________________
३२२
आवश्यक मूलसूत्रम् -२-६/८१
सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति, स चावसरप्राप्त एव, युगपञ्च सूत्रादयो व्रजन्ति, तथा चोक्तं
“सुत्तं सुत्तानुगमो सुत्तालावयगतो य निक्खेवो ।
सुत्तप्फासियनिचुत्तिणया य समगं तु वच्चंति ॥१॥" अत्राक्षेपपरिरहारौ न्यक्षेण सामायिकाध्ययने निरूपितावेव नेह वितन्येते इत्यलं विस्तरेण। तत्रेदं सूत्रं
मू. (८२) सूरे उग्गए नमोक्कारसहितं पच्चक्खाति चउविहंपि आहारं असणं पाणं खाइम साइमं, अन्नत्य अनाभोगेणं सहसाकारेणं वोसिरामि । दृ- तल्लक्षणं
'संहिता च पदं चैव, पदार्थः पदविग्रहः ।
__ चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा ।।' तत्रास्खलितपदोच्चारणं संहिता निर्दिष्टव, अधुना पदानि-सूर्ये उद्गते नमस्कारसहितं प्रत्याख्याति, चतुर्विधमपि आहारं अशनं पानं खादिमं स्वादिम, अन्यत्रानाभोगेन सहसाकारेण व्युत्सृजति । अधुना पदार्थ उच्यते-तत्र 'अश् भोजने' इत्यस्य ल्युडन्तस्य अश्यत इत्यशनं भवति, तथा 'पा पाने' इत्यस्य पीयत इति पानमिति, 'खाई भक्षणे' इत्यस्य च वक्तव्यादिमन्प्रत्ययान्तस्य खाद्यत इति खादिमं भवति, एवं 'स्वद स्वर्द आस्वादने' इत्यस्य च स्वाद्यत इति स्वादिमं अथवा खाद्यं स्वाद्यं च, ‘अन्यत्रे ति परिवर्जनार्थं यथा 'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योधाः पराङ्मुखा' इति, तथा आभोगनमाभोगः न आभोगोऽनाभोगः, अत्यन्तविस्मृतिरित्यर्थः, तेन, अनाभोगं मुक्तवेत्यर्थः, तथा सहसाकारणं सहसाकारः-अतिप्रवृत्ति-योगादनिवर्तनमित्यर्थः, तेन तं मुक्त्वा-व्युत्सृजतीत्यर्थः । एष पदार्थः, पदविग्रहस्तु समासभाक्-पदविषय इति क्वचिदेव भवति न सर्वत्र, स च यथासम्भवं प्रदर्शित एव, चालनाप्रत्यवस्थाने च नियुक्तिकारः स्वयमेव दर्शयिष्यतीति सूत्र-समुदायार्थः ।। अधुना सूत्रस्पर्शिकनियुक्त्येदमेव निरूपयन्नाहनि. (१५८६) असनं पानगं चेव, खाइमं साइमं तहा ।
एसो आहाररविही, चउव्विहो होइ नायब्यो । वृ- अशनं-मण्डकौदनादि, पानं चैव-द्राक्षापानादि, खादिमं-फलादि तथा स्वादिमंगुडताम्बूलपूगफलादि, एष आहारविधिश्चतुर्विधो भवति ज्ञातव्य इति गाथार्थः ।। नि. (१५८७) आसुं खुहं समेई, असणं पाणाणुवग्गहे पाणं ।
खे माइ खाइमंति य, साएइ गुणे तओ साई ।। दृ-साम्प्रतं समयपरिभाषया शब्दार्थनिरूपणायाह-आशु-शीघ्रं क्षुधां-बुभुक्षां शमयतीत्यशनं, तथा प्राणानाम्- इन्द्रियादिलक्षणानां उपग्रहे-उपकारे यद् वर्तत इति गम्यते तत् पानमिति, खमिति-आकाशं तच्च मुखविवरमेव तस्मिन् मातीति खादिमं, स्वादयति गुणान्-रसादीन्संयमगुणान् वा यतस्ततः स्वादिमं हेतुत्वेन तदेव स्वादयतीर्थः । विचित्रं निरुक्तं पाठात्, भ्रमति च रौति च भ्रमर इत्यादिप्रयोगदर्शनात्, साधुरेवायमन्यवर्थ इति गाथार्थः ।।
उक्तः पदार्थ, पदविग्रहतु समासभाक्पदविषय इति नाक्तः । अधुना चालनामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org