________________
उपोद्घातः - [ नि. १०१ ]
६३
आह एवं ज्ञानक्रिययोः समुदितयोरपि निर्वाणप्रसाधकमासर्थ्यानुपपत्तिः प्रसज्यते, प्रत्येकभावात्, सिकतातैलवत्, अनिष्टं चैतदिति, अत्रोच्यते, समुदायसामर्थ्य हि प्रत्यक्षसिद्धं, यतो ज्ञानक्रियाभ्यां कटादिकार्यसिद्धय उपलभ्यन्ते एव, न तु सिकतासु तैलं, न च दृष्टमपह्नोतुं शक्यते, एवमाभ्यामष्टकार्यसिद्धिरप्यविरुद्धैव, तस्माद्यत्किञ्चिदेतत् । तथा किञ्च न सर्वथैवानयोः साधनत्वं नेष्यते, देशोपकारित्वात्, देशोपकारित्वमभ्युपगम्यत एव यत आह
नि. (१०२) संजोगसिद्धीइ फलं वयंति, नहु एगचक्केण रहो पयाइ । अंधोय पंगू य वने समिच्चा, ते संपउत्ता नगरं पविट्ठा ||
वृ- किंतु तदेव समुदायं समग्रत्वादिष्टफलसाधकं, केवलं तु विकलत्वात् इतरसापेक्षत्वादसाधकमिति, अतः केवलयोरसाधकत्वं प्रतिपादितमिति, अलं विस्तरेण, उक्तसंबन्धगाथाव्याख्यानं प्रकटार्थत्वान्न वितन्यते, नवरं 'समेत्ये' -त्युक्तेऽपि 'तौ संप्रयुक्ता' विति पुनरभिधानमात्यन्तिकसंयोगोपदर्शनार्थमिति । एत्थं उदाहरणं- एगंमि रण्णे रायभएण नगराओ उव्वसिय लोगो ठितो, पुणोवि धाडिभयेण य वहनानि उज्झिअ पलाओ, तत्थ दुवे अनाहप्पाओ, अंधो पंगू य, उज्झिया, गयाए धाडीए लोगग्गिणा वातेन वनदवी लग्गो, ते य भीया, अंधो छुट्ट कच्छो अग्गितेण पलायइ, पंगुणा भणितं अंध ! मा इतो नास णं, इतो चेव अग्गी, तेन भणितं कुतो पुण गच्छामि ? पंगुणा भणितं - अहंपि पुरतो अतिदूरे मग्गदेसणाऽसमत्यो पंगू, तामं खंधे करेहि, जेण अहिकंटकजलणादि अवाए परिहरावेंतो सुहं ते नगरं पावेमि, तेणं तहत्ति पडिवजिय अनुट्ठितं पंगुवयणं, गया य खेमेण दोवि नगरं ति । एस दिट्ठतो, अयमत्थोवणओ - णाणकिरियाहिं सिद्धिपुरं पाविज्जइत्ति । प्रयोगश्च विशिष्टकारणसंयोगोऽभिलषितकार्यप्रसाधकः, सम्यक्रियोपलब्धिरुपत्वात्, अन्धपङ्गवोरिव नगरावाप्तिरिति । यः पुनरभिलषितफलसाधको न भवति, स सम्यक्रियोपलब्धिरूपोऽपि न भवति, इष्ट गमनक्रियावकलविघटितैकचक्ररथवदिति व्यतिरेकः । आह-ज्ञानक्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते ? किमविशेषण शिबिकोद्वाहकवद्, उत भिन्नस्वभावतया गमनक्रियायां नयनचरणादिव्रातवद् इति, अत्रोच्यते, भिन्नस्वभावतया, यत आह
नि. (१०३) नाणं पयासगं सोहओ तवो संजमो य गुत्तिकरो । तिहंपि समाजोगे मोक्खो जिनसासने भणिओ ||
;
,
वृ- तत्र कचवरसमन्वितमहागृहशोधनप्रदीपपुरुषादिव्यापारवद् इह जीवगृहकर्मकचवरभृतशोधनालम्बनो ज्ञानादीनां स्वभावभेदेन व्यापारोऽवसेय इति समुदायार्थः । तत्र ज्ञायतेऽनेनेति ज्ञानं तच्च प्रकाशयतीति प्रकाशकं तच्च ज्ञानं प्रकाशकत्वेनैवोपकुरुते, तत्स्वभावत्वात्, गृहमलापनयने प्रदीपवत्, क्रिया तु तपः संयमरूपत्वाद् इत्थमुपकुरुते -- शोधयतीति शोधकं, किं तदिति, आह-तापयत्यनेकभवोपात्तमष्टविधं कर्मेति तपः, तच्च शोधकत्वेनैवोपकुरुते, तत्स्वभावत्वाद्, गृहकचवरोज्झनक्रियया तच्छोधने कर्मकरपुरुषवत्, तथा संयमनं संयमः, भावे अप्प्रत्ययः, आश्रवद्वारविरमणमितियावत्, चशब्दः पृथग् ज्ञानादीनां प्रक्रान्तफलसिद्धौ भिन्नोपकारकर्त्तुत्वावधारणार्थः, गोपनं गुप्तिः, स्त्रियां क्तिन् आगन्तुककर्म-कचवरनिरोध इतिहृदयं, गुप्तिकरणशीलो गुप्तिकरः, ततश्च संयमोऽपि अपूर्वकर्मकचवरा गमनिरोध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org