________________
मूलं-१८
कस्यचिद्राज्ञो विषये दुर्भिक्षं प्रभूतवार्षिकं संजातं, ततस्तन दुर्भिक्षण सर्वमेव धान्यं क्षयं नीतं, लोका विषन्नः तस्मिन्नवसरेराज्ञाचिन्तितम्सर्वमेवराज्यममजनपदायत्तं, यदिजनपदोभवतिततःकोष्ठागारादीना प्रभवः, जनपदाभावेतुसर्वाभावः ततस्तत्संरक्षणार्थीजनिमित्तंभक्तनिमित्तंचकोष्ठागारादिधान्यंददामीति, एवमनुचिन्त्यदापितं तस्यजनपदस्य, लोकश्चस्वस्थःसंजातः, पुनर्द्विगुणं त्रिगुणं चप्रेषितं राज्ञइति॥अयं दृष्टान्तः. अधुना दान्तिकप्रतिपादनार्थमाहम. (१९) एवं थेरेहिं इमा अपाक्माणाण पयविभागंतु। साहूणनुकंपट्टा उवइट्टा ओहनिज्जुत्ती॥
[भा. १४] वृ. 'एव'मित्युपनयग्रन्धः, यथा गृहपतिना बालादीनामनुकम्पार्थ भक्तं दत्तं, राज्ञा च बीजभक्तमनुग्रहार्थमेव दत्तं, एवं स्थविरोधनियुक्तिः साधनामनुग्रहार्थं नियंढे ति. स्थविराःभद्रबाहुस्वामिनस्तैः. 'आत्मनि गुरुषु च बहुवचन मिति बहुवचनेन निर्देशः कृतः, 'इमा' इति इयं वक्ष्यमाणलक्षणा प्रतिलेखनादिरूपा । किमर्थं निर्यढा ?. नदाह-'अपावमाणाणं' इत्यादि. 'अप्राप्नुवता' अनासादयतां, किमप्राप्नवतामित्याह- पदविभाग' वर्तमानकालापेक्षया कल्परूपं, चिरन्तनकालापेक्षया तुदृष्टिवादव्यवस्थितपदविभागसामाचारीमित्यर्थः।तुशब्दाद्दशधासामाचारीचाप्राप्नुवतां, केषामनुकम्पार्थ निर्मूढा?, तदाह-'साधूनां' ज्ञानादिरूपाभिः पौरुषेयीभिर्मोक्षं साधयन्तीति साधवस्तेषां साधूनां, किम ?. 'अनुकम्पार्थ' अनुकम्पा कृपा दया इत्येकोऽर्थः तया अर्थः-प्रयोजनं, ‘उपदिष्टा' कथिता 'ओघनियुक्तिः' सामान्यार्थप्रतिपादिकेत्यर्थः॥आह-अथकेयमोघनियुक्तिःयास्थविरैः प्रतिपादिता?,तत्प्रतिपादनायाहमू. (२०) पडिलेहण१च पिंडरउवहिपमाणं३अनाययनवज्ज।
पडिसेवणएमालोअ६जह य विसोहीसुविहियाणं। वृ. एवं संबन्धे कृते सत्याह परः ननु पूर्वमभिहितम्, अर्हतो वन्दित्वौघनियुक्तिं वक्ष्ये, तत्किमर्थ वन्दनादिक्रियामकृत्वैवौघनियुक्तिं प्रतिपादयति इति, अत्रोच्यते, अविज्ञायैव परमार्थं भवतैतच्चोद्यते, इह हि वन्दनादिक्रिया प्रतिपादितैवासाधारणनामोघट्टनादेव, तथाहि-अशोकाद्यष्टमहाप्रातिहादिरूपा पूजामर्हन्तीत्यर्हन्तः, तदनेनैव स्तवोऽभिहितः, एवं चतुर्दशपूर्वधरादिष्वपि योजनीयं, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः- पडिलेहणं' इति, लिखअक्षरविन्यासे प्रतिलेखनप्रतिलेखनातांवक्ष्यामइति,एत-दक्तंभवतिआगमानुसारेण या निरूपणा क्षेत्रादेः सा प्रतिलेखनेति । चशब्दात्प्रतिलेखक प्रतिलेखनीयं च वक्ष्ये। अथवाऽनेकाकारांप्रतिलेखनांचवक्ष्ये, उपाधिभेदात्। पिंड तिपिण्डनपिण्डः सङ्घात-रूपस्तं पिण्डं, वक्ष्य इति प्रत्यकं मीलनीय, भिक्षाशोधिमित्यर्थः। उपधिप्रमाण' इति उपदधाती-त्युपधिः, उप-सामीप्येन संयम धारयति पोषयति चेत्यर्थः स च पात्रादिरूपस्तस्य प्रमाणं, तच्च गणनाप्रमाणं प्रमाणप्रमाणं च । 'अनाययनवज्ज' इति नायतनमनायतनं तद्वय त्याज्यमित्येतच्च वक्ष्ये, अथवाऽनायतनवज्यमायतनं, तदायतनं वक्ष्ये, तच्चानायतनं स्त्रीपशुपण्डकसंसक्तं यद्वर्तते, तद्विपरीतमायतनं - 'पडिसेवणं' इनिप्रतीपा सेवनाप्रतिसेवना, एतदुक्तं भवति-संयमानुष्ठा-नात्प्रतीपमसंयमानुष्ठानंतदासेवना ताम्। आलोयण' इति आलाचनमालोचना अपराधमर्यादया लोचनं दर्शनमाचादिरालोचनेत्यभिधीयते, किमालोचनामेव ?, नेत्याह-'जह य' इत्यादि, 'यथा' येन प्रकारेण विशोधिः विशेषेण शोधिर्विशोधिः, पतदक्तं भवतिशिष्येणालोचितेऽपराधेसतितद्योग्यं यत्प्रायश्रित्तप्रदानंसाविशोधिरभिधीयते,तांविशाधिोकेषांसंबन्धिनी विशोधि ?, तदाह-'सुविहितानां' शोभनं विहितम अनुष्ठानं येषां ते सुविहितास्तेषां संबन्धिनी यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org