________________
२६०
आवश्यक मूलसूत्रम् -२-५/३९ अभिगृह्यत इति अभिग्रहः अभिग्रहेण निवृत्त आभिग्रहिकः-कायोत्सर्गस्तदव्यतिरेकात् तत्कर्ताऽप्याभिग्रहिको भण्यते, असावफयभिभवकायोत्सर्गकार्य पीत्यर्थः, 'किमुत चेट्टा उत्ति किं पुनश्चेष्टाकायोत्सर्गकारी, स तु सुतरां न निरुणद्धि इत्यर्थः, किमित्यत आह-'सज्जमरणं निरोहे'त्ति सद्योमरणं निरोधे उच्छ्वासस्य, ततश्च ‘सुहुमुस्सासं तु जयणाए ति सूक्ष्मोच्छ्रासमेव यतनया मुञ्चति, नोल्वणं, मा भूत् सत्त्वघान इति गाथार्थः ॥
अधुना 'कासिते' त्यादिसूत्रार्थ-प्रच्किटिषयेदमाहनि. (१५११)कासखुअजंभिए मा हु सत्थमणिलोऽनिलस्स तिब्बुण्हो ।
असमाही य निरोहे मा मसगाई अ तो हत्थो । वृ-'कासखुयजंभिए' गाहा व्याख्या-इह कायोत्सर्गे कासातजृम्भितादीनि यतनया क्रियन्ते, किमिति ?-'मा हु सत्थमनिलोऽनिलस्स तिव्वुण्हो'त्ति मा शस्त्रं भविष्यति कासितादिसमुद्भवोऽनिलो-वायुरनिलस्य-बाह्यस्य वायोः, किंभूतः?-तीव्रोष्णः, बाह्यानिलोपेक्षया अत्युष्ण इत्यर्थः । न च न क्रियन्ते न च निरुध्यन्त एव न 'असमाही य निरोहे'त्ति (सर्वधारोधे) असमाधिश्च चशब्दात् मरणमपि सम्भाव्यते कासितादिनिरोधे सति, ‘मा मसगाईत्ति मा मसकादयश्च कासितादिसमुद्भवपवनश्लेष्माभिहता मरिष्यन्ति जृम्भिते च वदनप्रवेशं करिष्यन्ति ततो हस्तोऽग्रतो दीयत इति यतनेयमिति गाथार्थः । आह-निःश्वसितेनेति सूत्रावयवो न व्याख्यायते इति किमत्र कारणम् ?, उच्यते, उच्छृसितेन तुल्ययोगक्षेमत्वादिति,
इदानीम् 'उद्गारितेने' त्यादिसूत्रावयवव्याचिख्यासयाऽऽहनि. (१५१२) वायनिसगग्गुड्डोए जयणासद्दस्स नेव य निरोहो ।
उड्डोए वा हत्थो भमलीमच्छास अ निवेसो।। वृ- वातनिसर्गः-उक्तस्वरूप उद्गारोऽपि, तत्रायं विधिः-यतना शब्दस्य क्रियते न निसृष्टं मुच्यत इति, 'नेव य निरोहो'त्ति नैव च निरोधः क्रियते, असमाधिभावादेव, उद्गारे वा हस्तोऽन्तरे दीयत इति ‘भमलीमुच्छासु य निवेसो' मा सहसापतितस्यात्मविराधना भविष्यतीति गाथार्थः ॥ साम्प्रतं 'सूक्ष्मैरङ्गसञ्चारै'रित्यादिसूत्रावयवव्याचिख्यासयाऽऽहनि. (१५१३) वीरियसजोगयाए संचारा सुहुमबायरा देहे ।
बाहिं रोमंचाई अंतो खेलाणिलाईया ।।। वृ-वीर्यसयोगतया कारणेन संचाराः सूक्ष्मबादरा देहे अवश्यंभाविनो, वीर्यं वीर्यान्तरायक्षयोपशमक्षयजं खल्वात्मपरिणामो भण्यते योगास्तु-मनोवाक्कायास्तत्र वीर्यसयोग तयैवातिचाराः सूक्ष्मवादरा भवन्ति न केवलात् वीर्यादिति देह एव च भवति नादेहस्य, तत्र बही रोमञ्चादय आदिशब्दादुत्कम्पग्रहः 'अन्तो खेलानिलादीया' अन्तः-मध्ये श्लेष्मानिलादयो विचरन्तीत्यर्थंः, इति गाथार्थः । अधुना 'सूक्ष्मदृष्टिसञ्चारै रिति सूत्रावयवं व्याख्यानयति - नि. (१५१४) अव लोअचलं चक्खू मनुव्व तं दुक्करं थिरं काउं ।
रूवेहिं तयं खिप्पइ सभावओ वा सयं चलइ । वृ-अवलोकनमालोकस्तस्मिन्नवलोके चलं अवलोकचलं दर्शनलालसमित्यर्थः, किं ?-चक्षुःनयनं, यतश्चैवमतो मनोवद्-अन्तःकरणमिव तच्चक्षुर्दुष्करं स्थिरं कर्तुं, न शक्यत इत्यर्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org