________________
उपोद्घातः - [नि. १२७]
ওও वृ. समेकीभावेन भिन्नं संभिन्नं, यथा बहिस्तथा मध्येऽपीत्यर्थः, अथवा संभिन्नमितिद्रव्यं गृह्यते, कथम् ?-कालभावौ हि तत्पर्यायौ, ताभ्यां समस्ताभ्यां समन्ताद्वा भिन्नं संभिन्नं 'पश्यन्' उपलभमानो, लोक्यत् इति लोकः, केवलज्ञानभास्वतोपलभ्यत इति भावार्थः, 'लोकोऽप्युपलभ्यत एव, तथापि धर्मादीनां वृत्तिर्द्रव्याणां यत्र स लोकः इति तं, अलोकं च इत्यनेन क्षेत्रं प्रतिपादितं भवति, द्रव्याघेतावदेव विज्ञेयमिति, किमेकया दिशा ?-नेत्याह-'सर्वतः' सर्वासु दिक्षु, तास्वपि किं कियदपि द्रव्यादि उत नेत्याह-'सर्व' निरवशेषं, अमुमेवार्थ स्पष्टयत्राह-तन्नास्ति किञ्चित् ज्ञेयं यन्न पश्यति 'भूतं' अतीतं, भवतीति भव्यं, वर्तमानमित्यर्थः, भावकर्मणोः प्राप्तयोः 'भव्यगेयेत्यादिनिपातनात्' कर्तरि सिद्धं, 'भविष्यद्' भावि वा, ‘चः' समुच्चये इति गाथार्थः। ___ इत्थं तावदुपोद्घातनिर्युक्तौ प्रस्तुतायां प्रसङ्गतो यदुक्तं-'तपोनियमज्ञानवृक्षमारूढः केवली' इति अयमसौ केवली निदर्शितः, एतस्मात् सामायिकादिश्रुतं आचार्यपारम्पर्येण आयातं, एतस्माच जिनप्रवचनप्रसूतिः, सर्वमिदं प्रासङ्गिक नियुक्तिसमुत्थानप्रसङ्गेनोक्तं, इदानीमपि केयं जिनप्रवचनोत्पत्तिः कियदभिधानं चेदं जिनप्रवचनं को वाऽस्य अभिधानविभाग इत्येतत् प्रासङ्गिकशेषं शेषद्वारसङ्ग्रहं वाऽभिधातुकाम आहनि. (१२८) जिनपवयणउप्पत्ती पवयणएगढ़िया विभागो य ।
दारविही य नयविही वक्खाणविही य अनुओगो ।। वृ- इह 'जिनप्रवचनोत्पत्तिः प्रवचनैकार्थिकानि एकार्थिकविभागश्च' एतत् त्रितयमपि प्रसङ्गशेषं, द्वाराणां विधिःद्वारविधिः, विधानं विधिः, स ह्युपोद्घातोऽभिधीयते, नयविधिस्तु चतुर्थं अनुयोगद्वारमिति, शिष्याचार्यपरीक्षाऽभिधानं तु व्याख्यानविधिरिति, अनुयोगस्तु सूत्रस्पर्शकर्नुिक्तिः सूत्रानुगमश्चेति समुच्चयार्थः । आह-चतुर्थमनुयोगद्वारं नयविधिमभिधाय पुनस्तृतीयानुयोगद्वाराख्यानुयोगाभिधानं किमर्थम् ? उच्यते, नयानुगमयोः सहचरभावप्रदर्शनार्थं, तथाहि-नयानुगमौ प्रतिसूत्रं युगपद् अनुधावतः, नयमतशून्यस्य अनुगमस्याभावात्, अनुयोगद्वारचतुष्टयोपन्यासे तु नयानामन्तेऽभिधानं युगपद्वक्तुं अशक्यत्वात् । आह-चतुरनुयोगद्वारातिरिक्तिव्याख्यानविधेरुपन्यासो अनर्थकः, न, अनुगमाङ्गत्वात्, व्याख्याऽङ्गत्वाच्चानुगमाङ्गता इत्यलं विस्तरेणेति माथार्थः ॥ तत्र जिनप्रवचनोत्पत्तिनियुक्ति-समुत्थानप्रसङ्गतोऽभिहिता, अर्हद्वचनत्वात् प्रवचनस्य, इदानीं प्रवचनैकार्थिकानि तद्विभागं च प्रदर्शयन्नाहनि. (१२९) एगट्ठियाणि तिन्नि उ पवयण सुत्तं तहेव अत्थो अ।
इक्विक्कस्स य इत्तो नामा एगडिआ पंच ॥ वृ. एकोऽर्थो येषां तान्येकार्थिकानि, त्रीण्येव, प्रवचनं पूर्वव्याख्यातं, सूचनात् सूत्रं, अर्यंत इत्यर्थः, 'चः' समुच्चये, इह च प्रवचनं सामान्यश्रुतज्ञानं, सूत्रार्थौ तु तद्विशेषाविति, आह-सूत्रार्थयोः प्रवचनेन सहैकार्थता युक्ता, तद्विशेषत्वात्, सूत्रार्थयोस्तु परस्परविभिन्नत्वात् न युज्यते, तथा च सूत्रं व्याख्येयं अर्थस्तु तद्व्याख्यानमिति, अथवा त्रयाणामप्येषां भिन्नार्थतैव युज्यते, प्रत्येकमेकार्थिकविभागसद्भावात्; अन्यथा एकार्थिकत्वे सति भेदेनैकार्थिकाभिधानमयुक्तमिति, अत्रोच्यते, यथा हि मुकुलविकसितयोः पद्मविशेषयोः संकोचविकासपर्यायभेदेऽपि कमलसामान्यतयाऽभेदः, एवं सूत्रार्थयोरपि प्रवचनाप्रेक्षया परस्परतश्चेति, तथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org