________________
२६१
अध्ययनं-५- [नि. १५१४] यतो रूपैस्तदाक्षिप्यते स्वभावतो वा-स्वभावेन वा नैसर्गिकेण स्वयं चलति, आत्मनैव चलतीति गाथार्थः । यस्मादेवं तस्मात् नि. (१५१५) न कुणइ निमेसजुत्तं तत्थुव ओगे न झाण झाइज्जा ।
एगनिसिं तु पवनो झायइ साहू अनिमिसच्छोऽवि ।। कृन करोति निमेष(रोध) यलं कायोत्सर्गकारी, किमिति?,'तत्थुवओगे न झाण झाएजत्ति तत्र-निर्निमेषयत्ने तु प्रतिमां प्रतिपन्नो महासत्त्वो ध्यायति समर्थः अनिमेषाक्षोऽपि-अनिमिषे अक्षिणी यस्य सः अनिमिषाक्षः निश्चलनयन इति गाथार्थः ।।
अधुना एवमादिभिराकाररित्यादि-सूत्रावयवव्याचिख्यासयाहनि. (१५१६) अगनीओ छिदिज्ज व बोहियखोभाइ दीहडक्को वा ।
आगारेहिं अभग्गो उस्सग्गो एवमाईहिं ।। वृ. 'अगनि त्ति यदा ज्योतिः स्पृशति तदा प्रावरणाय कल्पग्रहणं कुर्वतो न कायोत्सर्गभङ्गः, आह-नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति ? येन तद् भङ्गो न भवति, उच्यते, नात्र नमस्कारपारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किं तु यो यत् परिमाणो यत्र कायोत्सर्ग उक्तस्तत ऊर्ध्वं परिसमाप्तेऽपि तस्मिन्नमस्कारमपठतो भङ्ग इत्यादि, अपरिसमाप्तेऽपि च पठतो भङ्ग एव, स चात्र न भवतीति, एवं सर्वत्र भावनीयं, 'छिंदिन वत्ति मार्जारीमूषकादिभिर्वा परतो यायात, अत्राप्यग्रतः सरतो न कायोसर्गभङ्गः, 'बोहियखोभाई त्ति बोधिकाः- स्तेनकास्तेभ्यः क्षोभः-संभ्रमः, आदिशब्दाद्राजादिक्षोभः, परिगृह्यते, तत्रास्थानेऽप्युच्चारयतो (ऽनुच्चारयतो) वा न कायोत्सर्गभङ्गो ‘दीहडक्को वेत्ति सर्पदष्टे चात्मनि परे वा सहसा-अकाण्ड एवोच्चारयतः, तथैव आक्रियन्त इत्याकारास्तैराकारैरभनः स्यात् कायोत्सर्ग एवमादिभिरिति गाथार्थः ॥
अधुनौघतः कायोत्सर्गविधिप्रतिपादनायाहनि. (१५१७) ते पुन ससूरिए चिय पासवणुच्चारकालभूमीओ ।
पेहित्ता अत्थमिए ठंतुस्सग्गं सए ठाणे ।। कृते पुनः कायोत्सर्गकर्तारः ससूर्य एव दिवसे प्रश्रवणोच्चारकालभूमयः (मीः) प्रत्युपेक्षन्ते, द्वादश प्रश्रवणभूमयः आलयपरिभोगान्तः षट् षट् बहिः, एवमुच्चारभूमयो द्वादश, प्रमाणं चासां तिर्यग् जघन्येन हस्तमात्रमधश्चत्वार्यङ्गुलानि यावत् अचेतनं, उत्कृष्टतस्तु स्थण्डिलं द्वादश योजनमानं, न च तेनेहाधिकारः, तिस्त्रस्तु कालभूमयः-कालमण्डलाख्याः, यावच्चैनमन्यं चश्रमणयोगं कुर्वन्ति कालवेलायां तावत् प्रायसोऽस्तमुपयात्येव सविता ततश्च 'अस्थमिए ठंति उस्सग्गं सए ठाणे'त्ति उक्तमन्यथा यस्य यदैव व्यापारपरिसमाप्तिर्भवति स तदैव सामयिक कृत्वा तिष्ठतीति गाथार्थः ।। अयं च विधिः केनचित् कारणान्तरेण गुरोयाघाते सति । नि. (१५१८) जइ पुन निव्वाधाए आवासं तो करिति सव्वेवि ।
सड्ढाइकहणवाघाययाइ पच्छा गुरू ठति ।। वृ- 'जइ पुन निवाघाओ' व्याख्या यदि पुनर्निर्व्याघात एव सर्वेषामावश्यक-प्रतिक्रमण ततः कुर्वन्ति सर्वेऽपि सहैव गुरुणा 'सड्ढादिकहणवाघाते पच्छा गुरु ठंति'त्ति निगदसिद्धमिति गाथार्थः ।। यदा च पश्चाद् गुरवस्तिष्ठन्ति तदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org