________________
६९
उपोद्घातः - [नि. १०९] शेषः, अयं च वाक्यशेषो विरताविरतिविशेषणे तुशब्दसंसूचितो द्रष्टव्यः, तथा चाह-विरमणं विरतं तथा न विरतिः अविरतिः विरतं चाविरतिश्च यस्यां निवृत्तौ सा तथोच्यते, देशविरतिरित्यर्थः, तां विरताविरतिं न तु लभन्ते, तुशब्दात् सम्यग्दर्शनं तु लभन्ते इति गाथार्थः । नि. (११०) तइयकसायानुदए पच्चक्खाणावरणनामधिञ्जाणं ।
देसिक्कदेसविरइं चरित्तलंभं न उ लहंति ।। वृ-सर्वविरतिलक्षणतृतीयगुणघातित्वात् क्षपणक्रमाद्वा तृतीयाः, कषायाः' पूर्ववत्, तृतीयाश्च ते कषायाश्चेति समासः, कषायाः क्रोधादय एव चत्वारस्तेषां 'उदय' इति पूर्ववत्, किंविशिष्टानां ? - आवृण्वन्तीत्यावरणाः, प्रत्याख्यानं सर्वविरतिलक्षणं तस्यावरणाः प्रत्याख्यानावरणाः प्रत्याख्यानावरणा एव नामधेयं येषां ते तथाविधास्तेषां । आह-नन्वप्रत्याख्याननामधेयानामुदये न प्रत्याख्यानमस्तीत्युक्तं, ना प्रतिषिद्धत्वात्, इहापिच आवरणशब्देन प्रत्याख्यानप्रतिषेधात् क एषां प्रतिविशेष इति, उच्यते, तत्र नञ् सर्वनिषेधवचनो वर्तते, इह पुनः आडो मर्यादषदर्थवचनत्वात् ईषन्यादया वाऽऽवृण्वन्तीत्यावरणाः, ततश्च सर्वविरतिनिषेधार्थ एवायं वर्तते न देशविरतिनिषेधे खल्वावरणशब्द इति, तथा चाह-देशश्चैकदेशश्च देशैकदेशौ, तत्र देशः-स्थूरप्राणातिपातः, एकदेशः तस्यैव यथाश्यवनस्पतिकायातिपातः, तयोः विरतिः-निवृत्तिः तां, लभन्ते इति वाक्यशेषः, अत्रापि वाक्यशेषः, चारित्रविशेषणे तशब्दाक्षिप्त एव द्रष्टव्यः, यत आह-'चारित्रं' इति 'चर गतिभक्षणयो' रिति, अस्य 'अर्तिलूधूसूखनिसहिचर इत्रः' इतीप्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेन इति चरित्रं क्षयोपशमरूपं तस्य भावश्चारित्रं, एतदुक्तं भवति-इहान्यजन्मोपात्ताष्टविधकर्मसंचयापचयाय चरणं चारित्रं, सर्वसावधयोगनिवृत्तिरूपा क्रियोत्यर्थः, तस्य लाभश्चारित्रलाभस्तं न तु लभन्ते, तुशब्दाद्देशैकदेशविरतिं तु लभन्त एवेति गाथार्थः । इदानीममुमेवार्थमुपसंहरन्नाहनि. (१११) मूलगुणाणं लंभं न लहइ मूलगुणघाइणं उदए।
उदए संजलणाणं न लहइ चरणं अहक्खायं ॥ वृ- मूलभूता गुणा मूलगुणा उत्तरगुणाधारा इत्यर्थः, ते च सम्यक्त्वमहाव्रताणुव्रतरूपाः तेषां मूलगुणानां लाभं 'न लभते' न प्राप्नोति, कदेति आह-मूलगुणान् घातयितुं शीलं येषां ते मूलगुणघातिनः तेषां मूलगुणधातिनां -अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानां द्वादशानां कषायाणामुदये, तथा ईषद् ज्वलनात् संज्वलनाः सपदि परीषहादिसंघातज्वलनाद्वा संज्वलनाः क्रोधादय एव चत्वारः कषायाः तेषां संज्वलनानामुदये न लभते चारश्चरणं, भावे ल्युट्प्रत्ययः, लब्धं वा त्यजति, किं सर्वम् ?-नेत्याह-यथैवाख्यातं यथाख्यातं इति अकषायं, सकषायं तु लभते एवेति ।। न च यथाख्यातचारित्रमात्रोपधातिन एव संज्वलनाः, किंतु शेषचारित्रदेशोपघातिनोऽपि, तदुदये शेषचारित्रदेशातिचारसिद्धोः, तथा आहनि. (११२) सब्वेविअ अइयारा संजलणाणं तु उदयओ हुंति ।
मूलच्छिज्जं पुन होइ बारसण्हं कसायाणं ।। वृ-'सर्वे' आलोचनादिच्छेदपर्यन्तप्रायश्चित्तशोध्याः, अपिशब्दात् कियन्तोऽपिच, अतिचरणान्यतिचाराः चारित्रस्खलनाविशेषाः, संज्वलनानमेवोदयतो भवन्ति, तुशब्दस्य एवकारार्थत्वात्
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only