SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७६ आवश्यक मूलसूत्रम्-१वृ- 'साधारणं इति साधारणनाम, अनन्तवनस्पतिनामत्यर्थः, अपर्याप्तं' इति अपर्याप्तकनाम, तथा निद्रानिद्रा च इत्यादि प्रकटार्थत्वान्न विक्रियते, नवरं स्त्याना चैतन्यऋद्धिर्यस्यां सास्त्यानर्धिः, स्त्यानयुत्तरकालमवशेषं यदष्टानां कषायाणां तत् क्षपयति, सर्वमिदमन्तमुहूर्तमात्रेणेति, ततो नपुंसकवेदं, ततःस्त्रीवेदं, ततो हास्यादिषट्क, ततः पुरुषवेदं च खण्डत्रयं कृत्वा खण्डद्वयं युगपत् क्षपयति, तृतीयखण्डं तु संज्वलनक्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तर्ययं क्रमः, नपुंसकादिप्रतिपत्तरि तु उपशमश्रेणिन्यायो वक्तव्यः, ततः क्रोधादीश्च संज्वलनान् प्रत्येकमन्तर्मुहूर्तमात्रकालेनोक्तेनैव न्यायेन क्षपयति, श्रेणिपरिसमाप्तिकालोऽप्यन्तर्मुहूर्तमेव, अन्तर्मुहूर्तानामसंख्येयत्वात्, लोभचरमखण्डंतुसंख्येयानि खण्डानि कृत्वा पृथक् पृथक् कालभेदेन क्षपयति, चरमखण्डं पुनरसंखयेयानि खण्डानि करोति, तान्यपि समये समये एकैकं क्षपयति, इह च क्षीणदर्शनसप्तको निवृत्तिबादर उच्यते, तत उर्ध्वमनिवृत्तिबादरो यावत् चरमलोभखण्डमिति, तत ऊर्ध्वमसंख्येयखण्डानि क्षपयन् सूक्ष्मसंपरायो यावच्चरमलोभाणुक्षयः, तत ऊर्ध्वं यथाख्यातचारित्रीभवति ।। स च महासमुद्रप्रतरणपरिश्रान्तवत् मोहसागरं तीा विश्राम्यति, ततश्छद्मस्थवीतरागत्वद्विचरमसमययोः प्रथमे निद्रादि क्षपयति तथा चाह नियुक्तिकारःनि. (१२४) वीसमिऊण नियंठो दोहि ऊ समएहि केवले सेसे । पढमे निदं पयलं नामस्स इमाओ पयडीओ ।। नि. (१२५) देवगइआनुपुब्बीविउव्विसंघयण पढमवजाइ । __ अन्नयरं संठाणं तित्थयराहारनामं च ।। दृ- अर्थस्तु प्रायः सुगमत्वात् न वितन्यते, नवरं वैकुर्विकं च संहननानि चेति समासः, तानि प्रथमसंहननवानि क्षपयति, तानि च षड् भवन्ति, तथा चोक्तम् “वारिसहनारायं पढमं बिइयं च रिसहनारायं । नारायमद्धनाराय कीलिया तह य छेवटुं ।" तथा अन्यतरसंस्थानं मुक्त्वा यस्मिन्व्यवस्थितः शेषाणि क्षपयति, तानि चामूनि "चउरंसे नग्गोहे मंडले साति वामणे खुजे । हुंडेवि अ संठाणे जीवाणं छ मुणेयव्वा ।। तुल्लं वित्थडबहुलं उस्सेहबहुं च मडहकोठं च । हेडिल्लकायमडहं सव्वत्थासंठियं हुंडं ।।" तथा तीर्थकरनाम आहारकनाम च क्षपयति, यद्यतीर्थकरः प्रतिपत्तेति, अथ तीर्थकरस्ततः खल्वाहारकनामैवेति, 'चः' समुच्चये ॥ नि. (१२६) चरमे नाणावरणं पंचविहं दंसणं चउवियपं । पंचविहमंतराय खवइत्ता केवली होइ ।। वृ- चरमे समये ज्ञानावरणं पञ्चविधं मतिज्ञानावरणादि, दर्शनं चतुर्विकल्पं पञ्चविधमन्तरायं च दानलाभभोगोपभोगवीर्यान्तरायाख्यं क्षपयित्वा केवली भवतीति गाथार्थः ।। ततःनि. (१२७) संभिन्नं पासंतो लोगमलोगं च सव्वओ सव्वं । तं नस्थि जं न पासइ भूयं भव्वं भविस्स च ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy