SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आवश्यक मूलसूत्रम्-१ वक्षितचारित्रकायास्तु निर्विष्टकायाः त एव स्वार्थिकप्रत्ययोपादानात् निर्विष्टकायिकाः तदव्यतिरेकाच्चारित्रमपि निर्विष्टकायिकमिति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहारः - परिहारियाण उ तवो जहन्न मज्झो तहेव उक्कोसो । सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं ॥ तत्य जहन्ने गिम्हे चउत्थ छटुं तु होइ मज्झिमओ । अट्ठममिहमुक्कोसो एत्तो सिसिरे पवक्खामि । सिसिरे तु जहन्नादी छट्ठादी दसमचरिमगो होति । वासासु अट्ठमादी बारसपज्जंतगो नेओ॥ पारणगे आयामं पंचसु गहो दोसभिग्गहो भिक्खे । कप्पट्ठियादि पइदिण करेति एमेव आयामं ॥ एवं छम्मासतवं चरित्तु परिहारिया अनुचरंति । अनुचरगे परिहारियपदहिते जाव छम्मासा ।। कप्पट्टितोवि एवं छम्मासतवं करेंति सेसा उ । अनुपरिहारिंगभावं वयंति कप्पट्टिगत्तं च ॥ एवेसो अट्ठारससमाणापमाणो उ वण्णिओ कप्पो । संखेवओ विसेसा विसेससुत्ताओ नायव्यो ।। कप्पसमत्तीए तयं जिनकप्पं वा उविंति गच्छं वा । पडिवजमाणगा पुन जिनस्स पासे पवनंति ।। तित्थयरसमीवासेवगस्स पासे व नो उ अन्नस्स । एतेसिं जं चरणं परिहारविसुद्धिगं तं तु ॥ 'तथा' इत्यानन्तर्यार्थे, गाथाभङ्गभयाद्यवहितस्योपन्यासः, 'सूक्ष्मसंपरायं' इति संपर्येति एभिः-संसारमिति संपरायाः कषायाः, सूक्ष्मा लोभांशावशेषत्वात् संपराया यत्र तत् सूक्ष्मसंपरायं, तच्च द्विधा-विशुध्यमानकं संविश्यमानकंच, तत्र विशुध्यमानकं क्षपकोपशमकश्रेणिद्वयमारोहतो भवति, संक्लिश्यमानकं तूपशमश्रेणितः प्रच्यवमानस्येति, 'चः' समुच्चये इति गाथार्थः ।। नि. (११५) तत्तो य अहक्खायं खायं सव्वंमि जीवलोगंमि । जं चरिऊण सुविहिआ वच्चंतयरामरं ठाणं ॥ वृ-'ततश्च' सूक्ष्मसंपरायानन्तरं यथैवाख्यातं यथाख्यातं अकषायचारित्रमिति यथाख्यातंप्रसिद्धं सर्वस्मिन् जीवलोके, तच्च छद्मस्थवीतरागस्य केवलिनश्च भवति, तत्र च छद्मस्थस्य उपशामकस्य क्षपकस्य वा, केवलिनस्तु सयोगिनोऽयोगिनो वेति, शेषं निगदसिद्धं, नवरं मरणं मरः जरा च मरश्च जरामरौ तौ अविद्यमानौ यस्मिन तदजरामरमिति गाथार्थः ॥ तत्रैतेषां पञ्चानां चारित्राणां आद्यं चारित्रत्रयं क्षयोपशमलभ्यं चरमचारित्रद्वयं तूपशमक्षयलभ्यमेव, तत्र तत्कर्मोपशमऋमप्रदर्शनायाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy