________________
अध्ययनं-६- [नि. १५८८ |
३२३
नि. (१५८८) सव्वोऽविय आहारो असनं सव्वोऽवि वुचई पानं ।
सव्वोऽवि खाइमंति य सव्वोऽवि य साइमं होई ।। वृ-यद्यनन्तरोदितपदार्थापेक्षया अशनादीनि ततः सर्वोऽपि चाहारश्चतुर्विधोऽपीत्यर्थः अशनं, सर्वोऽपि चोच्यते पानं सर्वोऽपि च खादिममं सर्व एव खादिमं भवति, अन्यथा विशेषात्, तथाहि-यथैवाशनमोदनमण्डकादि क्षुधं शमयति तथैव पानकं द्राक्षाक्षीरपानादि खादिमममपि च फलादि स्वादिममपि ताम्बूलपुगफलादि, यथा च पानं प्राणानामुपग्रहे वर्तते एवमशनादीन्यपि, तथा चत्वार्यपि खे मान्ति चत्वार्यपि वा स्यादयन्ति आस्वाद्यन्ते वेति न कश्चिद् विशेषः, तस्मादयुक्तमेवं भेद इति गाथार्थः । इयं चालना, प्रत्यवस्थानं तु यद्यपि एतदेवं तथापि (तुल्यार्थत्वप्राप्तावपि) रूढितो नीतितः प्रयोजनं संयमोपकारकमस्ति एवं कल्पनायाः अन्यथा दोषः, तथा चाहनि. (१५८९) जइ असनमेव सव्वं पानग अविवजणमि सेसाणं ।
हवइ य सेसविवेगो तेन विहत्ताणि चउरोऽवि ।। वृ-यद्यशनमेव सर्वमाहाररजातं गृह्यते ततः शेषापरिरभोगेऽपि पानकादिवर्जने-उदकादिपरित्यागे शेषाणामाहाररभेदानां निवृत्तिनं कृता भवतीति वाक्यशेषः, ततः का नो हानिरिति चेत् ? भवति शेषविवेकः-अस्ति च शेषाहाररभेदपरित्यागः, न्यायोपपन्नत्वात्, प्रेक्षापूर्विकातिया त्यागपालन न्यायः, स चेह सम्भवति, तेन विभक्तानि चत्वार्यपि अशनादीनि, तदेकभावेऽपि तत्तभेदपरित्यागे एतदुपपद्यत एवेति चेत्, सत्यमुपपद्यते दुरवसेयं तु भवति, तस्यैव देशस्त्यक्तस्तस्यैव नेति ‘अर्द्धं कुक्कुट्याः पच्यते अर्द्धं प्रसवाय कल्प्यते' इति, अपरिणतानां श्रद्धानं च न जायते, एवं तु सामान्यविशेषभेदनिरूपणायां सुखावसेयं सुखश्रद्धेयं च भवति इति गाथार्थः ।। तथा चाहनि. (१५९०) असनं पानगं चेव खाइमं साइमं तहा ।
एवं परूवियंमी, सद्दहिउं जे सुहं होइ ।। वृ. अशनं पानकं चैव खादिमं खादिमं तथा, एवं प्ररूपिते-सामान्यविशेषभावेनाख्याते, तथावबोधात् श्रद्धातुं सुखं भवति, सुखेन श्रद्धा प्रवर्तते, उपलक्षणार्थत्वाद् दीयते पाल्यते च सुखमिति गाथार्थः ।। आह-मनसाऽन्यथा संप्रधारिते प्रत्याख्याने त्रिविधस्य प्रत्याख्यानं करोमीति वागन्यथा विनिर्गता चतुर्विधस्येति गुरुणाऽपि तथैव दत्तमत्र कः प्रमाणं?, उच्यते, शिष्यस्य मनोगतो भाव इति, आह चनि. (१५९१) अन्नत्थ निवडिए वंजणमि जो खलु मनोगओ भावो ।
तं खलु पच्चक्खाणं न पमाणं वंजणच्छलणा ॥ वृ-अन्यत्र निपतिते व्यञ्जने-त्रिविधप्रत्याख्यानचिन्तायां चतुर्विध इत्येवमादौ निपतिते शब्दे यः खलु मनोगतो भावः प्रत्याख्यातुः खलुशब्दो विशेषणे अधिकतरसंयमयोगकणापहतचेतसोऽन्यत्र निपतिते न तु तथाविधप्रमादात् यो मनोगतो भावः आद्यः तत् खलु प्रत्याख्यानं प्रमाणं, अनेनापान्तररालगतसूक्ष्मविवक्षान्तरप्रतिषेधमाह, आद्याया एव प्रवर्तकत्वात्, व्यवहाररदर्शनस्य चाधिकृतत्वाद्, अतः न प्रमाणं व्यञ्जनं-तच्छिष्याचार्ययोर्वचनं, किमिति?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org