________________
८५
उपोद्घातः - [नि. १३५] भाषादीनां तत्प्रभवत्वात् १ । इदानीं पुस्तविषयो दृष्टान्तः-यथा पुस्ते कश्चिदाकारमानं करोति, कश्चित् स्थूरावयवनिष्पत्ति, कश्चित्त्वशेषावयवनिष्पत्तिमिति, दान्तिकयोजना पूर्ववत् २ इदानीं चित्रविषयो दृष्टान्तः-यथा चित्रकर्मणि कश्चित् वर्तिकाभिराकारमात्रिं करोति, कश्चित्तु हरितालादिवर्णोद्भदं, कश्चित्त्वशेष्पर्यायैर्निष्पादयति, दाटन्तिकयोजना पूर्ववत् ३ | श्रीगृहिकोदाहरणं श्रीगृहं-भाण्डागारं तदस्यास्तीति ‘अत इनिठनौ' इति ठनीकादेशे च कृते श्रीगृहिक इति भवति, तदृष्टान्तः-तत्र कश्चिद् रत्नानां भाजनमेव वेत्ति-इह भाजने रत्नानीति, कश्चित्तुं जातिमाने अपि, कश्चित्पुनर्गुणानपि, एवं प्रथमद्वितीयतृतीयकल्पा भाषकायदो द्रष्टव्याः ४। तथा 'पॉर्ड' इति पुण्डरीकं पद्यं तद् यथेषद्भिन्नार्धभिन्नविकसितरूपं त्रिधा भवति, एवं भाषादि विज्ञेयं ५ । इदानीं देशिकविषयमुदाहरणं-देशनं देशः कथनमित्यर्थः, तदस्यास्तीति देशिकःयथा कश्चिद्देशिकः पन्थानं पृष्टः दिडमात्रमेव कथयति, कश्चित् तद्यवस्थिगतग्रामनगरादिभेदेन, कश्चित् पुनस्तदुत्थगुणदोषभेदेन कथयतीति, दान्तिकयोजना पूर्ववत् ज्ञेया ६ । एवमेतानि भाषकविभाषकव्यक्तिकरविषयाण्युदाहरणानि प्रतिपादितानि इति गाथार्थः ।। इत्थं तावद्विभाग उक्तः, इदानी द्वारविधिमवसरप्राप्तं विहाय व्याख्यानविधि प्रतिपादयन्नाहनि. (१३६)गोणी १ चंदनकथा २ चेडीओ ३ सावए ४ बहिर ५ गोहे ६ ।
टंकणओ ववहारो ७, पडिवक्खो आयरियसीसे ।। वृ- आह-चतुरनुयोगद्वारानधिकृतो व्याख्यानविधिः किमर्थ प्रतिपाद्यत इति, उच्यते, शिष्याचार्ययोः सुखश्रवण-सुखव्याख्यानप्रवृत्त्या शास्त्रोपकारार्थः, अथवा अधिकृत एव वेदितव्यः, कुतः ? अनुगमान्तर्भावात्, अन्तर्भावस्तु व्याख्याङ्गत्वात् इति । आह-यद्यसावनुगमाङ्गं ततः किमित्ययं द्वारविधेः पूर्व प्रतिपाद्यते?, उच्यते, द्वारविधैरपि बहुवक्तव्यत्वात् मा भूदहापि व्याख्याविधेर्विपर्ययः, अतोऽत्रैव आचार्यशिष्ययोर्गुणदोषाः प्रतिपाद्यन्ते, येन आचार्यो गुणवते शिष्यायानुयोगं करोति, शिष्योऽपि गुणवदाचार्यसन्निधाचेव शृणोतीति । आह-यद्येवं व्याख्यानविधिरनुगमाङ्गं इहावतार्योच्यते तत्कथं द्वारगाथायामप्येवं नोपन्यस्त इति, उच्यते, सूत्रव्याख्यानस्य गुरुत्वख्यापनार्थं, विशेषेण सूत्रक्याख्यायां आचार्यः शिष्यो वा गुणवानन्वेष्टव्य इत्यलं विस्तरेण, प्रकृतं प्रस्तुमः-प्रक्रान्तगाथाव्याख्या-तत्र गोष्टान्तः, एते चाचार्यशिष्ययोः संयुक्ता दृष्टान्ताः, एक आचार्यस्य एकः शिष्यस्येति द्वौ वा एकस्मिन्नेवावतार्याविति ।।
एगंमि नगरे एगेन कस्सइ धुत्तस्स सगासाओ गावी रोगिता उद्वितुंपि असमत्था निविठ्ठा चेव किणिता, सो तं पडिविक्विणति, कायगा भणंति-पेच्छामो से गतिपयारं तो किणीहामो, सो भणति-मएवि उवविट्ठा चेव गहिया, जदि पडिहाति ता तुम्हेवि एवमेव गिण्हह । एवं जो आयरिओ पुच्छितो परिहारंतरं दाउमसमत्थो भणति-मएवि एवं सुयं तुम्हेवि एवं सुणहत्ति, तस्स सगासे न सोअव्वं, संसइयपयत्थंमि मिच्छत्तसंभवा, जो पुन अविकलागोविक्किणगो इव अक्खेवणिण्णयपसंगपारगो तस्स सगासे सोयव्वं, सीसोऽवि जो अवियारियगाही पढमगोविक्कणगोव्व सो अजोग्गो इतरो जोग्गोत्ति ११
चंदणनकंथोदाहरणं-बारवईए वासुदेवस्स तिन्नि भेरीओ, तं जहा-संगामिआ उब्भुतिया कोमुतिया, तिन्निवि गोसीसचंदनमइयाआ देवयापरिग्गहियाओ, तस्स चउत्थी भेरी असिवुव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org