________________
उपोद्घातः - [ नि. ११४ ]
७१
वैदेहमध्यमतीर्थकरतीर्थसाधवः पुरिमपश्चिमतीर्थवर्तिसाधुवत् अचेलत्वे स्थिताः, कुतः ?तेषां ऋजुप्रज्ञत्वात् महाधनमूल्यविचित्रादिवस्त्राणामपि परिभोगात्, पुरिमपश्चिमतीर्थकरतीर्थवर्त्तिसाधूनां तु ऋजुवक्रजडत्वात् महाधनमूल्यादिवस्त्रापरिभोगाजीर्णादिपरिभोगाच अचेलकत्वमिति । आह - जीर्णादिवस्त्रसद्भावे, कथमचेलकत्वम् ? उच्यते, तेषां जीर्णत्वात् असारत्वात् अल्पत्वात् विशिष्टार्थक्रियाऽप्रसाधकत्वात् असत्त्वाविशेषात् इति, तथा चेत्थंभूतवस्त्रसद्भावेऽपि लोकेऽचेलकत्वव्यपदेशप्रवृर्त्तिश्यते, यथा- काचिदङ्गना जीर्णवस्त्रपरिधाना अन्याभावे सति तद्भावेऽपि च समर्पितसाटकं कुविन्दं तन्निष्पादनमन्थरं प्रति आह - 'त्वर कोलिक ! नग्निकाऽहमिति १ | तथा औद्देशिकेऽप्यस्थिता एव, कथम् ? - इह पुरिमपश्चिमतीर्थकरसाधुं उद्दिश्य कृतमशनादि सर्वेषामकल्पनीयं तेषां तु यमुद्दिश्य कृतं तस्यैवाकल्पनीयं न शेषाणामिति २ । तथा शय्यातरराजपिण्डद्वारम् - पिण्डग्रहणमुभयत्र संबध्यते, तत्र शय्यातरपिण्डे स्थिता एव, शय्यातरपिण्डोहि यथा पुरिमपश्चिमतीर्थकरसाधूनां अकल्पनीयः, एवं मध्यमतीर्थकरसाधूनामपि ३ । राजपिण्डे चास्थिताः, कथम् ! स हि पुरिमपश्चिमतीर्थकरसाधूनामग्राह्य एव, मध्यमानां तु दोषाभावात् गृह्यते ४ । तथा कृतिकर्म वन्दनमाख्यायते, तत्रापि स्थिताः, कथम् ? यथा पुरिमपश्चिमतीर्थकरसाधूनां प्रभूतकालप्रव्रजिता अपि संयत्यः पूर्वं वन्दनं कुर्वन्ति, एवं तेषामपि यथा वा क्षुल्लका ज्येष्ठार्याणां कुर्वन्ति, एवं तेषामपि ५ । व्रतानि प्राणातिपातादिनिवृत्तिलक्षणानि तेष्वपि स्थिता एव, यथा पुरिमपश्चिमतीर्थकरसाधवः व्रतानुपालनं कुर्वन्ति, एवं तेऽपीति, आह- तेषां हि मैथुनविरतिवर्ज्यानि चत्वारि व्रतानि, ततश्च कथं स्थिता इति, उच्यते, तस्यापि परिग्रहेऽन्तर्भावात् स्थिता एव, तथाच नापरिगृहीता योषित् उपभोक्युतं पार्यते ६ । तथा प्रतिक्रमणे अस्थिताः, पुरिमपश्चिमसाधूनां तत्र मासकल्पेऽप्यस्थिताः, कथम् ? - पुरिमपश्चिमतीर्थकरसाधूनां नियमतो मासकल्पविहारः, मध्यमतीर्थकरसाधूनां तु दोषाभावे न विद्यते, एवं पर्युषणाकल्पोऽपि वक्तव्यः, एतदुक्तं भवति तस्मिन्नपि अस्थिता एव ९-१० - इति समुदायार्थः,
विस्तरार्थस्तु कल्पादवगन्तव्यः । अभिहितमानुषङ्गिकं, इदानीं प्रकृतमुच्यते - आहपुरिमपश्चिमतीर्थकरसाधूनामपि यदित्वरं सामायिकं तत्रापि 'करोमि भदन्त ! सामायिकं यावज्जीवं इतीत्वरस्याप्याभवग्रहणात् तस्यैव उपस्थापनायां परित्यागात् कथं न प्रतिज्ञालोप इति, अत्रोच्यतेअतिचाराभावात्, तस्यैव सामान्यतः सावद्ययोगविनिवृत्तिरूपेणावस्थितस्य शुद्ध्यन्तरापादनेन संज्ञामात्रविशेषात् इति । चशब्दो वाक्यालङ्कारे, 'प्रथमं' आद्यं चारित्रमिति, इदानीं 'छेदोपस्थापनं' छेदश्चोपस्थापनं च यस्मिंस्तच्छेदोपस्थापनं, एतदुक्तं भवति - पूर्वपर्यायस्य छेदो महाव्रतेषु चोपस्थापनमात्मनो यत्र तच्छेदोपस्थापनं, तच्च सातिचारमनतिचारं च तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्य आरोप्यत इति, तीर्थान्तरसंक्रान्तौ वा यथा पार्श्वनाथतीर्थात् वर्धमानस्वामितीर्थं संक्रामतः पञ्चयामधर्मप्रतिपत्ताविति, सातिचारं तु मूलगुणघातिनो यत् पुनर्व्रतोचारणमिति, उक्तं छेदोपस्थापनं, इदानीं परिहारविशुद्धिकं तत्र परिहरणं परिहारः- तपोविशेषः तेन विशुद्धिर्यस्मिस्तत्परिहारविशुद्धिकं तच्च द्विभेदं निर्विशमानकं निर्विष्टकायिकं च तत्र निर्विशमानकात्सदासेवकाः तदव्यतिरेकात् तदपि चारित्रं निर्विशमानकमिति, आसेवितवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org