________________
अध्ययनं-६- [नि. १५५४]
२७९ प्रायश्चित्तभेषजेनापराधव्रणचिकित्सोक्ता, इह तु गुणधारणा प्रतिपाद्यते, भूयोऽपि मूलगुणोत्तरगुणधारणा कार्येति, सा च मूलगुणोत्तरगुणप्रत्याख्यानरूपेति तदत्र निरूप्यते, यद्वा कायोत्सगांध्ययने कायोत्सर्गकरणद्वारेण प्रागुपात्तकर्मक्षयः प्रतिपादितः, यथोक्तं-'जह करगओ नियंतई त्यादि, 'काउस्सग्गे जह सुट्ठियस्से त्यादि, इह तु प्रत्याख्यानकरणतः कर्मक्षयोपशमक्षयजं फलं प्रतिपाद्यते, वक्ष्यते च
'इहलोइयपरलोइय दुविह फलं होइ पञ्चखाणस्स । इहलोए धम्मिलादी दामण्णगमाइ परलोए ।।१।। पन्चक्वाणमिणं सेविऊण भावेण जिनवरुद्दिडं ।
पत्ता अनंतजीवा सासयसोक्खं लहुं मोक्खं ॥२॥ इत्यादि, अथवा सामायिके चारित्रमपवर्णितं, चतुर्विशतिस्तवेऽहतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा, एवमिदं त्रितयमुक्तं, अस्य च वितथासेवनमैहिकामुष्पिकापायपरिजिहीर्षणा गुरोनिवेदनीयं, तच्च वन्दनपूर्वमित्यतस्तन्निरूपितं, निवेद्य च भूयः शुभेष्वेव स्थानेषु प्रतीपं क्रमणमासेवनीयमिति तदपि निरूपितं, तथाऽयशुद्धस्य सतोऽपराधव्रणस्य चिकित्सा आलोचनादिना कायोत्सर्गपर्यवसानप्रायश्चित्त भेषजेनानन्तराध्ययन उक्ता, इह तु तथाप्यशुद्धस्य प्रत्याख्यानतो भवतीति तनिरूप्यते, एवमनेकरूपेण सम्बन्धेनायातस्य प्रत्याख्यानाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे प्रत्याख्यानाध्ययनमिति प्रत्याख्यानमध्ययनं च, तत्र प्रत्याख्यानमधिकृत्य द्वारगाथामाह नियुक्तिकार:नि. (१५५५) पञ्चक्खाणं पञ्चक्खाओ पञ्चक्खेयं च आनुपुब्बीए ।
परिसा कहणविही या फलं च आईइ छब्भेया ॥ वृ- ‘ख्या प्रकथने' इत्यस्य प्रत्यापूर्वस्य ल्युडन्तस्य प्रत्याख्यानं भवति, तत्र प्रत्याख्यायतेनिषिध्यतेऽनेन मनोवाक्कायक्रियाजालेन किञ्चिदनिष्टमिति प्रत्याख्यानं क्रियाक्रियावतोः कथञ्चिदभेदात् प्रत्याख्यानक्रियैव प्रत्याख्यानं प्रत्याख्यायतेऽस्मिन् सति वा प्रत्याख्यानं "कृत्यल्युटो बहुल' मिति वचनादन्यथाऽप्यदोषः प्रति आख्यानं प्रत्याख्यानमित्यादौ, तथा प्रत्याख्यातीति प्रत्याख्याता-गुरुर्विनयश्च, तथा प्रत्याख्यायत इति प्रत्याख्येयं-प्रत्याख्यानगोचरं वस्तु, चशब्दस्त्रयाणामपि तुल्यकक्षतोद्भावनार्थं, आनुपूर्व्या-परिपाट्या कथनीयमिति वाक्यशेषः, तथा परिषद् वक्तव्या, किंभूतायाः परिषदः, कथनीयमिति, तथा कथनविधिश्चकथनप्रकारश्च वक्तव्यः, तथा फलं चैहिकामुष्मिकभेदं कथनीयं, आदावेते षड् भेदा इति गाथासमासार्थः । व्यासार्थ तु यथाऽवसरं भाष्यकार एव वक्ष्यति, तत्राधावयव्यासार्थप्रतिपिपादयिषयाह[भा.२३८] नामंठवणादविए अइच्छ पडिसेहमेव भावे य ।
एए खलु छन्भेया पञ्चक्खाणंमि नायव्वा ।। वृ-नामप्रत्याख्यानं स्थापनाप्रत्याख्यानं 'दविए'त्ति द्रव्यप्रत्याख्यानं, 'अदिच्छति दातुमिच्छा दित्सा न दित्सा अदित्सा सैव प्रत्याख्यानमदित्साप्रत्याख्यानं 'पडिसेहे'त्ति प्रतिषेधप्रत्याख्यानं, ‘एवं भावे'त्ति एवं भावप्रत्याख्यानं च, 'एए खलु छन्भेया पच्चड्ढक्खाणंमि नायव्य'त्ति गाथादलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org