SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १५७ मूलं- ६७६ ततस्तस्यामनोज्ञस्य विवेक्रः परित्यागः क्रियते. अथासौ बहुगुणसंपन्नः किन्तु स एवैको दोषः रटनशील इति एषणायां च बलवांस्तता नासी परित्यज्यते । भणिया अमणुन्नजयणा, अधुना यदुक्तम्- "एगानियस्स” इत्येवमादि तेषां यतनोच्यते, आह- किं पुनः कारणमुत्क्रमेण स्त्र्यादीनां पदानां यतनो-च्यते ?. उच्यते. गर्वितकथिकादयः प्रज्ञापिताः सन्तः कारणवशादेकाकिनोऽपि भिक्षामटन्ति ततत्रैकाकिनामटतां यद्यपि स्त्रीकृता दोषा भवन्ति तथाऽपि तत्रेयं यतना, इदानीं या गाथेोपन्यस्तासीत यदुत "एगानियस्स दोसा" इत्यादिका, तत्र यतनां प्रतिपादयन्नाह मू. (६७७) इत्यीगहणे धम्मं कहइ वयढवण गुरुसमवंभि । इह चैवोवर रज्जू भएण मोहोवसम तीए । वृ. एवं तस्यैकाकिनो गतस्य सतः स्त्रीग्रहणे सति स्त्रिया गृहीतः सन धर्मकथां करोति यदुत नरकगमनाय मैथुनासेवत्येवमादिकां. अथ कथितंऽपि धर्म न मुञ्चति ततो भगति यद्भुत व्रतानि गुरुसमीप स्थापयित्वाऽऽगच्छामीति एतदभिधाय नश्यति अथ तथाऽपि न लभ्यते गन्तुं तता भणति इहवापवरकं व्रतमोक्षणं करोमीति तत्र च प्रविशति उल्लम्बनार्थं रज्जुं च गृह्णाति, ततस्तेन भयेन कदाचिन्मोहोपशमां भवति. मोहनरसो भयेन ह्रियते, अर्थवमपि न मुञ्चति ततो म्रियत एवेति । उक्ता स्त्रीयतना, इदानी वादियतनांच्यंतमू. (६७८) साणा गोणा इयरे परिहरऽणाभोगकुक्तकडनीसा । वारड़ य दंडणं वारावे वा अगारेहिं ॥ वृ. श्वानो गवादयश्व येषु गृहेषु तानि परिहरति, अथानाभोगेन कथमपि प्रविष्टः प्रत्यनीकथ ग्रहीतुमारब्धस्ततः कुङ्यकटनिश्रया तिष्ठति, कुड्यं कटं वा पृष्ठे करोति अग्रतो दण्डकेन वारयति अगारैर्वा वारयति । उक्ता श्वयतना, इदानीं पडिनीययतनोच्यते मू. (६७९) पडिनीयगेहवज्जण अनभोगपविट्ट बोलनिकखमणं । मझे तिण्ह घराणं उवआंग करेड गेण्हेज्ना || वृ. एकाकिना प्रत्यनीकगृहे न प्रवेष्टव्यं, अथानाभोगेन प्रविष्टः प्रत्यनीकैश्व ग्रहीतुमारब्धस्ततो बालं करोति उच्छब्दयति येन लोको मिलति, तत आकुले निष्क्रामति । उक्ता प्रत्यनीकयतना, अधुना भिक्षाविशोधियतनोच्यते-मध्य स्थितस्त्रयाणामपि गृहाणामुपयोगं दत्त्वा पङ्क्त्या स्थितानां भिक्षां गृह्णाति उक्त भिक्षाविशोधियतना, अधुना पञ्चमहाव्रतयतनोच्यते, तत्र भिक्षायामुपयोगं ददता प्राणातिपातसंरक्षणं कृतमेव, इदानीं द्वितीयमहाव्रतयतनां प्रतिपादनायाह मू. (६८० ) वेंटल पुट्ठा न याण आयन्नातीणि वज्जए ठाणे | सुद्धं गवेस उछं पंचऽइयारे परिहरतो ।। बृ. वेण्टलं- निमित्तादि पृष्टः सन्नवं भणति न जाने एवं भणता द्वितीयमहाव्रतयतना कृता भवति । इदानीं तृतीयमहाव्रतयतनां दर्शयन्नाह - 'आयन्नाईणि वज्जए ठाणं' तत्र भिक्षार्थ प्रविष्ट आकीर्णादिस्थानं परिवर्जयेत. यत्र हरिण्यादि विक्षिप्तमास्ते तदाकीर्णस्थानं तच्च साधुना वर्जनीयं, एवं तृतीयमहाव्रतयतना कृता भवति । इदानीं पञ्चममहाव्रतयतनां प्रतिपादयन्नाह शुद्धम' उन्मादिदोषरहितं गवेषयति' अन्वेषयति उच्छं' भक्तं पश्चाप्यतीचारान् रक्षन । उक्ता पश्रममहाव्रतयतना, चतुर्थमहाव्रतयतना तूक्तंव, "इत्थिग्गहणे धम्मं " इत्येवमादिना उक्त सम्राटकयतना, इदानीमुपकरणयतनाप्रतिपादनायाहजहन्नण चालपट्टी वीसरणालृ गहाय गच्छेज्जा । मू. (६८१ ) For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy