________________
२७८
आवश्यक मूलसूत्रम् -२-५/६२ इय भिदंति सुविहिया अट्टविहं कम्मसंघायं ॥ वृ- 'काउस्सग्गे' गाहा व्याख्या-कायोत्सर्गे सुस्थितस्य सतः यथा भज्यन्ते अङ्गोपाङ्गानि 'इय' एवं चित्तनिरोधेन ‘भिन्दन्ति' विदारयन्ति मुनिवराः-साधवः अष्टविधं-अष्टप्रकारं कर्मसङ्घात-ज्ञानावरणीयादिलक्षणमिति गाथार्थः॥ आह-यदि कायोत्सर्गे सुस्थितस्य भज्यन्ते अङ्गोपाङ्गानि ततश्च इष्टापकारत्वादेवालमनेनेति ?, अत्रोच्यते, सौम्य ! मैवंनि. (१५५२) अन्नं इमं सरीरं अन्नो जीवुथि एव कयबुद्धी ।
दुक्खपरिकिलेसकरं छिंद ममत्तं सरीराओ ।। वृ-'अनं इम' गाहा व्याख्या अन्यदिदं शरीरं निजकर्मोपात्तमालयमात्रमशाश्वतम्, अन्यो जीवोऽस्याधिष्ठाता शाश्वतः स्वकृतकर्मफलोपभोक्ता य इदं त्यजत्येव, एवं कृतबुद्धिः सन् दुःखपरिकेशकरं छिन्द्धि ममत्वं शरीरात, किं च-यद्यनेनाप्यसारेण कश्चिदर्थः सम्पद्यते पारलौकिकस्ततः सुतरां यलः कार्य इति गाथार्थः ।। किं चैवं विभावनीयम्नि. (१५५३) जावइया किर दुक्खा संसारे जे मए समनुभूया ।
इत्तो दुब्बिसहतरा नरएसु अनोवमा दुखा॥ वृ- 'जावइया' गाहा व्याख्या-यावन्त्यकृतजिनप्रणीतधर्मेण किलशब्दः परोक्षाप्तागमवादसंसूचकः दुःखानि शारीरमानसानि संसारे-तिर्यग्नरनारकामरभवानुभवलक्षणे यानि मयाऽनुभूतानि ततः-तेभ्यो दुर्विषहतराण्यग्रतोऽप्यकृतपुण्यानां नरकेषु-सीमन्तकादिषु अनुपमानि-उपमारहितानि दुःखानि, दुर्विषहत्वमेतेषां शेषगतिसमुत्थदुःखापेक्षयेति गाथार्थः।। नि. (१५५४) तम्हा उ निम्ममेणं मुनिना उवलद्धसुत्तसारेणं ।
काउस्सग्गो उग्गो कम्मखयट्ठाय कायव्यो ।
काउस्सग्गनिजुती समत्ता। वृ. 'तम्हा' गाथा, तस्मात् तु निर्ममेन-ममत्वरहितेन मुनिना-साधुना, किंभूतेन ?उपलब्धसूत्रसारेण-विज्ञातसूत्रपरमार्थेनेत्यर्थः, किं ? -कायोत्सर्गः- उक्तस्वरूपः उग्र-शुभाध्यवसायप्रबलः कर्मक्षयार्थं नतु स्वर्गादिनिमित्तं कर्तव्य इति गाथार्थः ।। उक्तोऽनुगम :, नयाः पूर्ववत् ।। शिष्यहितायां कायोत्सर्गांध्ययनं समाप्तम् ।
कायोत्सर्गविवरणं कृत्वा यदवाप्तमिह मया पुण्यम् । तेन खलु सर्वसत्त्वाः पञ्चविधं कायमुज्झन्तु ॥
अध्ययनं - ५ समाप्तम् मुनिदीपरत्नसागरेण संशोधिता सम्पादिता आवश्यकसूत्रे पंचमअध्ययनस्य भद्रबाहुस्वामिविरचिता नियुक्तिः, पूवाचार्य रचितं भाष्यं, हरिभद्रसूरिविरचिता टीका परिसमाप्ता ।
(अध्ययन-६-प्रत्याख्यानं ) वृ- व्याख्यातं कायोत्सर्गाध्ययनं, अधुना प्रत्याख्यानाध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने स्खलनविशेषतोऽपराधव्रणविशेषसम्भवे निन्दामात्रेणाशुद्धस्यौघतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org