________________
अध्ययनं-५- [नि. १५०४
२५९ अइयारो कओ' इत्यादि सूत्रमधो व्याख्यातत्वादनाध्त्य 'तस्स मिच्छामि दुक्कडंति सूत्रावयवं व्याचिख्यासुराहनि. (१५०५) मित्ति मिउमद्दवत्ते छत्ति अ दोसाण छायणे होइ ।
मित्ति य मेराइ ठिओ दुत्ति दुगुंछामि अप्पाणं ।। नि. (१५०६) कत्ति कडं मे पावं इत्तिय डेवेमि तं उवसमेणं ।
एसो मिच्छाउक्कडपयक्खरत्थो समासेणं ।।। वृ. इत्थं (द) गाथायुगलं यथा सामायिकाध्ययने व्याख्यातं तथैव दृष्टव्यमिति, साम्प्रतं 'तस्योत्तरीकरणेने ति सूत्रावयवं विवृण्वन्नाहनि. (१५०७) खंडियविरहियाणं मूलगुणाणं सउत्तरगुणाणं ।
उत्तरकरणं कीरइ जह सगडरहंगगेहाणं ।। - 'खण्डितविराधितानां' खण्डिताः-सर्वथ भग्ना विराधिताः-देशतो भग्ना मूलगुणानांप्राणातिपातादिवि-निवृत्तिरूपाणां सह उत्तरगुणैः-पिण्डविशुध्यादिभिर्वर्त्तत इति सोत्तरगुणास्तेषामुत्तरकरणं क्रियते, आलोचनादिना पुनः संस्करणमित्यर्थः, दृष्टान्तमाह-यथा शकटरथाङ्गगेहानांगन्त्रीचक्रगृहाणामित्यर्थः, तथा च शकटानां खण्डितविराधितानां अक्षावलकादिनोत्तरकरणं क्रियत इति गाथार्थः ।। अधुना 'प्रायश्चित्तकरणेने ति सूत्रावयवं व्याचिख्यासुराह-- नि. (१५०८) पावं छिंदइ जम्हा पायच्छित्तं तु भन्नई तेनं ।
पाएण वावि चित्तं विसोहए तेन पच्छित्तं ।। वृ- ‘पावं' गाहा, व्याख्या-पाप-कर्मोच्यते तत् पापं छिनत्ति यस्मात् कारणात् प्राकृतशॆल्या 'पायच्छित्तंति भण्यते, तेन कारणेन, संस्कृते तु पापं छिनत्तीति पापच्छिदुच्यते, प्रायसो वा चित्तं-जीवं शोधयति-कर्ममलिनं विमलीकरोति तेन कारणेन प्रायश्चित्तमुच्यते, प्रायो वा-बाहुल्येन चित्तं स्वेन स्वरूपेण अस्मिन् सतीति प्रायश्चित्तं, प्रायोग्रहणं संवरादेरपि तथाविधचित्तसद्भावादिति गाथार्थः ।। अधुना 'विशोधिकरणे' त्यादिसूत्रावयवव्याचिख्यासयाऽऽहनि. (१५०९) दव्वे भावे य दुहा सोही सल्लं च इक्कमिक्कंतु ।
. सव्वं पावं कम्मं भामिज्जइ जेन संसारे ॥ वृ. 'दव्वे भावे य दुहा सोही' गाहा-द्रव्यतो भावतश्च द्विविधा विशुद्धिः, शल्यं च, 'एक्कमेकं तु'त्ति एकैकं शुद्धिरपि द्रव्यभावभेदेन द्विधा, शल्यमपीत्यर्थः । तत्र द्रव्यशद्धिः रूपादिना वस्त्रादेर्भावशुद्धिः प्रायश्चित्तादिनाऽऽत्मन एव, द्रव्यशल्यं कण्टकशिलीमुखफलादि, भावशल्यं तु मायादि, सर्वं ज्ञानावरणीयादि कर्म पापं वर्तते, किमिति ? -भ्राम्यते येन कारणेन तेन कर्मणा जीवः संसारे-तिर्यग्नारकामरभवानुभवलक्षणे, तथा च दग्धरजुकल्पेन भवोपग्राहिणाऽल्पेनापि सता केवलिनोऽपि न मुक्तिमासादयन्तीति दारुणं संसारभ्रमणनिमित्तं कर्मेति गाथार्थः
साम्प्रतम् 'अन्यत्रोच्छुसितेने त्यवयवं विवृणोतिनि. (१५१०)उस्सासं न निरंभइ आभिग्गहिओवि किमुअ चिट्ठा उ?।
सञ्जमरणं निरोहे सुहुमुस्सासं तु जयणाए ।। वृ- ऊर्ध्वं प्रबलः श्वास उच्छ्रासः तं 'न निरंभइ'त्ति न निरुणद्धि, 'आभिग्गहिओवि'
Jain Education International
For Private & Personal Use Only For Privat
www.jainelibrary.org