तदुष्णं भण्डकं भवति, अचियत्तं वा भवति तस्यैव गृहस्थस्य तद्भहपतेर्वा अचियत्तं वा अप्रतीतिर्वा भवति, महाप्रमाणकेन भण्डकेन दीयमाने सति व्यवच्छेदो वा तद्रव्यस्यान्यद्रव्यस्य वा भवति, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy