SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः -नि. १२१] १५ नि. (१२१) अण मिच्छ मीस सम्मं अट्ठ नपुंसित्थीवेय छक्कं च । पुंवेयं च खवेइ कोहाइए य संजलणे ॥ वृ- इह क्षपकश्रेणिप्रतिपत्ताऽसंयतादीनामन्यतमोऽत्यन्तविशुद्धपरिणामो भवति, स च उत्तमसंहननः, तत्र पूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि प्रतिपद्यते, अपरे तु धर्मध्यानोपगत एवेति, प्रतिपत्तिक्रमश्वायम्-प्रथममन्तर्मुहूर्तेन अनन्तानुबन्धिनः क्रोधादीन् युगपत्क्षपयति, तदनन्तभागं तु मिथ्यात्वे प्रक्षिप्य ततो मिथ्यात्वं सहैव तदंशेन युगपत् क्षपयति, यथा हि अतिसंभृतो दावानलः खलु अर्धदग्धेन्धन एव इन्धनान्तरमासाद्य उभयमपि दहति, एवमसावपि क्षपकः तीव्रशुभपरिणामत्वात् सावशेषं अन्यत्र प्रक्षिप्य क्षपयति, एवं पुनः सम्यग्मिथ्यात्वं ततः सम्यक्त्वमिति, इह च यदि बद्धायुः प्रतिपद्यते अनन्तानुबन्धिक्षये च व्युपरमति, ततः कदाचित् मिथ्यादर्शनादयतस्तानपि पुनरुपचिनोति, मिथ्यात्वे तद्बीजसंभवात्, क्षीणमिथ्यात्वस्तु नोपचिनोति, मूलाभावात्, तदवस्थश्च मृतोऽवश्यमेव त्रिदशेषु उत्पद्यते, क्षीणसप्तकोऽपि तदप्रतिपतितपरिणाम इति, प्रतिपतितपरिणामस्तु नानामतित्वात् सर्वगतिभाग् भवति, आह-मिध्यादर्शनादिक्षये किमसौ अदर्शनो जायते उत नेति, उच्यते, सम्यग्दृष्टिरेवासौ, आह-ननु सम्यग्दर्शनपरिक्षये कुतः सम्यग्दृष्टित्वम् ?, उच्यते, निर्मदनीकृतकोद्रवकल्पा अपनीतमिथ्यात्वभावा मिथ्यात्वपुद्गला एव सम्यग्दर्शनं, तत्परिक्षये च तत्त्वश्रद्धानलक्षणपरिणामाप्रतिपातात् प्रत्युत श्लक्ष्णाभ्रपटलापगमे चक्षुर्दर्शनवत् शुद्धतरोपपत्तेरिति अलं प्रपञ्चेन। स च यदि बद्धायुः प्रतिपद्यते ततो नियमात् सप्तके क्षीणे अवतिष्ठत एव, स च सम्यग्दर्शनमशेषमेव क्षपयति, अबद्धायुस्तु अनुपरत एव समस्तां श्रेणिं समापयति इति, स च स्वल्पसम्यग्दर्शनावशेष एव अप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं युगपत् आरभते ॥ एतेषां च मध्यभागं क्षपयन् एताः सप्तदश प्रकृतीः क्षपयति, तत्प्रतिपादकमिदं गाथाद्वयम् - नि. (१२२) गइआनुपुच्ची दो दो जाइनामं च जाव चउरिंदी। आयावं उज्जोयं थावरनामं च सुहुमं च ।। वृ-गतिश्चनुपूर्वी च गत्यानुपूव्र्यो ‘दो दो' इति द्वे द्वे तन्नामनी, जातिनाम चेत्यस्मात् नामग्रहणं अभिसंबध्यते, एतदुक्तं भवति-नरकगतिनाम नरकानुपूर्वीनाम च, आनुपूर्वी-वृषभनासिकान्यस्तरसंस्थानीया, यया कर्मपुद्गलसंहत्या विशिष्टं स्थानं प्राप्यतेऽसौ, यया वोर्वोत्तमाङ्गाधरणादिरूपो नियमतः शरीरविशेषो भवति साऽऽनुपूर्वीति, तथा तिर्यग्गतिनाम तिर्यगानुपूर्वीनाम च, एवं गत्यानुपूर्वीनामनी द्वे द्वे, तथा 'जातिनाम' एकेन्द्रियादिजातिनाम यावच्चतुरिन्द्रियाः, एतदुक्तं भवति-एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम एवं शेषयोजनाऽपि कार्येति । आहएकेन्द्रियाद्यानुपूर्वीनाम कस्मान्नोच्यते, आचार्य आह-तस्य तिर्यगानुपूर्वीनामक्षपणप्रतिपादनेनोक्तार्थत्वात्, ‘चः' समुच्चये, तथा 'आतपं' इति आतपनाम, यदुदयात् आतपवान् भवति, 'उद्योत' इति उद्योतनाम, यदुदयादुद्योतवान् भवति, स्थावराः पृथिव्यादयः तन्नाम च पूर्ववत्, ‘सूक्ष्म' इति सूक्ष्मनाम च, नि. (१२३) साहारणमज्जत्तं निद्दानिदं च पयलपयलं च । थीणं खवेइ ताहे अवसेसं जं च अट्ठण्हं ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy