SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ आधनियुक्तिः मूलसन्न तथा काष्टकर्मणि वति, तदैकमेव काष्ठं पिण्ड एष इत्यवं कल्प्यते तदाऽसदभावस्थापना, यदा तुएकत्र बहूनि मिलितानि पिण्डत्वेन कल्प्यन्ते तदा सद्भावस्थापना, एवं पुस्ते' धाउल्लिकादौ पुत्तलिकादिष्वपि एवं चितकर्मण्यपि, यदैकचित्रकर्मणि पुत्तलपिण्ड इति स्थाप्यते तदाऽसद्भावपिण्डस्थापना यदा त्रिप्रभृति पिण्डबुद्ध्या कल्प्यते तदा सद्भावस्थापना, एवं सद्भावपिण्डसमदभावपिण्डं च जानीहि। इदानीं द्रव्यपिण्डस्यज़शररीभव्यशरीरव्यतिरिक्त स्यप्रतिपादनायाहमू. (५५२) तिविहो य दव्वपिंडी सच्चित्ती मांसआ य अच्चित्तो। अच्चित्ता य दसविहा सच्चित्तो मीसओ नवहा ।। वृ.त्रिविधो द्रव्यपिण्डा-सचित्तोऽचित्तो मिश्रश्चेति, तत्रयोऽसावचितः सदशविधः सचित्तो नवप्रकार: मिश्रश्च नवधा ।। तत्राचित्तपिण्डप्रतिपादनायाहमू. (५५३) . पुढवी आउक्काए तेउवाऊवणस्सई चव। बिअतिअचउरो पंचिंदिया य लेबो य दयमो उ॥ वृ. पृथिवीकायपिण्ड: अप्कायपिण्डस्तेजस्कायपिण्डः वायुकायपिण्डः वनस्पतिकायपिण्डः द्वीन्द्रियपिण्डः त्रीन्द्रियपिण्डः चतुरिन्द्रियपिण्डः पथेन्द्रियपिण्डः पात्रकाथ लेपपिण्डश्चेति दशमः । एवमयं दशप्रकारोऽचित्तपिण्ड, इदानीं योऽसा अचित्तः पृथिवीकायादिपिण्डः स सचित्तपूर्वको भवतीतिकृत्वा(ऽतः)स एव प्रथम सचितः प्रतिपाद्यते, तथोपन्यासाऽपि सचित्तस्यैव प्रथमं कृतः, तथा योऽसौ सचित्तो मिश्रश्चएकैको नवप्रकार उक्तः सोऽप्यनेनैव क्रमेण व्याखयातो भवतीतिकृत्वा पूर्व सचित्तं व्याख्यानयन्नाहमू. (५५४) पुढविक्काआ तिविहो सच्चित्तो मीसओ य अचित्तो। सच्चित्तो पुन दविहो निच्छयववहारिओ चेव।। वृ. पृथिवीकायस्त्रिविधः सचित्ता मिश्रोऽचित्तश्च, तत्र सचित्तो द्विविधः-निश्चयसचित्तो व्यवहारसचित्तश्च। मू. (५५५) निच्छयओ सच्चित्तो पुढविमहापब्वयाण बहुमज्झे। अच्चित्तमीसवज्जो सेसो ववहारसच्चित्तो॥ वृ.निश्चयतःसचित्तःपृथिवीनां रत्नशर्कराप्रभृतीनांसंबन्धीयः महापर्वताना हिमवदादीनांच बहुमध्ये मध्यप्रदेशभागे। इदानींव्यवहारसचित्तप्रतिपादनायाह-अचित्तवर्ज:मिश्रवणश्च, एतदक्तं भवति-योऽचित्तो न भवति न च मिश्रः स व्यवहारतः सचेतन इति, स चारण्यादौ भवति यत्र वा गोमयादिनास्ति। उक्तः सचित्तः पृथिवीकायः, इदानीं मिश्रपृथिवीकार्य प्रतिपादयन्नाहमू. (५५६) खीरदुमहे? पंथे कट्टाल्ला इंधन य मीसो य। पोरिमि एगद्गतिगं बहुइंधनमज्झथोवे अ॥ वृ. क्षीरद्रुमाः-उदुम्बरादयस्तेषामधो यः पृथिवीकायः स मिश्रः, ते हि क्षीरद्रुमा मधुरस्वभावा भवन्ति, पथि च मिश्रपृथिवीकायः ‘कट्ठोल्लो'त्ति हलकृष्टो यः पृथिवीकायस्तत्क्षणादेव आर्द्रश्च शुष्कश्च क्वचिन्मिश्रपृथिवीकायः इंधने'त्ति इन्धनंगामयो भण्यते, तत्थ कुम्भकारण सद्रवो आनिओ तेन मिलितों संतो पृथिवीकायो मिश्रा भवति, कियत्कालं यावद् ?अत आह-पोरिसीएगद्गतिगं' यथासङख्येन च 'बहुइंधणमन्झिंधणथोविंधण' यदि बहु इन्धनं स्वल्पः पृथिवीकायस्ततः पौरुषीमात्रं यावत् मिश्रो भवति. मध्ये तु इन्धने अमिन्धनस्य अद्धं पृथिर्वाकायस्य यत्र स पौरुषर्षाद्वितयं यावन्मिश्रः, स्वल्पेन्धनस्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003378
Book TitleAgam Sutra Satik 41A Oghniryukti MoolSutra 2a
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages256
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 41, & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy