SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ ३२४ आवश्यक मूलसूत्रम् -२-६/८२ छलनाऽसौ व्यञ्जनमात्रं, तदन्यथाभावसद्भावादिति गाथार्थः ।। इदं च प्रत्याख्यानं प्रधाननिजरा-कारणमिति विधिवदनुपालनीयं, तथा चाहनि. (१५९२) फासियं पालियं चेव, सोहियं तीरियं तहा । किट्टिअमाराहिअंचेव, एरिसयंमी पयइयव्वं ॥ वृ-स्पृष्टं-प्रत्याख्यानग्रहणकाले विधिना प्राप्तं पालितं चैव-पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं शोभितं-गुर्वादिप्रदानशेषभोजनासेवनेन तीरितं-पूर्णेऽपि कालावौं किञ्चित्कालावस्थानेन कीर्तितं-भोजनवेलायामममुकं मया प्रत्याख्यातं तत् पूर्णमधुना भोक्ष्य इत्युच्चारणेन आराधितंतथैव एभिरेव प्रकारैः सम्पूर्णेर्निष्ठा नीतं यस्मादेवंभूतमेव तदाज्ञापालनादप्रमादाच्च महत्कर्मक्षयकारणं तस्माद् ईशि प्रयतितव्यमिति एवंभूत एव प्रत्याख्यानं यलः कार्य इति गाथार्थः ।। साम्प्रतमनन्तरपारम्पर्येण तत्प्रत्याख्यानगुणानाहनि. (१५९३) पच्चक्खाणंमि कए आसक्दाराई हुंति पिहियाई । आसववुच्छेएणं तण्हावुच्छेअणं होइ ।। वृ- प्रत्याख्याने कृते-सम्यग्निवृत्तौ कृतायां किम् ? -आश्रवद्वाराणि भवन्ति पिहितानितद्विषयप्रतिबद्धानि कर्मबन्धद्वाराणि भवन्ति स्थगितानि, तत्रावृत्तोः, आश्रवव्यवच्छेदेन च कर्मबन्धद्वारस्थगनेन च संवरणेनेत्यर्थः, किं ?-तृड्व्यवच्छेदनं भवति-तद्विषयाभिलाषनिवृत्तिर्भवतीति गाथार्थः ॥ नि. (१५९४) तण्हावोच्छेदेण य अउलोक्समो भवे मनुस्साणं । अउलोवसमेण पुणो पच्चक्खाणं हवइ सुद्धं ।। वृ-तृड्व्यवच्छेदेन च तद्विषयाभिलाषनिवृत्तौ च अतुल-अनन्यसद्दशः उपशमो-मध्यस्थपरिणामो भवति मनुष्याणां-जायते पुरुषाणां, पुरुषप्रणीतः पुरुषप्रधानश्च धर्म इति ख्यापनार्थं मनुष्यग्रहणम्, अन्यथा स्त्रीणामपि भवत्येव, अतुलोपशमेन पुनः-अनन्यसहशमध्यस्थपरिणामेन पुनः प्रत्याख्यानं-उक्तलक्षणं भवति-शुद्धं जायते निष्कलङ्कमिति गाथार्थः ॥ नि. (१५९५) तत्तो चरित्तधम्मो कम्मविवेगो तओ अपुव्वं तु । तत्तो केवलनाणं तओ अ मुक्खो सयासुक्खो । वृ-ततः प्रत्याख्यानाच्छुद्धाच्चारित्रधर्मः स्फूरतीति वाक्यशेषः, कर्मविवेकः-कर्मनिर्जरा ततःचारित्रधर्मात्, ततश्चेति द्विरावर्त्यते ततश्च-तस्माच्च कर्मविवेकात् 'अपूर्व' मिति क्रमेणापूर्वकरणं भवति, ततः-अपूर्वकरणाच्छ्रेणिक्रमेण केवलज्ञानं, ततश्च-केवलज्ञानाद् भवोपग्राहिकर्मक्षयेण मोक्षः सदासौख्यः-अपवर्गो नित्यसुखो भवति, एवमिदं प्रत्याख्यानं सकलकलयाणैककारणं अतो यलेन कर्त्तव्यमिति गाथार्थः ।। इदं च प्रत्याख्यानं महोपाधेर्भेदाद् द्वादशविधं भवति आकारसमन्वितं वा गृह्यते पाल्यते वा, अत इदमभिधित्सुराहनि. (१५९६) नमुक्कारपोरिसीए पुरिमड्डेगासणेगठाणे य । आयंबिल अभत्तढे चरमे य अभिग्गहे विगई ।। नि. (१५९७) दो छच्च सत्त अट्ट सत्तट्ट य पंच छच्च पाणंमि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy