________________
१५८
उस्सग्ग काउ गमने मत्तयगणे इमे दोसा ॥
वृ. उत्सर्गस्तावद्भिक्षार्थं गच्छता सर्वमुपकरणं गृहीत्वा गन्तव्यं यस्तु विस्मरणालुः स जघन्येन चालपट्टकमादाय गच्छति. उपलक्षणं चात्र चालपट्टकोऽन्यथा पात्रकं पटलानि रजोहरणं दण्डकं कल्पद्वयं च गृहीत्वा गच्छति । उक्तोपकरणयतना. इदानीं मात्रकयतनां प्रतिपादयन्नाह मात्रकं गृहीत्वा गन्तव्यं, अगृहीत्वा वात्सर्गमिति उपयोगं कृत्वा व्रजति, अथ मात्रकं न गृह्णाति गच्छंस्ततथ मात्रकाग्रहणे एते च दोषाः वक्ष्यमाणाः अत्र च यदुत्सर्गग्रहणं कृतं तद्विधिप्रदर्शनार्थ न तु पुनः स्वस्थानमिति ।
इदानीं मात्रका ग्रहणे दोषान् प्रदर्शयन्नाह .
मू. (६८२ )
आघनियुक्तिः मूलसूत्रं
आयरिए य गिलाणे पाहणए दुल्लहे सहसलाभे । संसत्तभत्तपाने मत्तगगहणं अणुन्नायं ॥
वृ. आचार्यर्थं ग्लानार्थ प्राघूर्णकार्य वा दुर्लभं वा किञ्चिल्लभ्यते तदर्थ. 'सहसा' अकस्मात्किञ्चित्कदाचिल्लभ्यते तदर्थ तथा संसक्त भक्त पानग्रहणार्थं मात्रकग्रहणमनुज्ञातम | पाउग्गायरिपाई कह गिण्हउ मत्त अगहियंमि ।
मू. (६८३)
जा एसि विराधनाया दवभाणे जं दवण विना ।।
[भा. २२९] वृ. प्रायोग्यमाचार्यादीनां क्व गृह्णातु मात्रके अगृहीते सति ? अग्रहणाच्च या तेषामाचार्यादीनां विराधना सा तेनाङ्गीकृता भवति, तथैवं मन्यसे द्रवभाजने गृह्णातु ततश्चैवं द्रवेऽगृहीते तेन विना या विराधना सा तदवस्थैव, आदिग्रहणाद् ग्लानप्राघूर्णका अपि व्याख्याता एव ।
मू. ( ६८४)
दुल्ल हदव्वं य सिया घयाइ गिण्हे उवग्गहकरं तु ।
परन्नपाणलंभी असंथरे कत्थ य सिया उ ||
[भा. २३०] वृ. दुर्लभं वा द्रव्यं घृतादि 'स्यात् ' भवेत ततस्तत्र घृतादि गृह्यते यत उपग्रहं करोति- अवष्टम्भं करोति तत्. सहसा-आकस्मिकप्रचुरान्नपानलम्भः स्यात्ततः असंस्तरतां प्रव्रजितानामात्मानं कृच्छ्रेण यापयतां कुत्रचित् स्याद्ग्रहणमिति । तथा चमू. (६८५)
संसत्तभत्तपाने मत्त सोहर पक्रियवे उवरिं ।
संसत्तगं च नाउं परिद्रुवे संसरक्खट्टा ||
[ भा. २६१] वृ. संसक्त भक्त पानग्रहणे सति मात्र के ' शोधयित्वा' प्रत्युपेक्ष्य सक्तु काञ्जिकादि पात्रकस्योपरि प्रक्षिपत् । अथ तत्पानकादि गृहीतं मात्रके विनतु अशुद्धसंसक्तं जातं, ततचैवं ज्ञात्वा विधिना तस्मिन्नेव क्षण परिष्ठापयति किमर्थ ?, शेषभक्त रक्षणार्थं, मा भूत्तद्गन्धेन शेषस्यापि संसक्तिः स्यात्, तस्मान्मात्रकं ग्रहीतव्यं, एभिच कारणैर्न गृह्णाति - मू. (६८६)
Jain Education International
गलनकज्जतुरिओ अनभोगेणं च लित्त अग्रहणं ।
भांग गिलाणा उसग्गादीणि नवि कुज्जा |
वृ. ग्लानकार्येण त्वरितां गतः ततश्रवं न गृह्णाति, अनाभांगेन वा निर्गतो यदि, लिप्तं वा लेपन तत् मात्रकं यदि ततश्रवाग्रहणं मात्रकस्य संभवतीति । उक्ता मात्रकयतना, इदानीं उत्सगंयतनाप्रतिपादनायाह- अनाभोगेन उत्सर्ग- उपयोगं न कुर्यात, स्नानार्थं वा त्वरित उत्सर्ग न कुर्यात्. आदिग्रहणादावश्यकं च न कुर्यादिति । उत्सर्ग- उपयोगं न कुर्यात. ग्लानार्थं वा त्वरित उत्सर्गं न कुर्यात्. आदिग्रहणादावश्यकं न कुर्यादिति । उत्सर्गयतनाक्ता. इदानीं "जस्म जोगी" अस्य विधिरुच्यते
For Private & Personal Use Only
www.jainelibrary.org