________________
उपोद्घातः - [ नि. १०५ ]
पातकाले देवो, न तु प्रतिपद्यामानक इति, तुशब्दाज्जघर्न्यस्थितौ च वर्त्तमानः पूर्वप्रतिपन्नत्वान्न लभते, आयुष्कजघन्यस्थितौ च वर्तमानो न पूर्वप्रतिपन्नो नापि प्रतिद्यमानकः, जघन्यायुष्कस्य क्षुल्लकभवग्रहणाधारत्वात्, तस्य च वनस्पतिषु भावातू; तत्र च पूर्वप्रतिपन्नप्रतिपद्यमानकाभावात्, प्रकृतीनां च उत्कृष्टेतरभेदभिन्ना खल्वियं स्थितिः - आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोटयः परा स्थितिः, सप्ततिर्मोहनीयस्य नामगोत्रयोविंशतिः, त्रयस्त्रिंशत्साग रोपमाण्यायुष्कस्य, इति, जघन्या तु द्वादश मुहूर्त्ता वेदनीयस्य नामगोत्रयोरष्टौ शेषाणान्तर्मुहूर्तं इति गाथार्थः ॥ नि. (१०६)
सत्तण्हं पयडीणं अब्भितरओ उ कोडिकोडीणं । काऊण सागराणं जइ लहइ चउण्हमन्नयरं ॥
वृ- आह- किमेता युगपदेव उत्कृष्टां स्थितिमासादयन्ति उत एकस्यां उत्कृष्टस्थितिरूपायां संजातायां अन्या अपि नियमतो भवन्ति आहोस्विदन्यथा वा वैचित्र्यमत्रेति, उच्यते अत्र विधिरिति, मोहनीयस्य उत्कृष्टस्थितौ शेषाणामपि षण्णामुत्कृष्टैव, आयुष्कप्रकृतेष्तु उत्कृष्टा वा मध्यमा वा, न तु जघन्येति, मोहनीयरहितानां तु शेषप्रकृतीनां अन्यतमाया उत्कृस्थितेः सद्भावे मोहनीयस्य शेषाणां च उत्कृष्टा वा मध्यमा वा, न तु जघन्येति प्रासङ्गिकं । द्वितीयगाथाख्या - सप्तानामायुष्करहितानां कर्मप्रकृतीनां या पर्यन्तवर्तिनी स्थितिस्तामङ्गीकृत्य सागरोपमाणां कोटीकोटी तस्याः कोटीकोट्या अभ्यन्त रत एव तुशब्दोऽवधारणार्थः, कृत्वाऽऽत्मानमिति गम्यते 'यदि लभते यदि प्राप्नोति, चतुर्णो श्रुतसामायिकादीनामन्यतरत्, तत एव लभते नान्यथेति पाठान्तरं वा 'कृत्वा सागरोपमाणां स्थितिं लभते चतुर्णामन्यतरत्' इत्यक्षरगमनिका । अवयवार्थोऽभिधीयते सप्तानां प्रकृतीनां यदा पर्यन्तवर्त्तिनी सागरोपमकोटीकोटी पल्योमासंख्येयभागहीना भवति, तदा घनरागद्वेषपरिणामोऽत्यन्तदुर्भेद्यदारुग्रन्थिवत् कर्मग्रन्थिर्भवतीति, आह च भाष्यकार:
६५
"गंठित्ति सुदुब्भेओ कक्खडघणरूढगूढगंठिव्व । जीवस्स कम्मजणिओ घनरागद्दोसपरिणामो || इत्यादि"
तस्मिन् भिन्ने सम्यक्त्वादिलाभ उपजायते, नान्यथेति, तद्भेदश्च मनोविघातपरिश्रमादिभिः दुस्साध्यो वर्तते, तथाहि स जीवः कर्मरिपुमध्यगतः तं प्राप्य अतीव परिश्राम्यति, प्रभूतकर्मारातिसैन्यान्तकृत्त्वेन संजातखेदत्वात्, संग्रामशिरसीव दुर्जयापाकृतानेकशत्रुननरनरेद्रभटवत् । अपरस्त्वाह- किं तेन भिन्नेन ? किं वा सम्यक्त्वादिनाऽवाप्तेन !, यथाऽतिदीर्घा कर्मस्थितिः सम्यक्त्वादिगुणरहितेनैव क्षपिता, एवं कर्मशेषमपि गुणरहित एव क्षपयित्वा विवक्षितफलभाग् भवतु, अत्रोच्यते, स हि तस्यामवस्थायां वर्त्तमानोऽनासादितगुणान्तरो न शेषक्षपणया विशिष्टफलप्रसाधनयालं, चित्तविधातादिप्रचुरविघ्नत्वात् विशिष्टाप्राप्तपूर्वफलप्राप्त्यासन्नत्वात् प्रागभ्यस्तक्रियया तस्यावाप्तुमशक्यत्वाच्च, अनेकसंवत्सरानुपालिताचाम्लादिपुरश्चरणक्रियासादितगुणान्तरो ऽारस हायक्रियारहितविद्यासाधकवत्, तथा चाह भाष्यकारः"पाएण पुव्वसेवा परिमउई साहणंमि गुरुतरिआ ।
24 5
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org