________________
उपोद्घातः - [नि. ११६]
७३ नि. (११६) अण दंसनपुंसित्थी वेयछक्कं च पुरुसवेयं च ।
दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥ वृ-अथवा चरमचारित्रद्वयं श्रेण्यन्त विनस्तद्विनिर्गतस्य च भवति, अतः श्रेणियावसरः, तत्र उभयश्रेणिलाभे चादावुपशमश्रेणिर्भवतीत्यतस्तत्स्वरूपाभिधित्सयैवाह-अणदंस०। गाथाव्याख्या-तत्रोपशमश्रेणिप्रारम्भको भवत्यप्रमत्तसंयत एव, अन्ये तु प्रतिपादयन्ति-अविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतम इति, श्रेणिपरिसमाप्तौ प्रमत्ताप्रमत्तसंयता-नामन्यतमो भवति, स चैवमारभते-अण रणेति दण्डकधातुः अस्याच्प्रत्ययान्तस्य अण इति भवति, शब्दार्थस्तु अणन्तीत्यणाः, अणन्ति-शब्दयन्ति अविकलहेतुत्वेन असातवेद्यं नारकाद्या-युष्कं इत्यणाःआद्याः क्रोधादयः, अथवा अनन्तानुबन्धिनः क्रोधादयः अनाः, समुदायशब्दाय-नामवयवे वृत्तिदर्शनात् भीमसेनः सेन इति यथा, तत्रासौ प्रतिपत्ता प्रशस्तेष्वध्यवसाय स्थानेषु वर्तमानः प्रथमं युगपदन्तर्मुहूर्त्तमात्रेण कालेन अनन्तानुबन्धिनः क्रोधादीन् उपशमयति, एवं सर्वत्र युगपदुपशमककालोऽन्तर्मुहूर्तप्रमाण एव द्रष्टव्यः, ततो दर्शनं दर्शस्तं, ___दर्शनं त्रिविधं-मिथ्या सम्यग्मिथ्या सम्यग्दर्शनं युगपदेवेति, ततोऽनुदीर्णमपि नपुंसकवेदं युगपदेव यदि पुरुषः प्रारम्भकः, पश्चास्त्रीवेदमेककालमेवेति, ततो हास्यादिषट्कं-हास्यरत्यरतिशोकभयजुगुप्साषट्कं, पुनः पुरुषवेदं । अथ स्त्री प्रारम्भिका ततः प्रथमं नपुंसकवेदमुपशमयति पश्चात्पुरुषवेदं ततः षट्कं ततः स्त्रीवेदमिति । अथ नपुंसक एव प्रारम्भकः ततोऽसौ अनुदीर्णमपि प्रथमं स्त्रीवेदमुपशमयति पश्चात्पुरुषवेदं ततः षट्कं ततो नपुंसकवेदमिति, पुनः द्वौ द्वौ' क्रोधाधौ ‘एकान्तरितौ' संज्वलनविशेषक्रोधाधन्तरितौ ‘स शौ' तुल्यौ “सशं' युगपदुपशमयति, एतदुक्तं भवति-अप्रत्याख्यानप्रत्याख्यानावरणक्रोधौ सशौ क्रोधत्वेन युगपदुपशमयति, ततः संचलनं क्रोधमेकाकिनमेव, ततः अप्रत्याख्यानप्रत्याख्यानावरणमानौ युगपदेव ततः संजवलनमानमिति, एवं मायाद्वयं सशं पुनः संज्वलनां मायां, एवं लोभद्वयमपि पुनः संज्वलनं लोभमिति, तं चोपशमयंस्त्रिधा करोति, द्वौ भागौ युगपदुपशमयति, तृतीयभागं संख्येयानि खण्डानि करोति, तान्यपि पृथक् कालभेदेनोपशमयति, पुनः संख्येयखण्डानां चरमखण्डं असंख्येयानि खण्डानि करोति, सूक्ष्मसंपरायस्ततः समये समये एकैकं खण्डं उपशमयतीति, इह च दर्शनसप्तके उपशान्ते निवृत्तिबादरोऽभिधीयते, तत ऊर्ध्वमनिवृत्तिबादरो यावत् संख्येयान्तिमद्विचरमखण्डं ।
आह-संज्वलनादीनां युक्त इत्यमुपशमः, अनन्तानुबन्धिनांतु दर्शनप्रतिपत्तावेवोपशमितत्वान युज्यत इति, उच्यते, दर्शनप्रतिपत्तौ तेषां क्षयोपशमात् इह चोपशमादविरोध इति, आह-क्षयोपशमोपशमयोरेव कः प्रतिविशेषः ?, उच्यते, क्षयोपशमो खुदीर्णस्य क्षयः अनुदीर्णस्य च विपाकानुभवापेक्षया उपशमः, प्रदेशानुभवतस्तु उदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उक्तं च भाष्यकारेण -
"वेदेइ संतकम्मं खओवसमिएसु नाणुभावं सो ।
उवसंतकसाओ उन वेएइ न संतकम्मपि ।।" आह-संयतस्यानन्तानुवन्धिनामुदयो निषिद्धस्तत् कथमुपशम इति, उच्यते, स ह्यनुभावकर्माङ्गीकृत्य न तु प्रदेशकर्मेति, तथा चोक्तमार्षे-“जीवे णं भंते ! सयंकडं वेदेइ ?. गोयमा!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org