SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ २३५ सेवनाभिमुखतया, तथा प्रीति रुचिश्चभिन्ने एव, यतः क्वचिद्दध्यादौ प्रीतिसद्भावेऽपि न सर्वदा रुचिः, 'फासेमि' त्ति स्पृशामि आसेवनाद्वारेणेति 'अनुपालेमि' अनुपालयामि पौनःपुन्यकरणेन 'तं धम्मं सद्दहंतो' इत्यादि, तं धर्म श्रद्दधानः प्रतिपद्यमानः रोचयन् स्पृशन् अनुपालयन् 'तस्स धम्मस्स अभुट्टिओमि आराधनाए 'त्ति तस्य धर्मस्य प्रागुक्तस्य अभ्युत्थितोऽस्मि आराधनायाम्आराधनविषये 'विरतोमि विराधनाए 'त्ति विरतोऽस्मि निवृत्तोऽस्मि विराधनायां विराधनाविषये, एतदेव भेदेनाह- 'असंजमं परियाणामि, संजम उवसंपजामि' असंयमं प्राणातिपातादिरूपं प्रतिजानामीति ज्ञपरिज्ञया विज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्यामीत्यर्थः, तथा संयमंप्रागुक्तस्वरुपं उपसंपद्यामहे (द्ये), प्रतिपद्याम (हे) इत्यर्थः, तथा 'अबंभं परियाणामि बंभ उवसंपज्जामि' अब्रह्म- बस्त्यनियमलक्षणं विपरीतं ब्रह्म, शेषं पूर्ववत्, प्रधानासंयमाङ्गत्त्वाच्चाब्रह्मणो निदान परिहारार्थमनन्तरमिदमाह, असंयमाङ्गत्वादेवाह - 'अकप्पं परियाणामि कप्पं उवसंपजामि' अकल्पोऽकृत्यमाख्यायते कल्पस्तु कृत्यं इति, इदानीं द्वितीयं बन्धकारणमाश्रित्याह, यत उक्तं (च)"अस्संजमो य एक्को अन्नाणं अविरई यदुविहं" इत्यादि । 'अन्नाणं परियाणआमि नाणं उवसंपज्जामि' अज्ञानं सम्यगूज्ञानादन्यत् ज्ञानं तु भगवद्वचनजं, अज्ञानभेदपरिहरणायैवाह-'अकिरियं परियाणामि किरियं उवसंपज्जामि' अक्रिया - नास्तिवादः क्रिया- सम्यग्वादः । तृतीयं बन्धकारणमाश्रित्याह'मिच्छत्तं परियाणामि सम्मत्तं उवसंपज्जामि' मिथ्यात्वं पूर्वोक्तं सम्यक्त्वमपि, एतदङ्गत्वादेवाह'अबोहिं परियाणामि बोहिं उवसंपज्जामि' अबोधिः- मिथ्यात्वकार्य बोधिस्तु सम्यक्त्वस्येति इदानीं सामान्येनाह - 'अमरगं परियाणामि मग्गं उवसंपजामि' अमार्गो-मिथ्यात्वादिः मार्गस्तु सम्यग्दर्शनादिरिति । इदानीं छद्मस्थत्वादशेषशुद्ध्यर्थमाह अध्ययनं ४ [ नि. १४१७] - मू. (३३) जं संभरामि जं च न संभारमि जं पडिक्कमाभि जं च न पडिक्कमामि तस्स सव्वस्स देवसियरस अइयारस्स पडिक्कमामि समणोऽहं संजयविरयपडिहयपच्चक्खायंपावकम्मो अनियाणो दिट्टिसंपन्नो मायामोस विवजिओ । वृ- यत् किञ्चित् स्मरामि यच्च छद्मस्थानाभोगान्नेति, तथा 'जं पडिक्कमामि जं च न पडिक्कमामि' यत् प्रतिक्रमामि आभोगादिविदितं यच्च न प्रतिक्रमामि सूक्ष्ममविदितं, अनेन प्रकारेण यः कश्चिदतिचारः कृतः 'तस्स सव्वस्स देवसियरस अयिरस्स पडिक्कमामि'त्ति कण्ठ्यं, इत्थं प्रतिक्रम्य पुनरकुशलप्रवृत्तिपरिहारायात्मानमालोचयन्नाह 'समणोऽहंसंजयविश्यपडिहयपचक्खायपावकम्मो अनियाणो दिट्ठिसंपन्नो मायामोसविवजिओ' त्ति श्रमणोऽहं तत्रापि न चरकादिः, किं तर्हि ?, संयतः सामस्त्येन यतः इदानी, विरतो - निवृत्तः अतीतस्यैष्यस्य च निन्दासंवरणद्वारेण अत एवाहप्रतिहत प्रत्याख्यातपापकर्मा, प्रतिहतम् इदानीमकरणतया प्रत्याख्यातमतीतं निन्दया एष्यमकरणतयेति, प्रधानोऽयं दोष इतिकृत्वा ततशुन्यतामात्मनो भेदेन प्रतिपादयन्नाह 'अनिदानो' निदानरहितः सकलगुणमूलभूतगुणयुक्ततां दर्शयन्नाह - 'द्दष्टिसंपन्नः' सम्यग्दर्शनयुक्त इत्यर्थः । वक्ष्यमाणद्रव्यवन्दनपरिहारायाह-मायामृषाक्विर्जकः (विवर्जितः) - मायागभमृपावादपरिहारीत्युक्तं भवति । एवंभूतः सन् किं ? - मू. (३४) अड्डाइजेसु दीवसमुद्देसु पनरससु कम्मभूमीसु जावंति केइ साहू स्यहरणगुच्छ्पडिग्गहधारा पंचमहव्वयधारा | अड्डारसहस्ससीलंगधारा अक्खयायारचरिता ते सव्वे सिरसा मणसा मत्थएण www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy