________________
२८०
आवश्यक मूलसूत्रम् -२-६/६२
निगदसिद्धमयं गाथासमुदायार्थः । अवयवार्थ तु यथावसरं वक्ष्यामः, तत्र नामस्थापने गतार्थे।। अधुना द्रव्यप्रत्याख्यानप्रतिपादनायाह[भा.२३९] दबनिमित्तं दव्वे दव्वभूओ व तत्थ रायसुआ।
अइच्छापच्चक्खाणं बंभणसमणा न (अ) इच्छत्ति ।। वृ. 'दब्बनिमित्तं' गाथाशकलम्, अस्य व्याख्या-द्रव्यनिमित्तं प्रत्याख्यानं वस्त्रादिद्रव्यार्थमित्यर्थः, यथा केषाञ्चित् साम्प्रतक्षपकाणां, तथा द्रव्ये प्रत्याख्यानं यथा भूम्यादौ व्यवस्थितः करोति, तथा द्रव्यभूतः-अनुपयुक्तः सन् यः करोति तदप्यभीष्टफलरहितत्वात् द्रव्यप्रत्याख्यानमुच्यते, तुशब्दाद् द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैर्द्रव्येष्विति, क्षुण्णश्चायं मार्गः, तत्थ रायसुय' त्ति अत्र कथानकं__एगस्स रन्नो धूया अन्नस्स रन्नो दिन्ना, सो य मओ, ताहे सा पिउणा आनिया, धम्म पुत्त ! करेहि त्ति भणिया, सा पासंडीणं दानं देति, अन्नया कत्तिओ धम्ममासोति मंसं न खामित्ति पञ्चक्खायं, तत्थ पारणए अनेगाणि सत्तसहस्साणि मंसत्थाए उवनीयाणि, ताहे भत्तं दिज्जति, तत्थ साहू अदूरेण वोलेंता निमंतिया, तेहिं भत्तं गहियं, मंसं नेच्छंति, सा य रायधूया भणइ-किं तुझं न ताव कत्तियमासो पूरइ ?, ते भणंति जावजीवाए कत्तिउत्ति, किं वा कह वा, ताहे ते धम्मकहं कहेंति, मंसदोसे य परिकहंति, पच्छा संबुद्धा पव्यतिया, एवं तीसे दव्वपञ्चक्खाणं, पछा भावपच्चक्खाणं जातं, अधुना अदित्साप्रत्याख्यानं प्रतिपाद्यते, तत्रेदं गाथाई, अदित्साप्रत्याख्याने 'बंभणसमणा अदिच्छत्ति हे ब्राह्मण हे श्रमण अदिस्तेति-न मे दातुमिच्छा, न तु नास्ति यद् भवता याचितं, ततश्चादित्सैव वस्तुतः प्रतिषेधात्मिकेति प्रत्याख्यानमिति गाथार्थः ॥ अधुना प्रतिषेधप्रत्याख्यानव्याचिख्यासयेदं गाथाशकलमाह[भा.२४०] अमुगं दिजउ मज्झं नत्यि ममं तं तु होइ पडिसेहो ।
सेसपयाण य गाहा पच्चक्खाणस्स भावंमि ॥ वृ- 'अमुगं दिजउ मज्झं गाहा व्याख्या-अमुकं घृतादि दीयतां मह्यं, इतरस्त्वाह-नास्ति मे तदिति, न तु दातुं नेच्छा, एष इत्थंभूतो भवति प्रतिषेधः, अयमपि वस्तुतः प्रत्याख्यानमेव, प्रतिषेध एव प्रत्याख्यानं २ ।। इदानीं भावप्रत्याख्यानं प्रतिपाद्यते, तत्रेदं गाथार्द्ध 'सेसपयाण य गाहा पञ्चक्खाणस्स भावंमि शेषपदानामागमनोआगमादीनां साक्षादिहानुक्तानां प्रत्याख्यानस्य सम्बन्धिनां गाथा कार्येति योगवाक्यशेषौ, इह गाथा प्रतिष्ठोच्यते, निश्चितिरित्यर्थः, 'गा प्रतिष्टालिप्सयोग्रन्थे चेति धातुवचनात्, 'भावंमि'त्ति द्वारपरामर्शः, भावप्रत्याख्यान इति । [भा.२४१] तं दुविहं सुअनोसुअ सुयं दुहा पुव्वमेव नोपुव्वं ।
पुव्वसुय नवमपुव्वं नोपुव्वसुर्य इमं चेव ।। वृ-'तं दुविहं सुतणोसुय'गाहा, ‘तद्' भावप्रत्याख्यानं द्विविधं-द्विप्रकारं 'सुत नोसुत'त्ति श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च 'सुयं दुहा पुव्वमेव नोपुव्व' श्रुतप्रत्याख्यानमपि द्विधा भवति-पूर्वश्रुतप्रत्याख्यानं नोपूर्व श्रुतप्रत्याख्यानं च, 'पुव्वसुय नवमपुव्वं' पूर्वश्रुतप्रत्याख्यानं नवमं पूर्वं, 'नोपुव्वसुयं इमं चेव' नोपूर्वश्रुतप्रत्याख्यानमिदमेव-प्रत्याख्यानाध्ययनमित्येतच्चोपलक्षणमन्यच्चातुरप्रत्याख्यानमहाप्रत्याख्यानादि पूर्वबाह्यमिति गाथार्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org