________________
६८
आवश्यक मूलसूत्रम्-१परिक्षयोत्तरकालं देशविरतिरवाप्यते, पुनः शेषायाः संख्येयेषु सागरोपमेषु स्थितेरपगतेषु सर्वविरतिरिति, पुनरवशेषस्थितेरपि संख्येयेष्वेव सागरोपमेषु क्षीणेषु उपशामकश्रेणी, अनेनैव न्यायेन क्षपकश्रेणीति, इयं च देशविरत्यादिप्राप्तिरेतावत्कालतो देवमनुष्येषु उत्पद्यमानस्य अप्रतिपतितसम्यक्त्वस्य नियमेनोत्कृष्टतो द्रष्टव्येति, अन्यथा अन्यतरश्रेणिरहितसम्यक्त्वादिगुणप्राप्तिरेकभवेनाप्यविरुद्धेति, उक्तं च भाष्यकारेण -
"सम्मत्तंमि उ लद्धे पलियपुहुत्तेण साओ होज्जा ।
चरणोवसमखयाणं सागर संखंतरा हुंति ।। एवं अप्परिवडिए सम्मत्ते देवमनुयजम्मेसु ।
अन्नतरसेढिवजं एगभवेणं च सव्वाइं ।" अभिहितं आनुषङ्गिकं, इदानीं यदुदयात् सम्यक्त्वसामायिकादिलाभो न भवति, संजातो वाऽपैति, तानिहावरणरूपान् कषायान् प्रतिपादयन्नाह-पढमिल्लु०।अथवा यदुक्तं 'कैवल्यज्ञानलाभो नान्यत्र कषायक्षयात्' इति, इदानीं ते कषायाः के ? कियन्तः ? को वा कस्य सम्यक्त्वादिसामायिकस्यावरणं? को वा खल उपशमनादिक्रमः कस्य इत्यमुमर्थमभिधित्सुराहनि. (१०८) पढमिल्लुयाण उदए नियमा संजोयणा कसायाणं ।
सम्मइंसणलंभं भवसिद्धीयावि न लहंति ।। - उत्तरगाथा अपि प्रायः कियत्योऽपि उक्तसंबन्धा एवेति, तत्र व्याख्या-प्रथमा एव प्रथमिल्लुकाः, देशीवचनतो जहा 'पढमिल्ला एत्य घरा' इत्यादि, तेषां प्रथमिल्लुकानां - अनन्तानुबन्धिनां क्रोधादीनामित्युक्तं भवति, प्राथम्यं चैषां सम्यक्त्वाख्यप्रथमगुणविधातित्वात् क्षपणक्रमाद्वेति, उदयः-उदीरणावलिकागततत्पुद्गलोद्भूतसामर्थ्यता तस्मिन् उदये, किम् ?'नियमात् नियमेनेति, अस्य व्यवहितपदेन सार्धं संबन्धः, तं च दर्शयिष्यामः, इदानीं पुनः प्रथमिल्लका एव विशिष्यन्ते-किंविशिष्टानां प्रथमिल्लकानां ? कर्मणा तत्फलभूतेन संसारेण वा संयोजयन्तीति संयोजनाः, संयोजनाश्च ते कषायाश्चेति विग्रहः तेषामुदये, किम् ? -नियमेन सम्यक्-अविपरीतं दर्शनं सम्यग्दर्शनं तस्य लाभः-प्राप्तिः सम्यग्दर्शनलाभः तं, भवे सिद्धियेषां ते भवसिद्धिकाः । आह-सर्वेषामेव भवे सति सिद्धिर्भवति ?, उच्यते, एवमेतत्; किंतु इह प्रकरणात् तद्भवो गृह्यते, तद्भवसिद्धिका अपि 'न लभन्ते' न प्राप्नुवन्ति, अपिशब्दाद् अभव्यास्तु नैव, अथवा परीतसंसारिणोऽपि नैवेति गाथार्थः ॥ नि. (१०९) बिइयकसायानुदए अपच्चक्खाणनामधेजाणं ।
सम्मइंसणलंभ विरयाविरई न उ लहंति ।। वृ- "द्वितीया' इति देशविरतिलक्षणद्वितीयगुणघातित्वात् क्षपणक्रमाद्वा, 'कषाया' इति 'कष गतौ' इति कषशब्देन, कर्माभिधीयते, भवो वा, कषस्य आया लाभाः प्राप्तयः कषायाः क्रोधादयः, द्वितीयाश्च ते कषायाश्चेति समासः, तेषां, “उदयः' इति अस्य पूर्ववदर्थः, किंविशिष्टानां ?-'अप्रत्याख्याननामधेयानां न विद्यते देशविरतिसर्वविरतिरूपं प्रत्याख्यानं येषु उदयप्राप्तेषु सत्सु ते अप्रत्याख्यानाः, सर्वनिषेधवचनोऽयं नञ् द्रष्टव्यः, अप्रत्याख्याना एव नामधेयं येषां ते तथाविधाः तेषामुदये सति, किम् ? -सम्यग्दर्शनलाभ, भव्या लभन्ते इति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org