________________
आवश्यक मूलसूत्रम् - १ -
द्वादशानां पुनः कषायाणां उदयतः, किम् ? -मूलच्छेद्यं भवति, एवं पदयोगः कर्त्तव्यः, 'मूलेन' अष्टमप्रायश्चित्तेन 'छिद्यते' विदार्यते यद्दोषजातं तन्मूलच्छेद्यं, अशेषचारित्रच्छेदकारीति भावार्थः, पुनः शब्दस्तु प्रक्रान्तार्थविशेषणार्थ एवेति, 'भवति' संजायते 'द्वादशनां' अनन्तानुबन्धिप्रभृतीनां कषायाणां, उदयेनेति संबध्यते, अथवा मूलच्छेद्यं यथासंभवतः खल्वायोजनीयं प्रत्याख्यानावरणकषायोदयतस्तावत् मूलच्छेद्यं सर्वचारित्रविनाशः, एवमप्रत्याख्यानकषायानन्तानुबन्ध्युदयतस्तु देशविरतिसम्यक्त्वं मूलच्छेद्यं यथायोगमिति गाथार्थः ॥ यतश्चैवमतःनि. (११३) बारसविहे कसा खइए उवसामिए व जोगेहिं । लब्भइ चरित्तलंभो तस्स विसेसा इमे पंच ॥
06)
बृ- 'द्वादशविधे' द्वादशप्रकारे अनन्तानुबन्ध्यादिभेदभिन्ने 'कषाये' क्रोधादिलक्षणे, 'क्षपिते सति' प्रशस्तयोगैः-निर्वाणहुतभुक्तुल्यतां नीते 'उपशमिते' भस्मच्छन्नाग्निकल्पतां प्रापिते, वाशब्दात् क्षयोपशमं वा अर्धविध्यातानलोदूघट्टनसमतां नीते 'योगैः' मनोवाक्कायलक्षणः प्रशस्तैर्हेतुभूतैरिति, किम् ? लभ्यते चारित्रलाभः 'तस्य' चारित्रलाभस्य सामान्यस्य न तु द्वादशविधकषायक्षयादिजन्यस्यैवेति, 'विशेषा' भेदा 'एते' वक्ष्यमाणलक्षणाः 'पञ्च' पञ्चेति संख्या, (इति) गाथाक्षरार्थः ॥ अनन्तरगाथासूचितपञ्चचारित्रभेदप्रदर्शनायाहसामाइयं च पढमं छेओवठावणं भवे बीयं ।
नि. (११४)
परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥
वृ- ‘सामायिकं' इति समानां-ज्ञानदर्शनचारित्राणां आयः समायः, समाय एव सामायिकं, विनयादिपाठात् स्वार्थे ठक्, आह- समयशब्दस्तत्र पठ्यते, तत्कथं समाये प्रत्ययः ?, उच्यते, 'एकदेशविकृतमनन्यवद्भवती' तिन्यायात्, तच्च सावद्ययोगविरतिरूपं, ततश्च सर्वमप्येतच्चारित्रं अविशेषतः सामायिकं, छेदादिविशेषैस्तु विशेष्यमाणं अर्थतः शब्दान्तरतश्च नानात्वं भजते, तत्र प्रथमं विशेषणाभावात् सामान्य शब्द एवावतिष्ठते सामायिकमिति, तच्च द्विधा- इत्वरं यावत्कथिकं च, तत्र स्वल्पकालमित्वरं, तच्च भरतैरवतेषु प्रथमपश्चिमर्तीकरतीर्थेषु अनारोपितव्रतस्य शिक्षकस्य विज्ञेयमिति यावत्कथिकं तु यावत्कथा आत्मनः तावत्कालं यावत्कथं प्रथमपश्चिमतीर्थकरतीर्थेषु अनारोपितव्रतस्य शिक्षकस्य विज्ञेयमिति, यावत्कथिकं तु यावत्कथा आत्मनः तावत्कालं यावत्कथं यावत्कथमेव यावत्कथिकं आभववर्त्तीतियावत्; तच्च मध्यमविदेहतीर्थकरतीर्थांन्तर्गतसाधूनामवसेयमिति, तेषामुपस्थापनाऽभावात्, अत्र प्रसङ्गतो मध्यमविदेहपुरिमपश्चिमतीर्थकरतीर्थवर्त्तिसाधुस्थितास्थितकल्पः प्रदर्श्यते तत्र ग्रथान्तरे विवक्षितार्थप्रति
पादिकेयं गाथा
"आचेलक्कु १ द्देसिय २ सेजायर ३ रायपिड ४ किइकम्मे ५ । वय ६ जिट्ट ७ पडिक्कमणे ८ मासं ९ पज्जोसवणकप्पो १० ||" अस्या गमनिका चउसु ठिआ छसु अट्ठिआ, केषु चतुर्षु इति, आहसिजायरपिंडे या चाउज्जामे य पुरिसजिट्ठे य ।
किइकम्मस्स य करणे चत्तारि अवट्ठिआ कप्पा ||
नास्य चेलं विद्यते इत्यचेलकः तद्भावः अचेलकत्वं अचेलकत्वे स्थिताः, एतदुक्तं भवति-न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org