________________
आवश्यक मूलसूत्रम् - १
अत्थेगइअं वेइए अत्थेगइअं नो वेएइ, से केणट्टेणं ? भन्ते ! पुच्छा, गोयमा ! दुविहे कम्पे पन्नत्ते, तं जहा-पएसकम्मे अ अनुभावकम्मे अ, तत्थ णं जं तं पएसकम्मं तं नियमा वेएइ, तत्थ णं जं तं अनुभावकम्मं तं अत्थेगइअं वेएइ, अत्थे गइयं नो वेएइ" इत्यादि, ततश्च प्रदेशकर्मानुभावोदयस्येहोपशमो द्रष्टव्यः । आह-यद्येवं संयतस्य अनन्तानुबन्ध्यदयतः कथं दर्शनविघातो न भवति ? उच्यते, प्रदेशकर्मणो मन्दानुभावत्वात्, तथा कस्यचिदनुभावकर्मानुभवोऽपि नात्यन्तमपकाराया भवनुपलभ्यते, यथा संपूर्णमत्यादिचतुर्ज्ञानिनः तदावरणोदय इत्यलं विस्तरेण ॥ इह च संख्येयलोभखण्डान्युपशमयन् बादरसंपरायः, चरमसंख्येण्डासंख्येयखण्डान्युप-शमयन् सूक्ष्मसंपराय इति, तथा चाह नियुक्तिकार:
नि. ( ११७) लोभाणुं वेअंतो जो खलु उवसामओ व खवगो वा । सो सुहुमसंपराओ अहखाया ऊणओ किंची ||
कृ- गाथेयं गतार्थत्वात् न विव्रियते, नवरं यथाख्यातात् किञ्चिन्यून इति, ततः सूक्ष्मसंपरायावस्थामन्तर्मुहूर्तमात्रकालमानामनुभूयोपशमकनिर्ग्रन्थो यथाख्यातचारित्रीभवति । स च यदि बद्धाः प्रतिपद्यते तदवस्थश्च म्रियते, ततो नियमतोऽनु विमानवासिषु उत्पद्यते, श्रेणिप्रच्युतस्य त्वनियमः, अथाबद्धायुः अतोऽन्तर्मुहूर्त्तमात्रं उपशामकनिर्ग्रन्यो भूत्वा नियमतः पुनरपि उदितकषायः कार्त्स्न्येन श्रेणिप्रतिलोममावर्तते, तथा चामुमेवार्थमभिधित्सुराह
नि. (११८) उवसामं उवनीआ गुणमहया जिनचरित्तसरिसंपि । डिवायंति कसाया किं पुण सेसे सरागत्थे ||
वृ- 'उपशमः' शान्तावस्था तमुपशमं, अपिशब्दात् क्षयोपशममपि, उपनीताः गुणैर्महान् गुणमहान् तेन गुणमहता-उपशमकेन, किम् ? -प्रतिपातयन्ति कषायाः, संयमाद् भवे वा, कम् ? -जिनचारित्रतुल्यमपि उपशमकं, किं पुनः शेषान् सरागस्थानिति । यथेह भस्मच्छन्नानलः पवनाद्यासादितसहकारिकारणान्तरः पुनः स्वरूपमुपदर्शयति, एवमसावप्युदितकषायानलो जघन्यतस्तद्भव एव मुक्ति लभते, उत्कृष्टतस्तु देशोनमर्धपुद्गलपरावर्त्तमपि संसारमनुबध्नातीति । यतश्चैवं तीर्थकरोपदेशः अत औपदेशिकं गाथाद्वयमाह नियुक्तिकारः
नि. (१२०)
नि. (११९) जइ उवसंतकसाओ लहइ अनंतं पुणोऽवि पडिवायं । न हु भे बीससियव्वं थेवे य कसायसेसंमि ।। अथोवं वणथोवं अग्गीथोवं कसायथोवं च । नहु वीससियव्वं वंपि हु तं बहु होइ ॥
- प्रथमगाथा प्रकटार्थत्वान्न वितयन्ते, क्रणस्य स्तोकं ऋणस्तोकं तथाच स्वल्पादपि ऋणात् दासत्वं प्राप्ता वणिग्दुहितेति, उक्तं च भाष्यकारेण
" दासत्तं देइ अनं अचिरा मरणं वनो विसप्पंतो । सव्वस्स दाहमग्गी देति कसाया भवमनंतं ॥"
७४
अपिचशब्दनिपातसाफल्यं पूर्वोक्तानुसारेण स्वबुद्ध्या वक्तव्यमिति गाथार्थः । इत्थमौपशमिकं चारित्रमुक्तं, इदानीं क्षायिकमुच्यते, अथवा सूक्ष्मसंपराययथाख्यातचारित्रद्वयं उपशमश्रेण्यङ्गीकरणेनोक्तं, इदानीं क्षपकश्रेण्यङ्गीकरणतः प्रतिपादयन्नाह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org