________________
२३४
आवश्यक-मूलसूत्रम् -२. ४/३१ नास्योत्तरं विद्यत इत्यनुत्तरं, यथावस्थितसमस्तवस्तुप्रतिपादकत्वात् उत्तममित्यर्थः, यदि नामेदमीत्थम्भूतमन्यदप्येवम्भूतं भविष्यतीत्यत आह-'केवलियं' केवलमद्वितीयं नापरमित्थंभूतमित्यर्थः यदि नामेदमित्थभूतंतथाप्यन्यस्याप्यसंभवादपवर्गप्रापकैर्गुणैः प्रतिपूर्ण न भविष्यतीत्यत आह-'पडिपुन्नं'ति प्रतिपूर्णमपवर्गप्रापकैगुणैर्भूतमित्यर्थः, भृतमपि कदाचिदात्मभरितया न तन्नयनशीलं भविष्यतीत्यत आह-'नेयाउयंति नयनशीलं नैयायिकं, मोक्षगमकमित्यर्थः, नैयायिकमप्यसंशुद्धं-संकीर्णनाक्षेपेण नैयायिकं भविष्यति इत्यतआह-'संसुद्धं ति सामस्त्येन शुद्धं संशुद्धं, एकान्ताकलङ्कमित्यर्थः, एवंभूतमपिकथञ्चित्तथास्वाभाव्यान्नालंभवति बन्धननिकृन्तनाय (इदमपि तथा) भविष्यतीत्यत आह-'सल्लगत्तणं'ति कृन्ततीति कर्तनं शल्यानि-मायादीनि तेषां कर्तनं, भवनिबन्धनमायादिशल्यच्छेदकमित्यर्थः, परमतनिषेधार्थे त्वाह___ 'सिद्धिमगं मुत्तिमगं' सेधनं सिद्धिः-हितार्थप्राप्तिः सिद्धार्गः सिद्धिमार्गः, मोचनं मुक्तिःअहितार्थकर्मविच्युतिस्तस्या मार्गो मुक्तिमार्ग इति, मुक्तिमार्ग-केवलज्ञानादिहितार्थप्राप्तिद्वारेणाहितकर्मविच्युतिद्वारेणच मोक्षसाधकमितिभावना, अनेन चकेवलज्ञानादिविकलाः सकर्मकाश्च मुक्ता इति दुर्नयनिरासमाह, विप्रतिपत्तिनिरासार्थमाह-निजाणमणं निव्वाणमगं' यान्ति तदिति यानं 'कृत्यल्युटो बहुलं' इति वचनात् कर्मणि ल्युट्, निरुपम यानं निर्यानं, ईषत्प्राग्भाराख्यं मोक्षपदमित्यर्थः तस्य मार्गो निर्याणमार्ग इति, निर्याणमार्ग:-विशिष्टनिर्वाणप्राप्तिकारणमित्यर्थः, अनेनानियतसिद्धिक्षेत्रप्रतिपादनपरदुर्णयनिरासमाह, निवृतिनिर्वाणं-सकलकर्मक्षयजमात्यन्तिकं सुखमित्यर्थः, निर्वाणस्य मार्गो निर्वाणमार्ग इति, निर्वाणमार्गः परमनिवृतिकारणमिति हृदयं, अनेन च निःसुखदुःख मुक्तात्मान इति प्रतिपादनपरदुर्णयनिरासमाह, निगमयन्नाह-इदं च "अवितहमविसंधि सव्यदुक्खप्पहीणमग्गं' अवितथं-सत्यं अविसन्धि-अव्यवच्छिन्नं, सर्वदा अवरविदेहादिषु भावात्, सर्वदुःखप्रहीणमार्ग-सर्वदुःखप्रहीणो-मोक्षस्तत्कारणमित्यर्थः, साम्प्रतंपरार्थकरणद्वारेणस्य चिन्तामणित्वमुपदर्शयन्नाह-“एत्थट्टि, (इत्थंट्ठि) या जीवा 'सिझंति'त्ति ‘अत्र' नैर्ग्रन्थे प्रवचने स्थिता जीवाः सिध्यन्तीत्यणिमादिसंयमफलं प्राप्नुवन्ति 'बुझंती'ति बुध्यन्ते केवलिनो भवन्ति 'मुच्चंति'त्ति मुच्यन्ते भवोपग्राहिकर्मणा ‘परिनिब्वायंति'त्ति परि-समन्तात् निर्वान्ति, किमुक्तं भवति ? - सव्वदुक्खाणमंतं करिति'त्ति सर्वदुःखानां शारीरमानसभेदानां अन्तं-विनाशं कुर्वन्तिनिर्वत्त-यन्ति । इत्थभिधायाधुनाऽत्र चिन्तामणिकल्पे कर्ममलप्रक्षालनसलिलौघं श्रद्धानमाविष्कुर्वन्त्राह__ मू. (३२) तं धम्म सद्दहामि पत्तियामि रोएमिफासेमि अनुपालेमि, तं धम्म सद्दहतो पत्तिअंतो रोयंतो फासंतो अनुपालंतो तस्स धम्मस्स अब्भुडिओमि आराहणाए विरओमि विराहणाए असंजम परिआणामि संजमं उवसंपञ्जामि अबभं परिआणामि बंभं उवसंपञ्जामि अकप्यं परियाणामि कय्य उवसंपञ्जामि अन्नाणं परिआणामि नाणं उवसंपजामि अकिरियं परियाणामि किरियं उवसंपन्जामि मिच्छत्तंपरियाणामिसम्मत्तं उपसंपन्जामिअबोहिं परियाणामि बोहिं उवसंपज्जामिअमगं परियाणामि मग उवसंपजामि।
वृ- य एष नैर्ग्रन्थ्यप्रावचनलक्षणो धर्म उक्तः तं धर्म श्रद्दध्महे (धे) सामान्येनैवमयमिति 'पत्तियामि'त्ति प्रतिपद्यामेह (घ) प्रीतिकरणद्वारेण 'रोएमित्ति रोचयामि, अभिलाषातिरेकेणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org