________________
आवश्यक मूलसूत्रम्-१
तयैवोपकुरुते, तस्वभावत्वात् गृहशोधने पवनप्रेरितकचवरागमनिरोधेन वातायनादि-स्थगनवत, एवं त्रयाणामेव, अपिशब्दोऽवधारणार्थः, अथवा संभावने, किं संभावयति ?- त्रयाणामपि' ज्ञानादीनां, किंविशिष्टानां ? -निश्चयतः क्षायिकानां, न तु क्षायिकोपशमिकानामिति, समायोगे' संयोगे 'मोक्षः' सर्वथाऽष्टविधकर्ममलवियोगलक्षणः, जिनानां शासनं जिनशासनं तस्मिन् 'भणितः' उक्तः । आह- 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इत्यागमो विरुध्यते, सम्यग्दनिमन्तरेण उक्तलक्षणज्ञानादित्रयादेव मोक्षप्रतिपादनादिति, उच्यते, सम्यग्दर्शनस्य ज्ञानविशेषत्वाद् रुचिरूपत्वात् ज्ञानान्तर्भावाद् अदोष इति गाथार्थः ॥
इह यत् प्राक् नियुक्तिकृताऽभ्यधायि 'श्रुतज्ञानेऽपि जीवो वर्तमानः सन्न प्राप्नोति मोक्ष' इत्यादि प्रतिज्ञागाथासूत्रं, तत्रैव सूत्रसूचितः खल्वयं हेतुरवगन्तव्यः, कुतः?-तस्य क्षायोपशमिकत्वात्, अवधिज्ञानवत् इति, क्षायिकज्ञानाद्ययाप्तौ च मोक्षप्राप्तिरिति तत्त्वं, अतः श्रुतस्यैव क्षायोपशमिकत्वमुपदर्शयन्नाहनि. (१०४) भावे खओवसमिए दुवालसंगपि होइ सुयनाणं ।
केवलियनाणलंभो नन्नत्य खए कसायाणं ॥ कृ-भवनं भावः तस्मिन्, स चौदयिाद्यनेकभेदः, अत आह-'क्षायोपशमिके' द्वादश अङ्गानि यस्मिंस्तत द्वादशाङ्गं भवति श्रुतज्ञानं, अपिशब्दाद् अङ्गबाह्यमपि, तथा मत्यादिज्ञानत्रयमपि, तथा सामायिकचतुष्टयमपि, तथा केवलस्य भावः कैवल्यं घातिकर्मवियोग इत्यर्थः, तस्मिन् ज्ञानं कैवल्यज्ञानं, 'कैवल्ये सति' अनेन ज्ञानग्रहणेनाज्ञानिप्रकृतिक्तपुरुषप्रतिपादनपरनयमतव्यवच्छेदमाह, तत्र 'बुद्ध्यध्यवसितमर्थं पुरुषन्नेतयते' इति वचनात् प्रकृतिमुक्तस्य च बुद्ध्यभावात् ज्ञानाभाव इति, तस्य लाभः-प्राप्तिः, कथं ?--'कषायाणां' क्रोधादीनां क्षये सति 'नान्यत्र' नान्येन प्रकारेण, इह च छद्मस्थवीतरागावस्थायां प्राधान्यख्यापनार्थमिति, कषायक्षय एव सति निर्वाणं भवति, तद्भावे त्रयणामपि सम्यक्त्वादीनां क्षायिकत्वसिद्धेः । आह-एवं तर्हि यदादावुक्तं 'श्रुतज्ञानेऽपि जीवो वर्तमानः सन्न प्राप्नोति मोक्षं, यस्तपः संयमात्मकयोगशून्यः' इति, तद्विशेषणमनर्थंक, श्रुते तपः संयमात्मकयोगसहिष्णोरपि मोक्षाभावादिति, अत्रोच्यते, सत्यमेतत्, किंतु क्षायोपशमिकसम्यक्त्वश्रुतचारित्राणामपि समुदितानां क्षायिकसम्यक्त्वादि-निबन्धनत्वेन पारम्पर्येण मोक्षहेतुत्वाददोषः ।। आह-इष्ट मस्माभिः मोक्षकारणकारणं श्रुतादि, तस्यैव कथमलाभो लाभो वेति, अत्रोच्यते, नि. (१०५) अट्ठण्हं पयडीणं उक्कोसठिइइ वट्टमाणो उ।
जीवो न लहइ सामाइयं चउण्हपि एगयरं ।। वृ. 'अष्टानां इति संख्या, कासां ? - ज्ञानावरणीयादिकर्मप्रकृतीना, उत्कृष्टा चासौ स्थितिः चोत्कृष्टस्थितिः तस्यां 'वर्तमानो' भवन् ‘जीवः' आत्मा 'न लभते' न प्राप्नोति, किं तत ? - “सामायिक पूर्वव्याख्यातं, किंविशिष्ट? -'चतुर्णामपि सम्यक्त्वश्रुतदेशविरति-सर्वविरतिरूपाणां ‘एक तरम्' अन्यतमत् इतियावत्, अपिशब्दात् मत्यादि च, न केवलं न लभते, पूर्वप्रतिपन्नोऽपि न भवति, यतोऽवाप्तसम्यक्त्वो हि न पुनस्तत्परित्यागेऽपि ग्रन्थिमुल्लङ्घय उत्कृष्टस्थितीः कर्मप्रकृतीः वघ्नोति, आयुष्कोत्कृष्टस्थिौ पुनर्वर्तमानः पूर्वप्रतिपत्रको भवति, अनुत्तरविमानोप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org